________________ 474 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ग्रहविघटकतया स्वतोऽसाधारण्यं दूषकं न भवति इति कृत्वा परमुखनिरीक्षकतयाऽसाधारणोऽपि हेत्वाभासो न स्यात् / यथा उपाधिः स्वतो दूषको न भवति / किन्तु व्याप्तिज्ञानकारणीभूतव्यभिचारज्ञानाभावरूपकारणविघटकतया [242 B] उपाधेर्दूषकत्वं न तु स्वतः, तद्वत् व्याप्तिज्ञानकारणीभूतसहचारज्ञानकारणविघटकतया परमुखनिरीक्षकत्वात् उपाधिवत् हेत्वाभासान्तरं न स्यादित्याशङ्कार्थः / समाधानमाह - पूर्वपक्षिणेति / यः पूर्वपक्षी असाधारणं दूषयति तस्य तदिष्टमेव, मास्तु असाधारणो हेत्वाभासः / असाधारणव्यतिरेकेणापीति फक्किका व्याचष्टे - असाधारणेति टीका / न्यूनत्वेऽसाधारण्यं नोपजीव्यं यतोऽसाधारण्याभावेऽपि अप्रतिभादिनापि दृष्टान्तास्फुरणात् / यदा दृष्टान्तप्रयोगो न कृतस्तदापि न्यूनत्वसम्भवादित्यसाधारणस्य न्यूनत्वोपजीव्यं व्यभिचारीत्यर्थः / ननु व्यतिरेकिप्रयोगे इति मूलमनन्वितम् / कुतः ? पूर्वोक्तदूषणानुद्धारात् / कथम् ? व्यतिरेकिप्रयोगे जातेऽपि असाधारण्यं किमु(मि)त्युद्भावनीयं तत्रापि सपक्षव्यावृत्त्या दृष्टान्ताभावादेवं न्यूनत्वसम्भवात् / न्यूनत्वेनैव निग्रहो भविष्यतीत्यत आह - व्यतिरेकिप्रयोगे सम्पूर्ण इति टीका। तथा च कथं न्यूनत्वं न भवतीत्यत आह - तथा चेति टीका। सम्पूर्णता चान्वयदृष्टान्तेन वा भवति व्यतिरेकिदृष्टान्तेन वा भवति, तथा च व्यतिरेकिदृष्टान्तेन सम्पूर्णस्य जातत्वादित्यर्थः / तथा च न्यूनत्वाभावादसाधारण्यमेवोद्भावनीयमित्यर्थः / अकिञ्चित्करत्वादिति। असाधारण्यस्य शब्दनिष्ठत्वस्य व्याप्तिपक्षधर्मतयोरप्रतिक्षेपे असाधारण्यज्ञाने विद्यमाने पक्षधर्मताविघटनाभावात् व्याप्तिज्ञानविघटनाभावाच्चासाधारण्यस्याकिञ्चित्करत्वम् / एतदेव व्याचष्टे - तत्रेति टीका। असाधारणस्थले सहचारज्ञानविघटनद्वारापि न व्याप्तिग्रहप्रतिबन्धकत्वम्, अन्वयसहचारज्ञानाभावेनान्वयव्याप्त्यग्रहेऽपि व्यतिरेकसहचारात् व्यतिरेकव्याप्तिग्रहस्य जायमानत्वात् / स्वार्थानुमान इति टीका / तथा चेति टीका / उभयव्यावृत्तत्वस्य सपक्षविपक्षव्यावृत्तत्वस्य कुत्राप्युपयोगो नास्ति स्वार्थानुमानपरार्थानुमानयोरुभयोरपि / यतः सपक्षव्यावृत्तेरन्वयसहचारज्ञानप्रतिबन्धकत्वात् दूषकत्वम्, विपक्षव्यावृत्तिस्तु नोभयसहचारज्ञानप्रतिबन्धिकेति न विपक्षव्यावृत्तिर्दूषणमिति पूर्वपक्षार्थः।। उच्यते / शब्दत्वं साध्यवतस्तदभाववतश्च निवृत्तत्वेन ज्ञातमा व्यतिरेकितया वा पक्षे साध्यं तदभावं च साधयेत् [उभयोः] अविशेषात्, अन्यथा पक्षवृत्तित्वानुपपत्तिरिति साध्यतदभावोत्थापकतया स्वार्थानुमानेऽसाधारणो दोषः, सत्प्रतिपक्षे द्वौ हेतू तथा, अत्र त्वेक एवेति तयोर्भेदः / असाधारणेन व्यतिरेकिप्रयोगे परस्य सर्वसपक्षव्यावृत्तत्वमात्रमुद्भाव्यं साध्याभावोत्थापकत्वात् न तु विपक्षव्यावृत्तत्वमपि प्रतिकूलत्वात् व्यर्थत्वाच्च / यद्वा विपक्षव्यावृत्ततया साध्यमिव सपक्षव्यावृत्ततया