________________ हेत्वाभासप्रकरणे सव्यभिचारः 479 शब्दत्वाभाव इत्येकं व्याप्तिज्ञानं साध्यनिरूपितव्याप्तिज्ञानं विपक्षव्यावृत्तत्वज्ञानेन जायते, द्वितीयं यत्र नित्यत्वं तत्र शब्दत्वाभाव इति सपक्षव्यावृत्तत्वज्ञानेन जायते। तथा च विरोधिपरामर्शलक्षणो यः सत्प्रतिपक्षस्तदुत्थापनद्वाराऽसाधारणस्य दूषकत्वमिति भावः / अत्राशङ्कते - न चैवमिति टीका / तथा च यदि असाधारणस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वं तदा सत्प्रतिपक्षेऽसाधारणोद्भावनं न स्यात् / यथा सत्प्रतिपक्षे सत्प्रतिपक्षान्तरस्योद्भावनं नास्ति तद्वत् सत्प्रतिपक्षेऽसाधारणस्याप्युद्भावनं न स्यात् / असाधारणेनापि सत्प्रतिपक्ष एव कर्तव्यः / स च सत्प्रतिपक्षः स्थापनानुमाने सिद्ध एवास्ति इत्याशङ्कार्थः / समाधत्ते - तदुद्भावनस्येति टीका / सत्प्रतिपक्षे यथा सत्प्रतिपक्षोद्भावनं नास्ति तथाऽसाधारणेऽपि सत्प्रतिपक्षोद्भावनं नास्त्येव त्यावेष्टापत्तिरिति साम्प्रदायिकाः / अत्र मिश्रमतेन मूले दूषणमुद्भावयति - अत्र वदन्तीति टीका। मूलकारणोच्यते - असाधारणस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वम् / तत्र वदन्ति - तस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वं न सम्भवतीति / कुत इत्यत आह - योऽनित्यत्वेति टीका / असाधारणस्थले व्यतिरेकव्याप्तिग्रहः एतादृशः - यो नित्यत्वाभाववान् स शब्दत्वाभाववान् / अनित्यत्वे साध्ये नित्यत्वमेव विरुद्धम् तथा च विरोधिपरामर्श एतादृशो वक्तव्यः - नित्यत्वव्यापकाभावप्रतियोगि यच्छब्दत्वं तद्वान् अयमिति, परामर्श नित्यत्वव्यापकाभावरूपो यः शब्दत्वाभावस्तस्याभावो यः शब्दत्वं तस्य निश्चयोऽवश्यं वक्तव्यः, अन्यथा शब्दत्वस्य पक्षधर्मताया अग्रहे व्याप्तिपक्षधर्मताज्ञानाभावे परामर्श एव कथं स्यादिति / शब्दत्वाभावरूपं यद् व्यापकं तदभावो यत् शब्दत्वं तस्य निश्चयोऽवश्यं वक्तव्यः / ततः किमित्यत आह - नित्यत्वाभावरूपस्येति टीका / नित्यत्वाभावरूपस्य व्याप्यस्य / तथा च यत्र यत्र नित्यत्वाभावोऽनित्यत्वं तत्र तत्र शब्दत्वाभाव इत्यत्र व्यापकः शब्दत्वाभावः व्याप्यस्तु नित्यत्वाभावः, ततो व्यापकाभाववत्तया निश्चिते [245 B] व्याप्यस्य यः सन्देहः स व्यभिचारसन्देहः, ततः सन्दिग्धानैकान्तिकस्य विद्यमानत्वात् कथं व्यभिचारसन्देहे व्याप्तिग्रहः स्यात् व्याप्तिग्रहाभावे च सत्प्रतिपक्षोत्थापनमपि कथं स्यात् ? यथा प्रकृते शब्दोऽनित्यः शब्दत्वात् इत्ययमसाधारणः, अनेनासाधारणेन सत्प्रतिपक्षोत्थापनं कर्तव्यम्, तच्च कीदृशम् ? शब्दोऽनित्यः शब्दत्वात् अत्र सत्प्रतिपक्षो यथा शब्दः नित्यः शब्दत्वात् इत्यत्र नित्यत्वमनित्यत्वाभावरूपं साधनीयम्, तथा च शब्दः नित्यः शब्दत्वात् इति सत्प्रतिपक्षे एतादृशो व्यतिरेकव्याप्तिग्रहः - तथाहि यत्र यत्र नित्यत्वाभावो नामाऽनित्यत्वं तत्र शब्दत्वाभाव इति / व्यतिरेकव्याप्तिग्रहोऽनित्यत्वानुमाने यः सपक्षो घटादिकं तस्मात् शब्दत्वस्य व्यावृत्तत्वज्ञानाद् भविष्यति / कथम् ? नित्यत्वाभावो वर्तते घटे तस्मात् शब्दत्वं व्यावृत्तमिति कृत्वा यत्र नित्यत्वाभावस्तत्र शब्दत्वाभाव इति व्याप्तिग्रहो भवतीति वक्तव्यम् / स च न सम्भवति / कुतः ? पक्षीयव्यभिचारज्ञानस्य प्रतिबन्धकत्वात् / कथम् ? शब्दत्वाभावो नित्यत्वाभावस्य व्यापकः, तस्य व्यापकस्य