________________ हेत्वाभासप्रकरणे सव्यभिचारः 477 इति कारणात् शब्दत्वमनित्यात् सपक्षात् व्यावृत्तं तदा नित्यत्वविपक्षात् व्यावृत्तम् इयं नित्यत्वव्यतिरेकव्याप्तिग्रहसामग्री, अनित्यत्वविपक्षात् गगनादिभ्यः शब्दत्वं यदि व्यावृत्तं [244 A] तदाऽनित्यत्वव्यतिरेकव्याप्तिग्रहसामग्री, उभयव्यतिरेकव्याप्तिग्रहसामग्रीसमवधाने सति व्यतिरेक्यनुमानेन शब्दत्वमनित्यत्वं वा साधयेत् नित्यत्वं वेति सत्प्रतिपक्षोत्थापकतयाऽसाधारणं दोषः / अयमेव सत्प्रतिपक्षो यत्र द्वौ विरोधिपरामर्शी / अत्र तु तौ स्तः यथाऽनित्यत्वाभावव्यापकाभावप्रतियोगिमान् अयमिति परामर्शो नित्यत्वानुमितिहेतुभूतः परामर्शः, द्वितीयस्तु नित्यत्वाभावव्यापकाभावप्रतियोगिमान् अयमिति तु अनित्यत्वानुमितिहेतुभूतः परामर्शः इति सत्प्रतिपक्षोत्थापकतयाऽसाधारणस्य दूषकत्वमिति विावे]केन प्रघट्टकार्थः / ननु यदि असाधारणस्य विरोधिपरामर्शोत्थापकतया दूषकत्वं तदा सत्प्रतिपक्षादस्य भेदो न स्यात् / सत्प्रतिपक्ष एवायं भवतु, सत्प्रतिपक्षणापि विरोधिपरमर्शद्वयमेवोत्थाप्यते इत्यत आह - सत्प्रतिपक्षे इति मूलम् / यथा सत्प्रतिपक्षौ द्वौ हेतू - पर्वतो वह्रिमान् धूमात्, पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इति हेतुद्वयम् / अत्र तु असाधारणे शब्दत्वमेव एक एव हेतुः इत्यस्य तस्माद् भेदः / ननु सपक्षविपक्षव्यावृत्तत्वं चेदसाधारणत्वं तदा परार्थानुमाने पञ्चावयववाक्यरूपे विपक्षव्यावृत्तत्वं कथमुद्भावनीयं तस्य विपक्षव्यावृत्तत्वस्य प्रत्युत साध्यानुमित्यनुकूलत्वादित्यत आह - असाधारणेनेति मूलम् / तथा च परेणानित्यत्वानुमानवादिनं प्रति असाधारण्यदूषणदात्रा सपक्षव्यावृत्तत्वमात्रमुद्भावनीयम् न तु विपक्षव्यावृत्तत्वमपि तस्य प्रत्युतानुमित्यनुकूलत्वात् / तेन परार्थानुमाने सपक्षव्यावृत्तत्वमेवोद्भावनीयम् तावतैव दुष्टत्वात् तस्येति भावः / प्रतिकूलत्वादिति / अनुमितिदूषणवादिना अनुमित्यङ्गोद्भावने विपक्षव्यावृत्तत्वोद्भावने प्रतिकूलत्वमेव दूषणदातुरेवानिष्टापत्तिरित्यर्थः / दूषणान्तरमाह - व्यर्थत्वादिति मूलम् / अयमसाधकः सपक्षव्यावृत्तत्वादित्येव सार्थकम् / विपक्षव्यावृत्तत्वं तु स्वार्थानुमान एव सत्प्रतिपक्षोत्थापकतया दूषणम् / उक्तरीत्या सपक्षविपक्षव्यावृत्तत्वज्ञानाभ्यां सत्प्रतिपक्षपरामर्शद्वयमेव क्रियत इति तत्रैव विपक्षव्यावृत्तत्वं सार्थकम् / यद्वेति मूलम् / न हि मया विपक्षव्यावृत्तत्वमनुमानदूषणार्थमुद्भाव्यते किन्तु विपक्षव्यावृत्तत्वं दृष्टान्तीकृत्य यथाकाशे सपक्षव्यावृत्तत्वमेवोद्भाव्यते। यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वमनित्यत्वाभाववद्गगनाद् व्यावृत्तं सत् यत्रानित्यत्वाभावस्तत्र शब्दत्वाभावः यथाकाशे इति व्यतिरेकव्याप्त्या शब्दे(ब्दत्वे)नानित्यत्वं साधनीयम् अनित्यत्वाभावव्यापकाभावप्रतियोगिमत्त्वात् [244 B] | शब्दत्वात् यथाऽनित्यत्वं साधनीयं तथाऽनित्याद् घटाद् व्यावृत्तं सत् यत्रानित्यत्वं तत्र शब्दत्वाभाव इति नित्यत्वस्याभावो यत् अनित्यत्वं तद् घटादिषु वर्तते तस्माद् व्यावृत्तं शब्दत्वं यत्रानित्यत्वं तत्र शब्दत्वाभाव इति नित्यत्वस्य व्यतिरेकव्याप्त्याऽनित्यत्वाभावव्यापकाभावप्रतियोगिशब्दत्ववान् अयम् इति परामर्शात् नित्यत्वस्यापि शब्दत्वे कथं न सिद्धिः व्यापकाभावे व्याप्याभावस्यावश्यंभावनियमात् / तस्माद् यथा