________________ हेत्वाभासप्रकरणे सव्यभिचारः 467 सर्वेषु व्यभिचारेषु वर्तत इति म(न) हेत्वाभासाधिक्यमिति स्पष्टोऽर्थः / साध्येता(त्या)रभ्य अनुसरणीयत्वादितिपर्यन्तः पाठः प्रामादिक इति न योजितः / ननु साध्याभाववद्वृत्तित्वरूपं साधारणलक्षणम्, तच्च विरुद्धेऽपि तिष्ठति साध्याभाववद्वृत्तित्वं हेतोस्तत्रापि सत्त्वादित्यत आह - विरुद्धस्यापीति टीका / यदि विरुद्धः साध्याभाववद्वृत्तित्वेन रूपेण सङ्ग्राह्यस्तदा इदमेव विपक्षवृत्तित्वलक्षणं रूपम् / एतेन विरुद्धोऽपि साधारण एव।यदि चविरुद्धोऽसङ्ग्राह्यः साधारणोन भवति।सपक्षवृत्तित्वसहकृतंसाध्याभाववद्वृत्तित्वमेव साधारणलक्षणं विरुद्धस्य सपक्षवृत्तित्वाभावात् / एवं च विरुद्धे नातिव्याप्तिरित्यर्थः / तच्चाज्ञाने इति मूलं व्याचष्टे - यद्यपीति टीका / यद्यपि तत्त्वेन विरुद्धत्वेन विरुद्धस्य ज्ञानं वर्तते तथापि साध्याभाववद्वृत्तित्वलक्षणं यत् साधारणत्वं सव्यभिचारत्वं तत् तु विरुद्धे तिष्ठत्येव / अन्यथा साधारणस्य नित्यदोषत्वं न स्यात् / यदि विरुद्धत्वेन ज्ञानदशायामपि साधारणत्वं नास्ति तदा साधारणस्य नित्यदोषत्वं न स्यात् / तथापि यदि विरुद्धस्य विरुद्धत्वेन ज्ञानं तदा साधारणत्वं तस्य नोद्भाव्यम्, किन्तु विरुद्धत्वमेवोद्भाव्यम् न तु साधारणत्वमित्यर्थः / ननु यदि साध्याभाववद्वृत्तित्वेन रूपेण विरुद्धोऽपि साधारणस्तदा विरुद्धव्यभिचारसामान्यलक्षणमव्याप्तलक्षणम् [239 A] / यथा उभयकोट्युपस्थापकतावच्छेदकत्वलक्षणमव्याप्तं विरुद्धे तदभावात् / न हि उभयकोट्युपस्थापकतावच्छेदकत्वप्रयोजकं सपक्षविपक्षवृत्तित्वं सपक्षविपक्षव्यावृत्तत्वंवाऽनुपसंहारित्वंवा विरुद्ध तिष्ठति / तथा च विरुद्धस्य यदि साधारणत्वेन सङ्ग्रहस्तदा व्यभिचारसामान्यलक्षणाव्याप्तिरित्यत आह - एतत्सङ्ग्राहकमिति टीका / तथा च यदि विरुद्धस्य साधारणत्वं तदा यथा विरुद्धस्य सामान्यलक्षणेन सङ्ग्रह(हः) साध्यवन्मात्रवृत्तित्वेत्यादिभक्त्रुपाध्यायो(? पाधिनो)क्तरीत्या / यद्यपि विशेषलक्षणेन साध्याभाववद्वृत्तित्वरूपेण विरुद्धस्यापि साधारणत्वेन सङ्ग्रहस्तदा सामान्यलक्षणेनासङ्ग्रहेऽपि न दोषः। यदा त्विति टीका। यद्यपिनानादूषणोपाधीनांसाध्याभावव्याप्तत्वंविरुद्धत्वं विपक्षवृत्तित्वंसाधारणत्वमित्यादीनां दूषणोपाधीनां दूषणविभाजकानामेकत्र विरुद्धादौ समावेशेऽपिनदोषशङ्का, उपधेयसङ्करेऽप्युपाधेरसङ्कारात्।नहि विपक्षवृत्तित्वं साध्याभावव्याप्तत्वं चैक एवोपाधिरिति / नहि विरुद्ध व्याप्तत्वस्याधिकस्य प्रवेशादनयोर्भेदः / सर्वमनित्यं मेयत्वादित्यनुपसंहारी, शब्दोऽनित्यः शब्दत्वात्भूर्नित्यागन्धवत्त्वादित्यसाधारणचवस्तुगत्या साध्याभाववद्वृत्तित्वेन साधारणोऽपिपक्षतादशायामुद्भावयितुंन शक्यत इत्युभयोर्भेदेनोपन्यासः। सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः। ननु सपक्षत्वंन साध्यवन्मात्रत्वं विपक्षावृत्तेर्वृत्तिमत: साध्यवद्वृत्तित्वनियमात् / नापि पक्षातिरिक्तसाध्यवत्त्वम्, शब्दोऽनित्यः शब्दत्वादित्यादेर्व्याप्तिधीदशायामप्यसाधारणतापत्तेः / न