________________ हेत्वाभासप्रकरणे सव्यभिचारः 469 लक्षणमसाधारण्यं तदेव दुर्ग्रहम् / कथं दुर्ग्रहमित्यत आह - विपक्षवृत्तेरिति मूलम् / यो वृत्तिमान् धर्मो विपक्षावृत्तिः सोऽवश्यं सपक्षवृत्तिर्भवत्येव / यतः सर्वं वस्तु किञ्चित् साध्यवत् किञ्चित् साध्याभाववत् / यत् साध्यवन्न भवति तदेव साध्याभाववद् भवति, तथा च यदि साध्याभाववति न वर्तते हेतुस्तदाऽवश्यं साध्यवति वर्तते, यदि च साध्यवति न वर्तते तदाऽवश्यं साध्याभाववति वर्तते, तेन यो वृत्तिमान् धर्मः साध्यवतो व्यावृत्तश्चेत् तदाऽवश्यं साध्याभाववति वर्तमानः, यदि च साध्याभाववतो व्यावृत्तस्तदाऽवश्यं साध्यवति वर्तते, ततो वृत्तिमतो धर्मस्योभयव्यावृत्तत्वं न सम्भवतीति [239 B] कृत्वाऽसाधारण्यं दुर्ग्रहमित्यर्थः / अत्र केषाञ्चित् समाधानमुद्भाव्य दूषयति - नापीति मूलम् / सपक्षत्वं न साध्यवन्मात्रत्वं किन्तु पक्षातिरिक्तसाध्यवत्त्वम्, पक्षातिरिक्तसाध्यवत्त्वं चेदुक्तं तदा वृत्तिमतो धर्मस्य सपक्षविपक्षव्यावृत्तत्वं सम्भवत्येव / तथाहि पूर्वं साध्यवंन्मात्रत्वमेव सपक्षत्वमुक्तम्, तदा सपक्षविपक्षाभ्यामन्यः तृतीयः प्रकार: न सम्भवतीत्युक्तम् / साम्प्रतं पक्षातिरिक्तसाध्यवत्त्वमात्रं चेत् सपक्षत्वमुक्तं तदा सपक्षविपक्षाभ्यामन्यः तृतीयः प्रकार: पक्ष एव सम्भवति, तथा च सपक्षविपक्षाभ्यां व्यावृत्तत्वमसाधारणत्वं सम्भवत्येव / इदं दूषयति - शब्दोऽनित्य इति मूलम् / शब्दोऽमित्यः शब्दत्वादित्यादेर्व्याप्तिग्रहदशायामप्यसाधारणत्वं स्यात् / पक्षातिरिक्तः साध्यवान् घटादिस्तद्व्यावृत्तत्वं शब्दत्वस्य वर्तते इति कृत्वाऽयमप्यसाधारणः स्यात् वस्तुगत्या व्याप्तिग्रहदशायां सद्धेतुरेव / अत्र शङ्कते - न चेति मूलम् / असाधारणो भवत्विति इष्टापत्तिरिति न च वाच्यमित्यर्थः / दूषयति - बाधेति मूलम् / शब्दोऽनित्य शब्दत्वादित्यत्र व्याप्तिग्रहदशायाम् बाधसत्प्रतिपक्षौ न स्तः व्याप्तिविशिष्टपक्षधर्मताज्ञानं च वर्तते तस्यां दशायाम्, अनुमितिप्रतिबन्धकं किमपि नास्तीति कृत्वाऽनुमितिर्जायते तस्यां दशायामपि, यदि असाधारणत्वं तदाऽसाधारणस्यासाधारणत्वमेव न स्यादित्याशङ्कार्थः / समाधत्ते - सर्वेति मूलम् / सर्वं यनिश्चितसाध्यवत् अथ च यनिश्चितसाध्याभाववत् तद्व्यावृत्तमसाधारणत्वमिति कृत्वा न पूर्वोक्तदोषः / तथाहि निश्चितसाध्यवान् घटादिस्तत्रानित्यत्वस्य निश्चयात् तद्व्यावृत्तत्वं शब्दत्वेऽस्ति, निश्चितसाध्याभाववान् आकाशादिस्तद्व्यावृत्तत्वं शब्दत्वे तिष्ठति / अतः शब्दत्वमसाधारणम् / अथ पूर्वोक्तं दोषं निराकरोति - शब्दत्वेति मूलम् / तथा च शब्दोऽनित्यः शब्दत्वात् इत्यत्र यदि शब्देऽनित्यत्वव्याप्तिग्रहो नास्ति पक्षे वा [आनित्यत्वस्य सन्देहात् तदानीमसाधारण्यं वर्तते एव / निश्चितसाध्यवन्तो घटादयः तद्व्यावृत्तत्वं ज्ञानस्य विद्यमानत्वात्, विपक्षाकाशादिव्यावृत्तत्वज्ञानस्यापि विद्यमानत्वात् तदानीमसाधारण्यं तिष्ठत्येव / शब्दत्वे यदाऽनित्यत्वव्याप्तिग्रहस्तदा शब्दत्वे योऽनित्यत्वसामानाधिकरण्यनिश्चयः स शब्द एव भविष्यति, तदा शब्देऽनित्यत्वनिश्चयानासाधारण्यं सर्वनिश्चितसाध्यवस्तुमध्ये शब्दस्यापि वर्तमानत्वात्, तद्वयावृत्तत्वं नास्तीति नासाधारण्यम् / शब्दत्व इति / तथा च शब्देऽनित्यत्वसन्देहदशायां शब्दत्वे हेतौ असाधारण्यानातिव्याप्तिः,