________________ 466 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका भाववदवृत्तित्वम् अन्योन्याभावगर्भं च साध्यवदन्यावृत्तित्वं व्याप्तिलक्षणम्, एवं व्यभिचारोऽपि साध्यात्यन्ताभाववद्वृत्तित्वं साध्यवदन्यवृत्तित्वं चेति एतावुभौ व्यभिचारौ / एवं च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः, हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यकत्वं व्यभिचारः / एवमन्योन्याभावः हेतुसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकसाध्यसामानाधिकरण्यं व्याप्तिः / यथा पर्वतो वह्निमान् धूमात् इत्यत्र धूमसमानाधिकरणोऽन्योन्याभावो घटाद्यन्योन्याभावः यथा वह्निमान् घटो न भवति इतिरूपः, तत्प्रतियोगितानवच्छेदकं साध्यं वह्निरूपं यतो वह्रिमान् घटो न भवति इत्यत्र घटत्वं प्रतियोगितावच्छेदकं व(प)रं वह्निर्न भवति। कुतः ? यतो वह्निमान् वह्निमान् न भवति इति प्रतीतेरव्यभिचारिणि तु इदं लक्षणं नास्ति / यथा पर्वतो धूमवान् वह्नः इत्यत्र वह्निसमानाधिकरणो योऽन्योन्याभावो धूमवदन्योन्याभावो यथाऽयोगोलकं(कः) धूमव(वा)न् न भवतीत्यत्र वह्निसमानाधिकरणो योऽन्योन्याभावो धूमवदन्योन्याभावस्तस्य प्रतियोगितावच्छेदको धूम एव यतः प्रतीतिरयोगोलकं(कः) धूमव(वा)न् न भवति। अत्र धूमवान् प्रतियोगी। धूमः प्रतियोगितावच्छेदकः प्रतियोगिनिष्ठो धर्मः / धूमोऽपि धूमवनिष्ठ इति धूमवतः प्रतियोगितावच्छेदकः / तथा च तत्र धूमे वह्निसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वं नास्ति / अतोऽन्योन्याभावगर्भव्याप्तिरपि व्यभिचारिणि नास्ति / तथा च हेतुसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकत्वं [238 B] व्यभिचारत्वं सिद्धम् / एतादृशानि व्यभिचारज्ञानानि बहूनि वर्तन्ते / तत्तद्ज्ञानानां प्रतिबन्धकत्वात् तत्तज्ज्ञानविषयव्यभिचाराणामपि बहुत्वात् हेत्वाभासाधिक्यापत्तिरित्याशङ्कार्थः / उत्तरमाह - अत्यन्ताभावगर्भेति टीका / यदि अत्यन्ताभावगर्भेव व्याप्तिस्तथा चात्यन्ताभावगर्भव्याप्तेरेव ज्ञानमनुमितिहेतुस्तदाऽत्यन्ताभावगर्भव्यभिचारज्ञानमेवव्याप्तिग्रहप्रतिबन्धकम्, न त्वन्यत्। तथा चात्यन्ताभावगर्भव्याप्तिज्ञानेऽन्येषां व्यभिचारज्ञानानां प्रतिबन्धकत्वमेव नास्ति, तेनात्यन्ताभावगर्भमेव व्यभिचारज्ञानं व्याप्तिग्रहे प्रतिबन्धकं न चान्यत्। यदि चानुमितौ कारणं लाघवादन्योन्याभावगर्भमेव व्याप्तिज्ञानं तदाऽन्योन्याभावगीम्। एव व्यभिचारज्ञानमेव व्याप्तिप्रतिबन्धकं नान्यात्] इति कृत्वा न हेत्वाभासाधिक्यम् / तथा च यदेवानुमितिकारणीभूतं व्याप्तिज्ञानं तद्घटितव्यभिचार एव हेत्वाभासो नान्यो व्यभिचार इति सिद्धम्, अन्येषामप्रतिबन्धकत्वात् एकस्मिन् व्याप्तिज्ञाने [ना]नाव्यभिचारज्ञाना[ना]मप्रतिबन्धकत्वात् / यदि चैकत्र तेषां प्रतिबन्धकत्वं तत्राह - प्रतिबन्धकत्वे चेति टीका / तदा तावद्व्यभिचारज्ञानप्रतिबन्धकविषयतावच्छेदकत्वेन व्याप्तिज्ञानकारणीभूतसहचारग्रहस्य सहकारी योऽभावस्तस्य प्रतियोगि यज्ज्ञानं तद्विषयतावच्छेदाकारूपवत्त्वेन सर्वेषामेकीकरणेन महर्षिणा विभजनात् / अयमर्थः - व्याप्तिग्रहस्य कारणीभूतो यः सहचारग्रहः सामानाधिकरण्यज्ञानं तस्य सहकारी योऽभावोव्यभिचारज्ञानाभावः तस्य प्रतियोगियज्ज्ञानं व्यभिचारज्ञानं तद्विषयतावच्छेदकरूपवत्त्वं