________________ 472 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षधर्मताज्ञानं विघट्यते सपक्षविपक्षव्यावृत्तत्वज्ञानस्य पक्षधर्मताज्ञानविरोधित्वाभावात्। नापि व्याप्तिविघटनद्वारा / यद्यपि सपक्षव्यावृत्तत्वज्ञानेनान्वयव्याप्तिर्विघट्यते तथापि व्यतिरेकव्याप्तेरप्रतिक्षेपात् अविघटनात् विपक्षव्यावृत्तत्वज्ञानेन व्यतिरेकव्याप्तेरप्रतिक्षेपात् विपक्षव्यावृत्तिस्तु व्यतिरेकाव्याप्तावनुगुणैव / दूषणान्तरमाह - स्वार्थेति / स्वार्थानुमाने सपक्षव्यावृत्तिरेव दोषो न तु विपक्षव्यावृत्तिः, सर्वसपक्षव्यावृत्तौ दृष्टान्ताभावात् सर्वसपक्षव्यावृत्तेरनुमितिप्रतिबन्धकत्वम्, परं स्वार्थानुमाने विपक्षव्यावृत्तेः प्रतिबन्धकत्वमेव नास्ति अनुगुणत्वात् / ननु परार्थानुमानेऽपि सपक्षव्यावृत्तिरेव दोषो विपक्षव्यावृत्तिस्तु अकिञ्चित्करैवेति मूलकृता स्वार्थानुमानमेव किमर्थमुक्तमिति चेन्न / अभिप्रायापरिज्ञानात् / परार्थानुमितौ विपक्षव्यावृत्तः(तेः) कश्चनोपयोगोऽस्ति / कथम् ? शब्दोऽनित्यः शब्दत्वात् इत्यत्रानुमानप्रयोगे सति अपरवादिना वक्तव्यम् - अयं सपक्षविपक्षव्यावृत्त इति कृत्वाऽसाधारणः। तदुपरि शब्दानित्यत्ववादिना वक्तव्यम् - यदि विपक्षव्यावृत्तस्तदा यत्रानित्यत्वाभावस्तत्र शब्दत्वाभाव इति व्यतिरेकव्याप्तिग्रहद्वारा विपक्षव्यावृत्त्या तवानुमितिः अनित्यत्वानुमितिर्भविष्यति यथा शब्दोऽनित्य इति / इत्यनित्यत्ववादिना उक्ते सति तदृष्टान्तेनैवासाधारण्यवादी दूषणं प्रयच्छति यथा विपक्षव्यावृत्त्या यत्र अनित्यत्वाभावस्तत्र [241 B] शब्दत्वाभाव इति व्यतिरेकव्याप्त्या साध्यानुमितिर्भविष्यति एवं सपक्षव्यावृत्त्या यत्र साध्यं साध्याभावाभावरूपमनित्यत्वं तत्र शब्दत्वाभाव इति साध्याभावव्यतिरेकव्याप्त्या साध्यानुमितिरपि कुतो न भवतीति प्रतिबन्दिविधया विपक्षव्यावृत्तत्वस्यापि परार्थानुमाने किञ्चित् प्रयोजनं तिष्ठतीति कृत्वा उक्तं स्वार्थानुमान इति। अथ टीका / असाधारणलक्षणे सर्वनिश्चितेति टीका / सर्वाणि यानि निश्चितसाध्यवन्ति अथ च सर्वे ये विपक्षास्तव्यावृत्तत्वमित्यर्थः / साध्यवति सर्वविशेषणस्य कृत्यमाह - तेनेति टीका / यदि निश्चितसाध्यवद्विपक्षमात्रवृत्तित्वमुच्यते तदा धूमादित्यत्रापि निश्चितसाध्यवदयोगोलकं(क:) तद्व्यावृत्तो धूमोऽथ विपक्षव्यावृत्तोऽपि भवतीति धूमोऽप्यसाधारणः स्यादित्यत उक्तम् - सर्वसपक्षेति / न हि धूमः सर्वेभ्यः सपक्षेभ्यो व्यावृत्तः / विपक्षस्थाने सर्वपदस्य कृत्यमाह - विरुद्धेति। यदि सर्वनिश्चितसाध्यवद्व्यावृत्तत्वं विपक्षव्यावृत्तत्वमित्येवोच्यते तदा शब्दो नित्यः शब्दत्वादिति शब्दत्वं नित्येभ्यः सपक्षेभ्यो व्यावृत्तं विपक्षेभ्योऽपि घटादिभ्यो व्यावृत्तमिति सर्वविपक्षव्यावृत्तत्वं नास्ति शब्दत्वस्य विपक्षे शब्देऽपि वर्तमानत्वात् / अतो विरुद्धे शब्दत्वेऽतिव्याप्तिवारणाय सर्वपदं विपक्षेऽपि विशेषणम् / अत्राशङ्कते - नन्विति टीका / यदा शब्देऽनित्यत्वनिश्चयो नास्ति तदानीं सपक्षविपक्षव्यावृत्तत्वरूपमसाधारण्यमवतीर्णम्, तदानीं शब्दत्वे आप्तवाक्यात् अनित्यत्वप्रतियोगिकव्यतिरेकव्यापकाभावप्रतियोगित्वग्रहः, यथा यत्र यत्र अनित्यत्वाभावस्तत्र तत्र शब्दत्वाभाव इति अनित्यत्वाभावस्य व्यापको योऽभावः शब्दत्वाभावस्तत्प्रतियोगि शब्दत्वमिति यदा व्यतिरेकव्याप्तिग्रहस्तदा