________________ हेत्वाभासप्रकरणे सव्यभिचारः 471 अन्यथेति मूलम्। यदि सर्वसपक्षव्यावृत्तत्वे सति विपक्षव्यावृत्तत्वमसाधारण्यं तदा सर्वसपक्षव्यावृत्तिरेव दोषः, न तु [विपक्षाव्यावृत्तिरपि; [विपक्षव्यावृत्तिरपि] दोषत्वेन किमर्थमुद्भावनीया ?, विपक्षव्यावृत्तेः प्रत्युतानुमित्यनुकूलत्वात् / तथा च यदि विपक्षव्यावृत्तिरप्युद्भाविता तदा परस्य विपक्षव्यावृत्तत्वज्ञानेन व्यतिरेकव्याप्तिसाधकमेवोपन्यस्तं स्यात् / तथाहि तव हेतुरयं विपक्षव्यावृत्त इत्युद्भाविते वादिना एवं वक्तव्यम् - यदि विपक्षव्यावृत्तस्तदा विपक्षव्यावृत्तत्वज्ञानद्वारा व्यतिरेकव्याप्त्या तवानुमितिरेव भविष्यतीति मदीयो हेतुः सद्धेतुरेव / यथा वह्नयभाववद्विपक्षात् ह्रदात् व्यावृत्तो धूमो व्यतिरेकव्याप्तिमान् एव, यतो यत्र वढ्यभावस्तत्र धूमाभाव इति व्यतिरेकव्याप्तिमद्भूमवत् मदीयोऽपि हेतुः अनित्यत्वसाधकशब्दत्वरूपः सद्धेतुरेव भविष्यतीति जितमस्माभिः / तथा च दूषकताबीजमध्ये विपक्षव्यावृत्तस्य प्रवेशो न कार्य इति भावः / मध्ये शङ्कते विपक्षव्यावृत्तत्वमप्युद्भावनीयमित्याशयेन - न चेति मूलम् / यथा सपक्षविपक्षानुवृत्तत्वज्ञानात् साध्यसन्देह: तथा सपक्षविपक्षत्वे व्यावृत्तत्वज्ञानादपि / किमयं सपक्षाद्वयावृत्तः इति कृत्वा साध्याभाववान् वा किं वा विपक्षव्यावृत्तत्वात् साध्यवान् वा इति सपक्षविपक्षव्यावृत्तत्वज्ञानेन साध्यसन्देहः क्रियते इति सपक्षव्यावृत्तत्ववत् विपक्षव्यांवृत्तत्वज्ञानमपि सन्देहजनकतया दोषः / दूषणान्तरमाह - किञ्चेति मूलम् / शब्दो[]नित्यः शब्दत्वात् इत्युक्त्वा यत्र शब्दत्वं तत्रानित्यत्वमित्युदाहरणाभावादेव निवृत्ते वादिनि न्यूनत्वादेव दूषणं जातमिति न्यूनत्वे वादिनि निग्रहात् / तदुद्भावनेति मूलम् / न्यूनत्वोद्भावनेनैव वादिनिवृत्तेश्च ततो नेदं शब्दोऽनित्यः शब्दत्वात् इत्यसाधारणत्वमुद्भावनीयम् / असाधारणत्वप्रयोजकं सपक्षविपक्षव्यावृत्तत्वम्, तच्चात्र नोद्भावनीयं न्यूनत्वेनोदाहरणरूपावयवन्यूनत्वेन वादिनिग्रहात्। न च तदपि भवत्विति वाच्यम् / उपस्थितं दूषणं परित्यज्य दूषणान्तरोद्भावनेऽधिकत्वेनैव [241 A] निग्रहात् इति भावः / अत्राशङ्कते - न चेति मूलम् / सपक्षविपक्षव्यावृत्तत्वज्ञाने सति न्यूनत्वं भवति। सपक्षात् यदा हेतुावृत्तस्तदाऽन्वयव्याप्तौ दृष्टान्ताभावः / नोदाहरणाभावात् न्यूनत्वम् / तथा च न्यूनत्वे सपक्षव्यावृत्तत्वरूपसाधारण्यमुपजीव्यं भवति साक्षात् परम्परया वा कारणं भवतीति व्यभिचारोपजीव्यबाधवत् न्यूनत्वोपजीव्यासाधारणस्यापि बाधवत् पृथग् हेत्वाभासः / यथा व्यभिचारे उपजीव्यो बाधस्तद्वत् असाधारणस्यापि पृथग् हेत्वाभासत्वमिति न च वाच्यम् / अत्र दूषणमाह - असाधारणेति मूलम् / असाधारणव्यतिरेको नाम असाधारण्यानुपस्थितावपि सपक्षविपक्षव्यावृत्तत्वलक्षणस्यासाधारण(ण्य). स्यानुपस्थितावपि केवलसपक्षव्यावृत्तत्वज्ञाने(न)मात्रेण तदुद्भावनात् न्यूनत्वोद्भावनात् / कथम् ? सपक्षविपक्षव्यावृत्तत्वरूपोभयव्यावृत्तत्वज्ञानं नोपयुज्यते। न च व्यतिरेकी। व्यतिरेकव्याप्त्याऽनुमानप्रयोगेऽसाधारणस्योपन्यासः किञ्चित्करो न / कुत इत्यत आह - व्याप्तीति मूलम् / न ह्यसाधारणज्ञानेन व्याप्तिज्ञानं विघट्यते पक्षधर्मताज्ञानं वा विघट्यते / यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्रासाधारण्योद्भावने सति न शब्दत्वस्य