________________ हेत्वाभासंप्रकरणे सव्यभिचारः 461 निश्चयरूपं न भवति इति कृत्वा न तस्य प्रतिबन्धकत्वमित्याशङ्कार्थः / दूषयति - साध्यतदभावेति टीका / यदि साध्याभाववद्वृत्तित्वं नित्यदोषो व्यभिचारः प्रतिबन्धकता तु साध्याभावांशे निश्चयभूतसाध्याभाववद्वृत्तित्वज्ञानत्वेनैव तदाऽसाधारणस्यापि नित्यदोषतापत्तिः / साध्यवद्व्यावृत्तत्वमे(मा)त्रा(त्र)मेवासाधारणत्वम्, तज्ज्ञानस्य या प्रतिबन्धकता सा साध्यांशे निश्चयभूतज्ञानत्वेन प्रतिबन्धकतेति कृत्वाऽसाधारणस्यापि नित्यदोषतापत्तिः / म(? त्व)योच्यते - साधारणस्य नित्यदोषता तज्ज्ञानस्य प्रतिबन्धकतायां निश्चयप्रवेशात् / तदा मयाऽप्युच्यते - साध्यवद्व्यावृत्तत्वमात्रमेवासाधारणत्वम्, प्रतिबन्धकतायां तु निश्चयप्रवेशः। त्वया साधारणस्य नित्यदोषतोच्यते मया तु असाधारणस्यापि नित्यदोषत्वं स्यादिति प्रतिबन्दी कृता सा त्वनुत्तरम् / प्रतिबन्दी तु उत्तरमेव न भवतीत्यत आह - अपि चेति टीका / स श्यामो [235 B] मित्रातनयत्वात् इत्यत्र पक्षीकृतमित्रातनयातिरिक्तमित्रातनये सर्वत्रश्यामत्वनिश्चयदशायांशाकपाकजत्वेनोपाधितया सन्दिग्धेन यत् व्यभिचारसन्देहापादनं कर्तव्यं तत् पक्षे एव कर्तव्यम् / उपाधिसन्देहादवश्यं साध्यसन्देहः, स साध्यसन्देहः पक्षातिरिक्ते तु न सम्भवति पक्षातिरिक्ते साध्यस्य निश्चितत्वात् / तथा च पक्ष एव साध्यसन्देहः कर्तव्यः / तथा च तस्य पक्षीयसाध्यसन्देहस्योपाधीयसन्देहाहितस्य साध्याभावांशे निश्चयत्वाभावात् स व्यभिचारसन्देहः प्रतिबन्धको न स्यात्। न चैवमिति टीका। तथा चोपाधिसन्देहाहितो व्यभिचारसन्देहो न प्रतिबन्धक एव भवतु इतीष्टापत्तिरित्यर्थः / दूषयति - तत्रेति। यदि उपाधिसन्देहान् व्यभिचारसन्देहो न दूषणं तदा उपाधेरुद्भावनं न स्यात्, उपाधेः स्वतो दूषकत्वाभावात् किन्तु व्यभिचारसन्देहद्वारा एव तस्य दूषकत्वात्। तथा च पक्षातिरिक्तस्थले श्यामत्वस्य निश्चयो वर्तते। तदाशाकपाकजत्वस्य साधनाव्यापकतया साध्यव्यापकतया सन्दिग्धेन सन्दिग्धस्योपाधेरुद्भावनं न स्यात् इत्यर्थः / ननु यत्र पक्षातिरिक्तस्थले साध्यनिश्चयो जातस्तत्रोपाधेरुद्भावनं मा भूत् इत्यत आह - अपसिद्धान्ताच्चेति टीका / यत्र पक्षातिरिक्तस्थले साध्यनिश्चयेऽपि सन्दिग्धोपाधेरुद्भावनं वर्तते एवानुमानस्य तेन दूषणात् / दूषणान्तरमाह - क्षितिरिति / क्षितिर्द्विकर्तृका कार्यत्वात् इत्यत्राप्रयोजकत्वं नैयायिाकै(के)नोच्यते तदा तेनाऽप्रयोजकत्वेन व्यभिचारसन्देहोऽवश्यं क्रियते। यथोपाधिसाद)हाद् व्यभिचारसन्देहस्तथाऽप्रयोजकत्वसन्देहादपि व्यभिचारसन्देहोऽवश्यं भवत्येव / तथा च व्यभिचारसन्देहस्य पक्षे हेतुमत्तया निर्णीते साध्याभावांशे संशयीभूतपक्षीयव्यभिचारसन्देहप्रतिबन्धकत्वस्य सर्वसिद्धत्वात् तत्र साध्याभावांशे निश्चयीभूतव्यभिचारज्ञानत्वेन प्रतिबन्धकत्वेऽप्रयोजाकात्वाहितव्यभिचारसन्देहस्य प्रतिबन्धकत्वं न स्यात् / साध्याभावांशे निश्चयो नास्तिइति कृत्वाऽप्रयोजकताहितव्यभिचारसन्देहस्यप्रतिबन्धकत्वंनस्यादित्यर्थः। दूषणान्तरमाह - किञ्चेति टीका / यदि साध्याभावांशे प्रतियोगिवैयधिकरण्यप्रवेशेऽयमेतत्संयोगी वृक्षत्वात् इत्यत्र साध्याभाववद्वृत्तित्वस्य विद्यमानत्वात् साधारण्यं स्यात्। तथा चसद्धेतौ वृक्षत्वेऽतिव्याप्तिः। तत्प्रवेशेप्रतियोगि