________________ 476 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका शब्दत्वेऽभावः स्यादित्यर्थः पुनरपि विविच्य लिख्यते / सर्वत्र व्यतिरेकिणि मर्यादेयं यतः साध्याभाववतो विपक्षात् हेतुश्चेद् व्यावृत्तस्तदा साध्याभाववति विपक्षे साध्याभावहेत्वभावयोर्यः सहचारग्रहः स साध्यव्यतिरेकव्याप्त्युपयोगी साध्यव्यतिरेकसहचारग्रहः, तादृशसाध्यव्यतिरेकसहचारग्रहानन्तरं साध्याभावव्यापकहेत्वभाव इति व्यतिरेकव्याप्तिग्रहानन्तरं साध्याभावव्यापकाभावप्रतियोगिमान् अयम् इति व्यतिरेकिपरामर्शः, तदनन्तरं साध्याभावो नास्तीति [243 B] व्यतिरेक्यनुमितिः / यथा पर्वतो वह्रिमान् धूमात् इत्यत्र हृदो वह्नयभाववान् भवति, तथा च वन्यभाववति हृदे यत्र वन्यभावस्तत्र धूमाभाव इति व्यतिरेकसहचारः, तादृशव्यतिरेकसहचारग्रहानन्तरं यत्र वढ्यभावः तत्र धूमाभाव इति व्यतिरेकव्याप्तिग्रहानन्तरं वह्नयभावव्यापका[भावाप्रतियोगिधूमवान् अयम् इति परामर्शः, तदनन्तरमनुमितिर्जायतेऽत्र वढ्यभाववान् नेति / तद्वत् प्रकृते शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वमनित्यात् घटात् सपक्षात् व्यावृत्तम्, विपक्षात् आकाशात् नित्यात् व्यावृत्तम्, एवंरूपेण शब्दत्वं व्यावृत्तं तिष्ठति। ततोऽनित्यत्वनित्यत्वयोर्भावाभावरूपता। नित्यत्वस्याभावोऽनित्यत्वम्, अनित्यत्वस्याभावो नित्यत्वम्, एवमुभयोः परस्पराभावरूपता। तथा च शब्दत्वं यदि अनित्येभ्यो घटादिभ्यः सपक्षेभ्यो व्यावृत्तं तदा यत्रानित्यत्वं तत्र शब्दत्वाभाव इत्ययं यः सहचारग्रहः स नित्यत्वस्य व्यतिरेकसहचारग्रहो यतोऽनित्यत्वस्य नित्यत्वाभावरूपत्वम्। तथा चायमेव नित्यत्वस्य व्यतिरेकसहचारः, तेन नित्यत्वव्यतिरेकसहचारेण एतादृशो व्याप्तिग्रहो जायते यथा शब्दत्वाभावोऽनित्यत्वव्याप्यः इति नित्यत्वव्यतिरेकव्याप्तिग्रहः तदनन्तरं यदि बाधसत्प्रतिपक्षादिरूपा विरोधिसामग्री नास्ति तदा नायमनित्य इति नित्य एव पर्यवसन्नः इति व्यतिरेक्यनुमितिः / एवं शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वं विपक्षात् नित्यात् आकाशादेः सकाशात् व्यावृत्तं चेत् तदाऽनित्यत्वव्यतिरेकव्याप्तिग्रहः यथाऽनित्यत्वाभाववान् विपक्षो नित्यो गगनादिः तस्मात् यदि व्यावृत्तं तदाऽनित्यत्वव्यतिरेकव्याप्तिग्रहः सिद्धः / कथम् ? यथा यत्र अनित्यत्वस्य व्यतिरेको नाम नित्यत्वं तच्चानित्यत्वविपक्षे नित्ये गगनादौ वर्तते तथा च यत्र नित्यत्वं तत्र शब्दत्वाभाव इत्यनित्यत्वव्यतिरेकसहचारात् नित्यत्वव्याप्यः शब्दत्वाभाव इति अनित्यत्वव्यतिरेकव्याप्तिग्रहो जायते / तदनन्तरमनित्यत्वाभावरूपं यत् नित्यत्वं तद्व्यापको योऽभावः शब्दत्वाभावः तत्प्रतियोगिमान् अयम् इति परामर्शात् नायं नित्य इत्यनित्यत्वानुमितिर्विरोधिसामा यभावे जायते / एवमुक्तप्रकारेण शब्देऽनित्यत्वे साध्यमाने शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वं यदि अनित्यात् सपक्षात् व्यावृत्तं तदा नित्यत्वविपक्षात् व्यावृत्तम् / एवं पूर्वोक्तप्रकारेण नित्यत्वव्यतिरेकव्याप्तिग्रहः यदि अनित्यात् व्यावृत्तं तदेत्यर्थः / यदि चानित्यत्वविपक्षात् व्यावृत्तं तदा यत्रानित्यत्वाभावो नाम नित्यत्वं तत्र शब्दत्वाभाव इति अनित्यत्वविपक्षव्यावृत्त्याऽनित्यत्वव्यतिरेकव्याप्तिग्रहो जायते, तथा च नित्यत्वानित्यत्वयोः परस्परं भावाभावरूपतयाऽनित्यत्वस्य यः सपक्षः स नित्यत्वस्य विपक्ष