________________ हेत्वाभासंप्रकरणे सव्यभिचारः 459 वदन्यवृत्तित्वं वर्तते अनित्यत्ववदन्यवृत्तित्वात् / तथा चोक्तानुपसंहार्ये पक्षान्यत् यत् साध्यवत् पटादिकं तदृत्तित्वं नास्तीति कृत्वा नातिव्याप्तिः, एवं विरुद्धेऽयमश्वो गोत्वात् इतिरूपे पक्षान्यत् यत् साध्यवत् अश्वादिकं तद्वृत्तित्वं गोत्वस्य नास्तीति विरुद्ध नातिव्याप्तिः / इदं लक्षणं दूषयति - दूषकतेति मूलम् / दूषकताप्रयोजकं यद् भिन्नं रूपं चेत् स्यात् तदा तद्भेदेनानुपसंहार्यविरुद्धसाधारणानां भेदः स्यात्, तदेव तु नास्ति। साध्यवदन्यवृत्तित्वमात्रेण दूषकताप्रयोजकरूपस्यैकेन त्रयाणां भेदएव न स्यात्। तथा च पक्षान्यत्वरूपं विशेषणं व्यर्थमेवेति भावः / लक्षणान्तरमाशङ्कते - साध्यवद्वृत्तित्वे इति मूलम् / साध्यवदृत्तित्वे सति सर्वसाध्यवदन्यवृत्तित्वमिति साधारणलक्षणम् / यथा धूमवान् वह्नः इत्यत्र वह्निः साध्यवद्वृत्तिर्भवति अथ च सर्वसाध्यवदन्यद(न्योऽ)योगोलकं(कः) तद्वृत्तिरपि भवतीति कृत्वा वह्निः साधारणः / सर्वपदं धूमादावतिव्याप्तिवारणाय / यत्किञ्चित्साध्यवान् महानसोऽपि भवति पर्वतीयवढ्यपेक्षया, तत् सर्वपदम् / सर्वसाध्यवदन्यवृत्तित्वं विरुद्धेऽप्यतिव्याप्तम्, यथा शब्दो नित्यः कृतकत्वात् इत्यत्र कृतकत्वं सर्वसाध्यवदन्यवृत्तिर्भवतीति विरुद्धेऽतिव्याप्तिवारणार्थं साध्यवद्वृत्तित्वे सतीति पदम् / इदं दूषयति - व्यर्थेति मूलम् / दूषकत्वे साध्यवद्वृत्तित्वांशो व्यर्थः / इदमसाधकं सर्वसाध्यवदन्यवृत्तित्वात् इत्यस्यैव दूषकत्वे साध्यवद्वृत्तित्वांशो व्यर्थः / न च विरुद्धेऽप्यतिव्याप्तिरिति वाच्यम् / विरुद्धेऽपि दूषकताप्रयोजकैक्यस्य विद्यमानत्वात् विरुद्धोऽप्येतदन्तर्भूत एवास्तु इत्यर्थः / दूषणान्तरमाह - [234 B] एकव्यक्तिकेति मूलम् / यथाऽयं गौः प्रमेयत्वात् इत्यत्र सर्वाणि साध्यवन्त्यप्रसिद्धानि गोत्वलक्षणसाध्यस्यैकत्वादित्यर्थः / एतेनेति मूलम् / यतो दूषकताप्रयोजकरूपस्य विपक्षवृत्तित्वस्य विरुद्धादिषु विद्यमानत्वात् तेषामपि साधारण एवान्तर्भावः। अत एव तद्व्यावृत्त्यर्थं यानि यानि साधारणलक्षणानि कृतानि तेष्वपि विरुद्धवारणार्थं विरुद्धान्यत्वे सतीत्यादिविशेषणं व्यर्थमेव विरुद्धस्यापि साधारण एवान्तर्भावोऽस्तु इत्यर्थः / सिद्धान्तमाह - विपक्षवृत्तित्वमिति मूलम् / तथा च साध्याभाववन्मात्रवृत्तित्वलक्षणं यत् विपक्षवृत्तित्वं तेनैव रूपेणास्य दूषकत्वात् / ननु विरुद्धेऽपि अयमश्वो गोत्वात् इति स्वरूपे विपक्षवृत्तित्वमस्त्येव, ततो विरुद्धस्यापि साधारणत्वं स्यादित्यत आह - विरुद्धस्यापीति मूलम् / तत्त्व(त्त्वा)ज्ञाने इति विरुद्धत्वाज्ञाने साध्याभावव्याप्तत्वाज्ञाने विपक्षवृत्तित्व(त्वा)ज्ञानदशायां विपक्षवृत्तित्वेन रूपेण विरुद्धोऽपि साधारणो भवत्येव, न तु विरुद्धत्वं साधारणत्वं चैकम् / विरुद्धत्वं नाम साध्यसमानाधिकरणात्यन्ताभावप्रतियोगिहेतुत्वं यथाअयमश्वो गोत्वात् इत्यत्रअश्वत्वसमानाधिकरणो योऽत्यन्ताभावो गोत्वस्य तत्प्रतियोगिकं(त्वं) गोत्वे वर्तते, तथा चविरुद्धत्वोपाधेः साधारणतोपाधेश्चभेदात् हेतुरूपोपधेयसङ्करेऽपि नाभेददोषः उपाधेरसङ्करात् इति। ___ अथ टीका / एकव्यक्तिकेति टीका / यदि सर्वपदं साध्यवत्परं तदा सर्वाणि यानि साध्यवन्ति