________________ 460 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदन्यवृत्तित्वमित्यागतम् / तथा च इदं शब्दवत् अष्टद्रव्यातिरिक्तद्रव्यत्वात्, यत्र यत्र शब्दवत्त्वाभावस्तत्र तत्र अष्टद्रव्यातिरिक्तद्रव्यत्वाभावः यथा पृथिव्याम् / अत्र साध्यवतां बहुत्वं नास्ति साध्यवत आकाशस्य एकत्वात्। एतदेवाह - एका व्यक्तिराश्रयरूपा यस्य साध्यस्येत्यर्थः / सिद्धान्त आह - विपक्षेतीति टीका।अत्र विपक्षपदं विकल्प्य दूषयति - विपक्षत्वं किं निश्चितसाध्याभाववत्त्वं वा साध्याभाववत्त्वमानं वा ? आद्ये आह - निश्चितेति टीका। तथा यथाऽसाधारणः शब्दत्वादिनिश्चितसाध्यवव्यावृत्तत्वेन।यदा साध्यवतो निश्चयः तदैव तद्व्यावृत्तत्वेनासाधारण्यम्, यदातुनिश्चयोनास्ति तस्यासाधारण्यमपि नास्ति, ततोऽसाधारणस्याऽनित्यदोषत्वम् / तथा निश्चितसाध्याभाववदृत्तित्वं विपक्षत्वम् / यदा साध्याभाववत्तया निश्चयो वर्तते तदैव विपक्षवृत्तित्वस्य विद्यमानत्वात् साधारणत्वम्, यदा तु साध्याभावस्य निश्चयो नास्ति तदा निश्चितसाध्याभाववद्वृत्तित्वं नास्तीति कृत्वाऽस्यापि साधारणस्यापि अनित्यदोषत्वंस्यात्। सिद्धान्तस्तु साधारणस्य नित्यदोषत्वं यत्र हेत्वाभासोपाधौं ज्ञानस्य प्रवेशो नास्ति / वस्तुसत एव दूषकत्वम्, वह्वेधूमाभाववद्वृत्तित्वेनैव दूषकत्वम्, परं निश्चितधूमरूपसाध्याभाववद्वृत्तित्वेन [235 A] निश्चयरूपाधिकज्ञानस्याप्रवेशात् / तस्मात् अनित्यदोषत्वमिदमेव यस्मिन् हेत्वाभासोपाधौ ज्ञानांशप्रवेशः, यत्र ज्ञानत्वांशप्रवेशो नास्ति तात्र] नित्यदोषत्वम्, तथा च साधारणस्याप्यनित्यदोषापत्तिः। न द्वितीयः। यदि साध्याभाववत्त्वमात्रे तदा साध्याभाववद्वृत्तित्वज्ञानस्य या प्रतिबन्धकता सा किं साध्याभाववद्वृत्तित्वनिश्चयेन किं वा तज्ज्ञानत्वमात्रेण ? आद्ये आह - तन्निश्चयत्वेनेति टीका। तथा च साध्याभाववद्वत्तित्वनिश्चयत्वेन प्रतिबन्धकत्वे उपाधिसन्देहाहितो यो व्यभिचारसन्देहस्तस्य प्रतिबन्धकत्वं न स्यात् / कुतः ? सन्देहरूपज्ञाने साध्याभाववद्वृत्तित्वस्य निश्चयत्वाभावात् / प्रतिबन्धकता तु साध्याभाववद्वृत्तित्वनिश्चयत्वेन वर्तते / तन्निश्चयत्वाभावात् सन्दिग्धानैकान्तिकस्य प्रतिबन्धकता न स्यात् / उपाधिसन्देहाहितव्यभिचारसन्देहस्य प्रतिबन्धकत्वात् इदमेव सन्दिग्धानैकान्तिकत्वम्। द्वितीये आह - द्वितीयपक्षस्य साध्याभाववत्त्वमात्रमेव विपक्षत्वमस्य विकल्पस्य विकल्पद्वयम् - साध्याभाववद्वृत्तित्वनिश्चयत्वेन प्रतिबन्धकत्वं किं वा साध्याभाववद्वृत्तित्वज्ञानत्वेन ? प्रथमपक्षे दूषणमुक्तम् / द्वितीये साध्याभाववद्वृत्तित्वज्ञानत्वेनेतिरूपे दूषणमाह- तज्ज्ञानत्वेनेतिटीका।तज्ज्ञानत्वेन साध्याभाववद्वृत्तित्वज्ञानत्वेन चेत् प्रतिबन्धकत्वं तदा पक्षीयव्यभिचारसन्देहस्यापि अनुमितिप्रतिबन्धकत्वं स्यात् यथा पर्वतो वह्निमान् न वा इति वह्नयभानसन्देहस्य विद्यमानत्वात्। तथा च हेतुमति पक्षे यः साध्याभावसन्देहो व्यभिचारसन्देहः स एवानुमितिप्रतिबन्धक इति / तथा च साध्याभाववद्वृत्तित्वज्ञानं पक्षीयव्यभिचारसन्देहोऽपि भवति इति कृत्वा तस्यापि प्रतिबन्धकत्वं स्यादित्यर्थः / अत्राशङ्कते - न चेति टीका। तथा च साध्याभाववद्वृत्तित्वज्ञानत्वेनैव व्यभिचारस्य प्रतिबन्धकत्वं परन्तु तज्ज्ञानं कीदृशम् ? साध्याभावांशे निश्चयभृतम् ? पक्षीयसाध्यसन्देहरूपं यद् ज्ञानं तत् साध्याभावांशे