________________ 463 हेत्वाभासप्रकरणे सव्यभिचारः सर्वत्र विद्यमानत्वात् इत्याशङ्कार्थः / समाधत्ते - तर्केति टीका / तथा च यद्यपि पक्षीयोऽपि [236 B] साध्यव्यभिचारसंदेहो भवति तथापि विशेषदर्शनविरहविशिष्ट एव प्रतिबन्धकः / यदा विशेषदर्शनं वह्रिव्याप्यधूमवांश्चायमित्याकारकं वर्तते तदानीं व्यभिचारसंशयस्य प्रतिबन्धकत्वाभावात् अनुमितिस्तु भवत्येवेति नानुमानमात्रोच्छेदो दोषः। तथा चपक्षीयसाध्यव्यभिचारसन्देहस्याप्यनुमितिप्रतिबन्धकत्वं भवत्येव प्रकारान्तरमाह - यद्वेति टीका / तथा च हेतुमत्तया निश्चिते उपाधिसन्देहाद्यनाहितो यो व्यभिचारसन्देहस्तदतिरिक्तव्यभिचारज्ञानत्वेनानुमितिप्रतिबन्धकता / व्यभिचारज्ञानत्वेनैव प्रतिबन्धकत्वमुच्यते, तदा पक्षीयसाध्यव्यभिचारसन्देहस्यापि प्रतिबन्धकतास्यात्।अत उक्तम् उपाधिसन्देहाद्यनाहितव्यभिचारसन्देहातिरिक्तेति पदम् / ततः पक्षीयसाध्यव्यभिचारसन्देहस्तु उपाधिसन्देहाद्यनाहित एव, व्यभिचारसन्देहेन तु तदतिरिक्तः पक्षे यः साध्यसन्देहः स तु स्वाभाविक एंव न तु केनचित् क्रियत इति तद्व्यवच्छेद इति / अथ स्वमते यादृशो व्यभिचारसन्देहः प्रतिबन्धकस्तमाह - वस्तुत इति टीका / व्यभिचारनिश्चयस्य भिन्न प्रतिबन्धकतावच्छेदकं व्यभिचारसन्देहस्य चभिन्न प्रतिबन्धकतावच्छेदकम। तत्राद्यस्याव्यभिचाररूपं यदग्राह्यं तदभावनिश्चयत्वेन प्रतिबन्धकत्वम।व्याप्तौ तु अव्यभिचार एव ग्राह्यः यतोऽव्यभिचरितसामानाधिकरण्यं व्याप्तिः / अत्राव्यभिचारो ग्राह्यः, तस्याभावो व्यभिचारः, तन्निाश्चायत्वं व्यभिचारनिश्चयत्वं प्रतिबन्धकतावच्छेदकम्। तन्निश्चयेति व्यभिचारनिश्चयस्येत्यर्थः / व्यभिचारसन्देहस्य चान्यं प्रतिबन्धकतावच्छेदकमित्याह - ग्राह्यसंशयस्येति टीका / अनुमितौ ग्राह्यो वह्निः, तत्संशयस्य तद्घटितव्यभिचारसंशयस्य / यथा धूमवति पर्वते वह्निरस्ति न वेति व्यभिचारसन्देहः, तस्य तत्त्वेन ग्राह्यव्यभिचारसन्देहत्वेन न प्रतिबन्धकत्वं किन्तु यथा भूतले घटोऽस्ति न वा अत्र प्रत्यक्षे ग्राह्यो घटस्तस्य यो व्यभिचारसन्देहो घटोऽस्ति न वेति रूपस्तस्य घटोऽयमिति प्रत्यक्षे दर्शनात् यतो घटसन्देहो घटप्रत्यक्षेऽनुकूल एच तद्वत् व्याप्तिप्रत्यक्षेऽपि ग्राह्योऽव्यभिचारस्तस्य व्यतिरेको व्यभिचारस्तत्सन्देहस्यापि न प्रतिबन्धकत्वं किन्तु अनुकूलत्वमेव वाच्यम् / तथापि धूमो वहिव्यभिचारी न वेति व्यभिचारसन्देहे विद्यमाने व्याप्तिप्रत्यक्षं न जायते इति कृत्वा व्यभिचारसंशयस्य व्याप्तिप्रत्यक्षेऽवश्यं प्रतिबन्धकत्वमिति सिद्धान्ते / आशङ्कते - न चेति टीका। पक्षीयसाध्यव्यभिचारसन्देहे विद्यमाने व्याप्तिप्रत्यक्षाभावेऽनुमितिर्न स्यात् / व्याप्तिप्रत्यक्षे व्यभिचारसन्देहस्य * प्रतिबन्धकत्वस्य विद्यमानत्वात् इत्याशङ्कार्थः। अतिप्रसङ्गः अनुमितिर्नस्यादितिरूपः।समाधत्ते - प्रतिबन्धकेति टीका / न हि सर्वोऽपि साध्यव्यभिचारसन्देहोऽनुमितिप्रतिबन्धक इत्युच्यतेऽस्माभिः किन्तु यादृशयादृशसाध्यव्यभिचारसन्देहात् व्याप्तिग्रहप्रतिबन्धो दृष्टः / [237 A] यादृशेति यथोपाधिसन्देहाहितव्यभिचारसन्देहे विद्यमाने व्याप्तिग्रहप्रतिबन्धो जायते, स्वाभाविकपक्षीयसाध्यव्यभिचारसन्देहे विद्यमाने व्याप्तिग्रहप्रतिबन्धो न भवति इति फलबलात् / यादृशव्यभिचारग्रहे सति व्याप्तिग्रहप्रतिबन्धोऽनुभवसिद्धस्तत्र तत्र तत्तद्व्यभिचार