________________ 468 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चेष्टापत्तिः, बाधप्रतिरोधौ विना व्याप्तिपक्षधर्मतया ज्ञातादनुमितिनियमादिति चेत् न, सर्वनिश्चितसाध्यवद्विपक्षव्यावृत्तत्वस्य तत्त्वात् शब्दत्वानित्यत्वव्याप्तिग्रहे सति शब्दे साध्यनिश्चयानातिव्याप्तिः।नचघटोऽयमेतत्त्वादिति सद्धेतावतिव्याप्तिः, साध्यसन्देह- . दशायां तस्य हेत्वाभासत्वात् / यद्यपि भूर्नित्या गन्धवत्त्वादित्यादिर्वस्तुतः साधारणः शब्दो नित्यः शब्दत्वादिति विरुद्धः शब्दोऽनित्यः शब्दत्वादित्यादिः सद्धेतुरेव व्याप्त्यज्ञानस्य पुरुषदोषत्वादित्युदाहरणाभावादसाधारणो न पृथक्, तथापि पक्षतादशायां साध्यतदभावानिश्चयेन तस्य दोषत्वम् अन्यथा पक्षत्वभङ्गप्रसङ्गात् / अथ सर्वसपक्षव्यावृत्तिरेव दोषो न विपक्षव्यावृत्तिरपि तस्या अनुगुणत्वात् प्रत्युत विपक्षव्यावृत्तत्वेन व्यतिरेकितया परसाध्यसाधकमेवोपन्यस्तं स्यात् / न च संशायकतया दोषत्वं तच्चोभयव्यावृत्तत्वज्ञानादिति वाच्यम् / व्याप्तिग्राहकं सहचारज्ञानं तदभावद्वारा सपक्षव्यावृत्तत्वमात्रस्य दोषत्वात्। किञ्चशब्दोऽनित्यः शब्दत्वादित्युक्त्वा निवृत्ते तावन्नेदमुद्भाव्यं न्यूनत्वेनैव वादिनिग्रहात् तदुद्भावने वादिनिवृत्तेश्च / न च न्यूनत्वे तदुपजीव्यम्, असाधारण्यव्यतिरेकेणापि तदुपन्यासात् / न च व्यतिरेकिप्रयोगे तदुपन्यासः, व्याप्तिपक्षधर्मतयोरप्रतिक्षेपेऽकिञ्चित्करत्वात्, स्वार्थानुमाने च सर्वसपक्षव्यावृत्तिरेव दोष इत्युक्तमिति। अथ मूलम् / सर्वमनित्यमिति मूलम् / ननु सर्वमनित्यं प्रमेयत्वादित्यनुपसंहारी / शब्दोऽ)नित्यः शब्दत्वादित्यसाधारणः / भूनित्या गन्धवत्त्वादित्ययमसाधारणः / एतेषां त्रयाणां वस्तुगत्या साध्याभाववद्वृत्तित्वेन साधारणत्वमेव स्यादित्यत आह - सर्वमिति मूलम् / तथा चानेन रूपेण वस्तुगत्या त्रयाणां साधारणत्वं वर्तते तथापि पक्षतादशायां यदा पक्षे साध्यसन्देहो वर्तते तदानीं साधारणत्वमुद्भावयितुं न शक्यते पक्षे साध्याभाववत्त्वनिर्णयाभावात् / पक्षे साध्याभाववत्त्वनिर्णयश्चेत् स्यात् तदा साध्याभाववद्वृत्तित्वस्य व्यभिचारस्य निर्णय एव स्यादित्यर्थः / असाधारणलक्षणमाह - सर्वेति। सर्वसपक्षविपक्षाभ्यां व्यावृत्तोऽसाधारण इत्यर्थः / सद्धेतौ धूमेऽतिव्याप्तिवारणार्थं सर्वपदम् / अत्राशङ्कते - नन्विति मूलम् / सपक्षत्वं विचारयति - किं सपक्षत्वम् / साध्यवदिति मूलम् / यदि साध्यवत्त्वमात्रं सपक्षत्वं तदा हेतौ सपक्षविपक्षव्यावृत्तत्व