________________ 462 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वैयधिकरण्यप्रवेशे साध्यवैयधिकरण्यावच्छेदेन साध्याभावसामानाधिकरण्यमिति व्यभिचार इति फलितोऽर्थः। तथा चसाध्यवैयधिकरण्यप्रवेशापेक्षया साध्याधिकरणभिन्नाधिकरणवृत्तित्वज्ञानमेव व्यभिचारः प्रतिबन्धकमस्तु / अयमर्थः - साध्यस्याधिकरणं तद्भिन्नाधिकरणं यस्य तद्वृत्तित्वज्ञानमेव प्रतिबन्धकमस्तु लाघवात् / तत्र साध्यवैयधिकरण्यं प्रविष्टम्, तच्चाधिकमिति गौरवम्। दूषणान्तरमाह-किञ्चेतिटीका।साध्यवदन्यवृत्तित्वज्ञानस्यावश्यं प्रतिबन्धकत्वात् अत्यन्ता[भावाघटितज्ञानस्यापि [236 A] प्रतिबन्धकत्वाच्च प्रतिबन्धकज्ञानानन्त्यापत्तिः / ततः किमित्यतआह - एवं चेति टीका।साध्यनिष्ठहेतुसमानाधिकरणात्यन्ताभावप्रतियोगित्वमप्येकं व्यभिचारज्ञानम्, द्वितीयं चहेतुनिष्ठसाध्यवन्मात्रवृत्तिभिन्नत्वज्ञानम्एतदपिव्यभिचारज्ञानम्, तृतीयं तुहेतुनिष्ठसाध्यसम्बन्धाभावप्रतियोगित्वज्ञानमपि व्यभिचारः, इत्यादीनां नानाज्ञानानां प्रतिबन्धकत्वात् तत्तद्ज्ञानविषयाणां तेषां तेषां तत्र तत्रप्रतिबन्धकत्वे प्रतिबन्धकत्वानन्त्यं स्यात्। तथा चानन्ता हेत्वाभासास्युः इति आशयः इति पूर्वपक्षार्थः / समाधत्ते - मैवमिति / विपक्षत्वं हि साध्याभाववत्त्वमेव / तथा च साध्याभाववद्वृत्तित्वमानं व्यभिचारः, न तु निश्चयगर्भम्। ततः किमित्यत आह - अतइति।अतः साधारणस्य नानित्यदोषता, यतो हेत्वाभासोपाधौ ज्ञानस्य निश्चयरूपस्याप्रवेशात् / तथा च यन्निश्चयः सर्वदाऽनुमितिप्रतिबन्धको भवत्येव तस्यैव नित्यदोषत्वम् / असाधारणस्तु अनित्यदोष एव / कुतः ? यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वस्य सपक्षविपक्षव्यावृत्तत्वनिश्चयः सर्वदाऽनुमितिप्रतिबन्धको न भवति। कुतः ? अत्रानित्यत्वानुमाने सपक्षो घटादिः, विपक्षो ह्याकाशादिः, तथा च शब्दत्वस्य घटपटरूपा ये सपक्षाः कालाकाशादयो ये विपक्षास्तव्यावृत्तत्वज्ञानं यत् तद् यदि पक्षे शब्देऽनित्यत्वसन्देहः, तस्यां दशायामेव घटपटाकाशादिव्यावृत्तत्वनिश्चयोऽनुमितिप्रतिबन्धकः यतः सपक्षविपक्षव्यावृत्तत्वज्ञानेनानुमितिप्रतिबन्धस्य सम्भवात्। तथा च यादृशो निश्चयोऽनुमितिप्रतिबन्धकः सर्वदा तद्विषयस्य नित्यदोषत्वम्, घटपटाकाशव्यावृत्तत्वनिश्चयो वर्तते यः साध्यसन्देहदशायामेवानुमितिप्रतिबन्धकः, नतुसाध्यनिश्चयदशायां यदासाध्यसन्देहः पक्षेस्थितस्तदानीमनुमितिप्रतिबन्धः।आप्तवाक्यात् साध्यनिश्चयदशायां विद्यमानोऽपि घटपटाकाशव्यावृत्तत्वनिश्चयोऽनुमितिप्रतिबन्धको न भवति सिषाधयिषयाऽनुमितेर्जायमानत्वात् इति भावः / एवं च(चा)साधारणस्यानित्यदोषता सिद्धा / ननु यदि साध्याभाववत्त्वमेव विपक्षत्वं तद्वृत्तित्वं च साधारणत्वंतदा तज्ज्ञानस्यतन्निश्चयत्वेन नप्रतिबन्धकत्वम्। उपाधिसन्देहाहितव्यभिचारसन्देहस्य प्रतिबन्धकत्वं न स्यात्, तस्य साध्याभाववद्वृत्तित्वनिश्चयत्वाभावात् / तथा च साध्याभाववद्वृत्तित्वज्ञानत्वेन प्रतिबन्धकता वक्तव्या। तथा चपक्षेऽपि व्यभिचारसन्देहस्यापि प्रतिबन्धकत्वं स्यादित्यत आह - प्रतिबन्धकता चेति टीका। तथा चानुमितिप्रतिबन्धकतावच्छेदकं व्यभिचारज्ञानत्वमेव / न चैवं व्यभिचारज्ञानत्वेन प्रतिबन्धकत्वे पक्षीयसाध्यव्यभिचारसन्देहस्यापि प्रतिबन्धकत्वेऽनुमितिमात्रोच्छेदप्रसङ्गात् / पक्षीयसाध्यव्यभिचारसन्देहस्य