________________ हेत्वाभासप्रकरणे सव्यभिचारः 465 किन्तु साध्याभावे प्रतियोगिवैयधिकरण्यं विशेषणं तथाचप्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववद्वृत्तित्वज्ञानत्वं व्यभिचारः / तत्प्रतियोगिवैयधिकरण्यं यदवच्छेदेन प्रतियोगिवैयधिकरण्यं वर्तते / यथा वृक्षः संयोगी सत्त्वात् इत्यत्रसंयोगरूपप्रतियोगिवैयधिकरण्यं गुणत्वकर्मत्वावच्छेदेन, तेन गुणत्वकर्मत्वावच्छेदेन यः संयोगाभावः सप्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नः, गुणरूपकर्मरूपाधिकरणे संयोगात्यन्ताभावो द्रव्यत्वावच्छेदेन तु नास्ति, तद्वृत्तित्वज्ञानं सत्त्वस्य हेतोर्भवतीति सत्त्वस्य व्यभिचारज्ञाने विद्यमाने सत्त्वे संयोगनिरूपितो व्याप्तिग्रहः / अत्राशङ्कते - न चैवमिति टीका। तथा च व्यभिचारलक्षणे प्रतियोगिवैयधिकरण्यप्रवेशे गौरवम्। कथम् ? साध्याधिकरणभिन्नाधिकरणवृत्तित्वं वा वक्तव्यम् किं वा साध्यवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववद्वृत्तित्वम् ? लाघवात् प्रथममेवेत्याशङ्कार्थः / समाधत्ते - तदुद्धावन इति टीका / यद्यपि साध्याधिकरणभिन्नाधिकरणवृत्तित्वं व्यभिचारत्वं प्रतियोगिवैयधिकरण्येत्याद्यपेक्षया गुरु भवति तथापि प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववदवृत्तित्वं व्याप्तिरिति व्याप्तिपक्षे साध्यवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववद्वृत्तित्वरूपव्यभिचारज्ञानस्य समानप्रकारकत्वेन / यतः साध्यवैयधिकरण्यावाच्छे]दे(द)क(का)वच्छिन्नसाध्याभाववदवृत्तित्वं व्याप्तिः / अत्र व्याप्तौ साध्याभाववदवृत्तित्वं प्रकार: व्यभिचारे तु तदभावः साध्याभाववद(द)वृत्तित्वम् / यथा घटज्ञाने घटाभावज्ञानं प्रतिबन्धकम्, तत्र घटज्ञाने घटत्वं प्रकारः, घटाभावज्ञानं तु घटत्वप्रकारावच्छिन्नाभावज्ञानं भवत्येव, तद्वत् प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववदवृत्तित्वं व्याप्तिः साध्यवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववद्वृत्तित्वं व्यभिचारः / एतादृशव्याप्तिव्यभिचारयोर्ज्ञाने [238 A] समानप्रकारकता तिष्ठत्येव / एकत्र व्याप्तौ उक्तरूपसाध्याभाववदवृत्तित्वं प्रकारः, व्यभिचारे तु उक्तरूपं चेत् साध्याभाववदवृत्तित्वं तदभाव इति साध्याभाववदवृत्तित्वस्योभयत्रापि प्रकारत्वात् समानप्रकारत्वम् / विरोधिविषयतया तस्यैव प्रतियोगिवैयधिकरण्येत्यादिज्ञानस्य प्रतिबन्धकत्वात्, गौरवेऽपि उभयोः समानप्रकारकतया प्रतिबध्यप्रतिबन्धका(?क)भावानुरोधात् प्रतियोगीत्याद्येव व्यभिचारलक्षणं न त्वन्यत् / प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववदवृत्तित्वरूपव्याप्तिज्ञाने साध्यवदन्यवृत्तित्वरूपव्यभिचारज्ञानं तस्मिन् व्याप्तिज्ञाने प्रतिबन्धकं न भवति समानप्रकारकत्वाभावात् / अत्राशङ्कते - न चेति टीका / यथा प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभाववदवृत्तित्वंव्याप्तिः, तत्रव्याप्तिज्ञानेप्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नसाध्याभावववृत्तित्वज्ञानं प्रतिबन्धकम्, एवं च साध्यवदन्यवृत्तित्वज्ञानं यद् वर्तते तत् प्रतियोगिवैयधिकरण्येत्यादिव्याप्तिज्ञाने तु प्रतिबन्धकम् / किन्तु साध्यवदन्यवृत्तित्वज्ञानमेव तत्र प्रतिबन्धकम्, एवं च सति अत्यन्ताभावगर्भव्यभिचारज्ञानं प्रतिबन्धकम् / अन्योन्याभावगर्भमपि व्यभिचारज्ञानं प्रतिबन्धकम् / यथा अत्यन्ताभावगर्भ साध्यात्यन्ता