________________ 482 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारज्ञाने निरस्ते उभयत्र विरुद्धव्याप्तिपक्षधर्मताज्ञानेऽवतीर्णे सत्प्रतिपक्षावतार उभयोः समानबलत्वात् भविष्यति, ततः सिद्धमसाधारणस्य सत्प्रतिपक्षोत्थापकत्वमेव दूषकताबीजमित्यत आह - किञ्चैवमिति टीका / तथा च हेत्वाभासानां यो भेदः स दूषकताबीजभेदादेव यथा साधारणविरुद्धयोः, साधारणस्याव्यभिचारज्ञानविघटनद्वारा विरुद्धस्य च सहचारज्ञानविघटनद्वारा / तद्वत् असाधारणस्य सत्प्रतिपक्षस्य च भेदो वक्तव्यः, स च दूषकताबीजभेदो नास्ति, तत्र सत्प्रतिपक्षे विरुद्धव्याप्तिपक्षधर्मताज्ञानमसाधारणेऽपि विरुद्धव्याप्तिपक्षधर्मताज्ञानम् / तथाहि - यथा शब्दोऽनित्यः शब्दत्वात् शब्दो नित्यः व्योमैकविशेषगुणत्वात् इति सत्प्रतिपक्षेऽनित्यत्वव्याप्यशब्दत्ववान् अयम् अथवा नित्यत्वव्याप्यव्योमैकविशेषगुणवान् अयम् इति वा [247 A] सत्प्रतिपक्षो विरुद्धव्याप्तिपक्षधर्मताज्ञानद्वयात्मा। असाधारणे तु शब्दोऽनित्यः शब्दत्वात् इत्यत्र अनित्यत्वा-. भावव्यापकाभावप्रतियोगिमान् अयं नित्यत्वाभावव्यापकाभावप्रतियोगिमान् अयम् इति विरुद्धव्यतिरेकपरामर्शद्वयात्मा [असाधारणः] यतोऽत्र शब्दत्वस्य सपक्षविपक्षव्यावृत्तत्वमुभयं वर्तते / तत्र विपक्षव्यावृत्तत्वं साध्यव्यतिरेक्यनि(नु)मित्यनुकूलः साध्यव्यतिरेकपरामर्शः, सपक्षव्यावृत्तत्वं विद्यतेऽतः तेन साध्याभावव्यतिरेक्यनुमित्यनुकूलः साध्याभावव्यतिरेकपरामर्शः / तत्र प्रथमद्वितीयावप्युक्तरूपौ द्वावपि परामर्शी परस्परानुमितिप्रतिबन्धको सत्प्रतिपक्षावेव / साध्यव्यतिरेकपरामर्शस्तु अनित्यत्वाभावव्यापकाभावप्रतियोगिमान् अयम् / यथाऽन्वयव्याप्त्यभावात् व्यतिरेकसहचारात् व्यतिरेकव्याप्तिग्रहो यथा यत्र अनित्यत्वाभावस्तत्र शब्दत्वाभावः व्याप्तिस्तु इयमेव शब्दत्वाभावोऽनित्यत्वाभावव्याप्य एवेति, तदनन्तरमनित्यत्वाभावव्यापकाभावप्रतियोगिमान् अयम् इति परामर्शो जायते, इदं विपक्षव्यावृत्तत्वेन यतोऽनित्यत्वस्य विपक्ष आकाशादिस्ततः शब्दत्वस्य व्यावृत्तत्वात् प्रथमः परामर्शः / द्वितीयस्तु परामर्शः सपक्षव्यावृत्तत्वेन, यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वस्य अनित्यात् घटादेः सपक्षात् व्यावृत्तत्वं वर्तते, तदाऽनित्यत्वस्य यः सपक्षो घटादिः स नित्यत्वस्य साध्याभावस्य विपक्षः, ततः साध्याभावेऽपि व्यतिरेकसहचारात् व्यतिरेकव्याप्तिग्रहो यथा यत्र अनित्यत्वाभावो नाम नित्यत्वं तत्र शब्दत्वाभावो यथा घटे इति, व्यतिरेकसहचारात् शब्दत्वाभावोऽनित्यत्वव्याप्यः इतीदं साध्याभावव्यतिरेकव्याप्तिज्ञानम्, ततोऽनित्यत्वव्यापकाभावप्रतियोगिमान् अयम् इति द्वितीयः साध्याभावव्यतिरेकपरामर्शः / ततोऽयं शब्दत्वहेतुर्विरुद्धपरामर्शद्वयात्मा सत्प्रतिपक्ष एव, न तु असाधारणो हेत्वाभासान्तरम् / ततोऽसाधारणस्य सत्प्रतिपक्षात् भेदो नास्ति इति कृत्वाऽसाधारणः सत्प्रतिपक्षात् भिन्नो नास्तीत्युक्तं किञ्चैवमित्यारभ्य भेदो न स्यादित्यन्तेन ग्रन्थेन / ननु सत्प्रतिपक्षौ(क्षे) द्वौ हेतू असाधारणे त्वेक एव हेतुरिति सत्प्रतिपक्षात् भेदोऽस्य भविष्यतीत्यत आह - हेतुभेद इति टीका / तथा च न हि हेतुभेदमात्रं दूषकताबीजम् / न हि हेतुभेदमात्रेण तत्र सत्प्रतिपक्षता हेत्वैकत्वेन त्वसाधारणतेति। ततो हेतुभेदमात्रेण हेत्वैक्येन च किमित्यत