________________ 473 हेत्वाभासप्रकरणे सव्यभिचारः तत्र शब्दत्वेऽतिव्याप्तिः / तदानीं शब्दत्वं हेत्वाभासो न भवति अनुमितेर्जायमानत्वात् / लक्षणं सपक्षविपक्षव्यावृत्तत्वरूपं तत्राप्यस्तीत्यतिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - संशयविरोधीति / तथा च संशयविरोधिविशेषदर्शनविरहकालीनसर्वसपक्षविपक्षव्यावृत्तत्वस्य विवक्षितत्वात् / एवं च साध्याभावव्यापकाभावप्रतियोगित्वलक्षणो यदा व्यतिरेकव्याप्तिग्रहोऽवतीर्णः उक्तरूपः तदानीं संशयविरोधिविशेषदर्शनविरहकालीनसर्वसपक्षविपक्षव्यावृत्तत्वं नास्ति, अत्र तु साध्याभावव्यापकाभावे प्रतियोगिमत्त्वलक्षणं विशेषदर्शनं वर्तते इति न तत्रातिव्याप्तिः / यदि संशयविरोधीति पदं नोच्यते तदा विशेषदर्शनविरहकालीनसर्वसपक्षविपक्षव्यावृत्तत्वमसाधारण्यमित्युक्तौ असाधरण एवाव्याप्तिः / शब्दोऽनित्यः शब्दत्वादित्यसाधारणज्ञानकाले एव [242 A] हेतुज्ञानलक्षणविशेषदर्शनस्य विद्यमानत्वात् / यतः शब्दत्वज्ञानरूपो(पं) यत् विशेषदर्शनं तत् संशयविरोधि न भवति। कुतः ? सपक्षविपक्षव्यावृत्तत्वज्ञानाभ्याम् उभयनिरूपितव्यतिरेकव्याप्तिग्रहे विद्यमानेऽपि संशयतादवस्थ्यात् / अत एव एकस्मिन्नेव उच्चत्वादियुक्ते धर्मिणि स्थाणुत्वव्याप्यवक्रकोटरादिमान् अयं पुरुषत्वव्याप्यकरादिमान् अयम् इत्युभयविशेषदर्शने विद्यमानेऽपि संशयतादवस्थ्यात् / कुत्रचिदधःप्रदेशे भ्रमाद् वक्रकोटरादिकं दृष्टम्, कुत्रचिदुपरिप्रदेशे भ्रमात् करादिकमपि दृष्टम् इत्युभयविशेषदर्शने सत्यपि स्थाणुर्वा पुरुषो वा इत्यादि संशयतादवस्थ्यम्, तद्वत् प्रकृतेऽपि सपक्षविपक्षव्यावृत्तत्वरूपविशेषदर्शने विद्यमानेऽपि यथाऽनित्यत्वाभावव्यापकाभावप्रतियोगिशब्दत्वम् अथवा नित्यत्वव्यापकाभावप्रतियोगिशब्दत्वमिति विशेषदर्शने विद्यमानेऽपि शब्दोऽनित्यो न वेति संशयतादवस्थ्यात् / ततः संशयविरोधीति विशेषदर्शनविशेषणम्। संशयविरोधिविशेषदर्शनं किम् ? आप्तवाक्यजन्यमनुकूलतर्कादिसहकृतं वा विशेषदर्शनं संशयविरोधि / अथवा पूर्वोक्तातिव्याप्तिनिराकरणार्थं समाधानान्तरमुद्भाव्य दूषयति - हेत्वाभासत्वेनेति टीका / तथा च शब्दोऽनित्यः शब्दत्वात् इत्यत्र आप्तवाक्यात् शब्दत्वे हेतौ अनित्यत्वाभावव्यापकाभावप्रतियोगित्वग्रहे जातेऽपि हेत्वाभासत्वं शब्दत्वे नास्तीति न तत्रातिव्याप्तिः / इदं मतं दूषयति - पक्षान्तरेति। यदा शब्दो न पक्षः कृतः किन्तु घट एव पक्षीकृतो यथा घटोऽनित्यः शब्दत्वात् इति अत्रोक्तव्यतिरेकव्याप्तिग्रहोऽवतीर्णः, आप्तवाक्यात् यत्रानित्यत्वाभावव्यापकाभावप्रतियोगिशब्दत्वमित्येतादृशे व्याप्तिग्रहे जातेऽपि घटे पक्षे शब्दत्वस्य स्वरूपासिद्धत्वमपि तिष्ठति / तथा च हेत्वाभासरूपविशेषणे दत्तेऽपि नातिव्याप्तिपरिहारः / यतस्तत्र हेत्वाभासत्वमपि वर्तते सपक्षविपक्षव्यावृत्तत्वमपि तिष्ठति। असाधारणस्तु शब्दत्वं न भवति आप्तवाक्यात् व्याप्तेनिर्णयात् / तथा चेति टीका / यदा शब्देऽनित्यत्वनिश्चयो जातस्तदा सर्वसपक्षव्यावृत्तत्वमेव नास्ति पक्षस्यैव सपक्षत्वात् इति शब्दत्वे नातिव्याप्तिरित्यर्थः / व्याप्तिग्राहकमिति मूले शङ्कते - नन्विति टीका / व्याप्तिग्राहको यः सहचारग्रहः यथा यत्र शब्दत्वं तत्रानित्यत्वमिति, एतादृशसहचार