________________ 470 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सर्वनिश्चितसाध्यवद्व्यावृत्तत्वात् / यदि पक्षे शब्दे साध्यनिश्चयो जातस्तदा सर्वनिश्चितसाध्यवद्व्यावृत्तत्वाभावात् शब्दत्वे नातिव्याप्तिः [240 A], अन्यथा शब्दत्वेऽतिव्याप्तिर्भवेत् / कथम् ? यद्यपि शब्दत्वे घटादिसपक्षव्यावृत्तत्वं वर्तते इति कृत्वाऽतिव्याप्तिस्तत्र भवेत्, ततोऽतिव्याप्तिवारणार्थं सर्वनिश्चितसाध्यवघ्यावृत्तत्वं नास्तीति कृत्वा न तत्रातिव्याप्तिरित्यर्थः / अत्राशङ्कते - न चेति मूलम् / अयं घटः एतत्त्वात् इत्यत्र सद्धेतावतिव्याप्ति / कथम् ? एतत्त्वं हेतुः, सपक्षो घटान्तरम्, तस्माद् व्यावृत्तः(तं) विपक्षाच्च पटादेया॑वृत्तमिति कृत्वा सपक्षविपक्षव्यावृत्तत्वादसाधारण्यं स्यादित्याशङ्कार्थः / समाधत्ते - साध्यसन्देहदशाायामिति मूलम् / तथा च त्वया कस्यां दशायाम् एतत्त्वेऽतिव्याप्तिर्दीयते ? पक्षे साध्यसन्देहदशायां वा किं वा पक्षे साध्यनिर्णयदशायां वा ? नाद्यः / यदि पक्षे साध्यसन्देहस्तदा तस्य हेत्वाभासत्वमिष्टमेव / निश्चितसाध्यं घटान्तरं तव्यावृत्तत्वं तत्र वर्तते, निश्चितसाध्याभाववन्तो ये विपक्षाः पटादयः तेभ्योऽपि व्यावृत्तत्वम्, लक्षणस्य तत्र गमनाद् भवत्येव तस्यासाधारण्यम् / यदि साध्यनिर्णयस्तदा निश्चितसाध्यवद्वयावृत्तत्वान्नातिव्याप्तिः / अत्राशङ्कते - यद्यपीति मूलम् / तथा च भूनित्या गन्धवत्त्वात् इति असाधारणः साधारणो भवति, साध्याभाववद्वृत्तित्वात् साधारणो भवति / पक्षे साध्यसन्देहदशायां निश्चितसाध्यवद्व्यावृत्तत्वात् असाधारणोऽपि भवति / एवं शब्दो नित्यः शब्दत्वात् अयं विरुद्धोऽपि निश्चितसाध्यवव्यावृत्तत्वात् असाधारणोऽपि भवति / अथ च शब्दोऽनित्यः शब्दत्वात् अयं सद्धेतुरेव / तथा च एतेषां त्रयाणां यद्यपि निश्चितसाध्यवद्व्यावृत्तत्वेनासाधारण्यं तथापि नासाधारणस्याऽसङ्कीर्णमुदाहरणमिति कृत्वा प्रथमस्य साधारणत्वात् द्वितीयस्य तु विरुद्धत्वात् तृतीयस्य सद्धेतुत्वात् / नन्वयं चेत् सद्धेतुस्तदाऽनुमितिः कुतो न भवतीत्यत आह - व्याप्तिज्ञानमिति मूलम् / व्याप्तिज्ञानं तत्र नास्ति पुरुषस्याज्ञानरूपदोषात् / तथा चासाधारणस्याऽसङ्कीर्णोदाहरणाभावात् नासाधारणः स्वतन्त्रो हेत्वाभासः इति यद्यपीत्यारभ्य पूर्वपक्षार्थः / समाधत्ते - तथापीति मूलम् / उपधेयतो हेतोः असङ्कीर्णस्थलाभावेऽपि उपाधेरसङ्करो वर्तते एव / कथम् ? साधारणे विपक्षवृत्तित्वमुपाधिः / शब्दो नित्यः शब्दत्वात् इति विरुद्धे साध्याभावव्याप्तत्वं दूषकताबीजम्, तद्वत् शब्दोऽनित्यः शब्दत्वात् इति हेतावपि निश्चितशब्दवत्तदभाववव्यावृत्तत्वमनुमितिप्रतिबन्धकं भवत्येवेति कृत्वा निश्चितसाध्याभाववव्यावृत्तत्वं तज्ज्ञानमपि। शब्दोऽनित्यः शब्दत्वात् इत्यत्र यदा शब्देऽनित्यत्वसंदेहो वर्तते तदानीं निश्चितसाध्यवद्व्यावृत्तत्वज्ञाने [240 B] विद्यमानेऽनुमितिप्रतिबन्धात् सर्वनिश्चितसाध्यवद्व्यावृत्तत्वमपि एको हेत्वाभासोपाधिस्तिष्ठत्येव / तेन शब्देऽनित्यत्वरूपसाध्यसन्देहदशायां शब्दत्वं सद्धेतुरप्यसाधारणो भवत्येव, न हेत्वाभासन्यूनता इत्यर्थः / अन्यथेति / यदि शब्दो(ब्देऽ)नित्यत्वरूपसाध्यनिश्चयस्तदा शब्दस्य साध्यसन्देहघटिता पक्षता न स्यात्। साध्यनिश्चये विद्यमाने साध्यसन्देहघटितं पक्षत्वं नास्ति / तदा साध्यसन्देहदशायां शब्दत्वमसाधारणो भवत्येवेत्यर्थः / अत्राशङ्कते -