________________ 478 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विपक्षव्यावृत्तत्वेन कृत्वा व्यतिरेकव्याप्त्या साध्यसाधनवत्सपक्षव्यावृत्त्या साध्याभावोऽपि कथं न साधनीयस्तुल्यांशत्वात् / साध्यांशे विपक्षव्यावृत्तत्वरूपसाधकवत् साध्याभावांशेऽपि सपक्षव्यावृत्तत्वरूपसपक्ष(साधक)स्य विद्यमानत्वात् साध्याभावोऽपि तेन कथं [न] साधनीयः इति प्रतिबन्दि(न्धि)मुखेन विपक्षव्यावृत्तत्वमुद्भाव्यते। एतदेवाह - सपक्षव्यावृत्ततयेति मूलम् / ननु तर्हि यद्वेति पक्षे विपक्षव्यावृत्तत्वस्य दृष्टान्तमुखेनोद्भावनं तदा विपक्षव्यावृत्तत्वं प्रति वादिनाऽनुमानदूषणत्वेन नोद्भावनीयं स्यादित्यत आह - लक्षणं तु इति मूलम् / असाधारणस्य तु लक्षणमनुमानदूषणार्थं सपक्षव्यावृत्तत्वमात्रम् न तु विपक्षव्यावृत्तत्वं व्यर्थविशेषणत्वात् / दृष्टान्तार्थमेव विपक्षव्यावृत्तत्वमित्यर्थः / ननु सपक्षव्यावृत्तत्वमेव चेदनुमानदूषणं तदा विरुद्धोऽप्यसाधारणः स्यात् तस्यापि सपक्षव्यावृत्तत्वादित्यत आह - विरुद्धमिति मूलम् / विरुद्धमनेनोपाधिना सपक्षव्यावृत्तत्वरूपोपाधिना असाधारणमेव तथा चेष्टापत्तिरित्यर्थः / यदि च विरुद्धः सपक्षव्यावृत्तत्वेनासाधारणो न भवति तदा तत्र बाधकमाह - अन्यथेति मूलम् / एतदवगमे विरुद्ध सपक्षव्यावृत्तत्वरूपस्यावगमे विरुद्धस्य साध्याभावव्याप्तत्वरूपस्याज्ञाने सति अपि अनुमितिप्रतिबन्धात् षष्ठहेत्वाभासत्वापत्तिः / कुतः ? सपक्षव्यावृत्तत्वेन रूपेणासाधारणस्तु त्वया नोच्यते, साध्याभावव्याप्तत्वलक्षणं विरुद्धहेतुत्वं त्वया ज्ञातमेव नास्ति, तर्हि विरुद्धः को वा हेत्वाभासः स्यादित्यर्थः / अथ टीका / न तु अर्थादिति स्वमते लगति, अर्थापत्तेनैयायिकमते प्रमाणत्वानङ्गीकारादित्यत आह - परमते इति टीका / तथा च परमताभिप्रायेणेदमुक्तम् न तु स्वमताभिप्रायेणेत्यर्थः / ननु प्राभाकरमतेऽपि व्यतिरेक्यनुमानं नास्ति / कथं व्यतिरेकितयेत्युक्तमित्यत आह - स्वमते इति / ननु मूले यदुक्तं साध्यतदभावोत्थापकतयेति तदलग्नम् / कुतः ? असाधारणस्य किं सत्प्रतिपक्षोत्थापकतया दूषकत्वम्, किं वा विरुद्धव्याप्तिग्रहसामा युत्थापनद्वारा दूषकत्वम्, किं वा परस्परव्याप्तिग्रहप्रतिबन्धकतया दूषकत्वम् ? यदि तस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वं तदा साध्यतदभावोत्थापकतयेति न लगति, न हि सत्प्रतिपक्षे साध्यसाध्याभावोत्थापनं जायते [245 A] | साध्यसाध्याभावोत्थापनं नाम साध्यसाध्याभावानुमितिः, सा तु न जायते, किन्तु साध्यसाध्याभावानुमित्यनुकूलव्याप्तिपक्षधर्मतोपस्थितिरेव जायते। द्वाभ्यां परामर्शाभ्यां परस्परकार्यप्रतिबन्धात् नानुमितिः / द्वितीयपक्षेऽपि विरुद्धव्याप्तिग्रहसामा युत्थापनद्वारापि [सा अनुमितिर्न जायते] / परस्परव्याप्तिग्रहप्रतिबन्धपक्षे साध्याभावोत्थापकत्वशङ्काऽपि नास्ति, व्याप्तिज्ञानमेव न जातम् कुतोऽनुमितिरित्यन्यथा व्याचष्टे - साध्याभावेति टीका। तथा च साध्यसाध्याभावानुमितिं प्रति यदनुकूलं यद् व्यतिरेकव्याप्तिद्वयं स(त)त्सहितं यत् पक्षधर्मताज्ञानमनित्यत्वव्यापकाभावप्रतियोगिमान् अयं नित्यत्वव्यापकाभावप्रतियोगिमांश्चेति रूपम्, तज्ज्ञानविषयतयाऽसाधारणस्य दूषकत्वम् / व्याप्तिद्वयं च - यत्र अनित्यत्वं तत्र