________________ 458 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मेयत्वात् इत्यनुपसंहारिणि अतिव्याप्तिः / भूर्नित्या गन्धवत्त्वात् इत्यसाधारणे चातिव्याप्तिः / इदं संयोगि द्रव्यत्वात् इति सद्धेतावतिव्याप्तिः / तथाहि - यथाक्रममनित्यत्वाभाववति गगने प्रमेयत्वस्य वर्तमानत्वात्, असाधारणे नित्यत्वाभाववति विपक्षे गन्धवत्त्वस्य वर्तमानत्वात्, एवं द्रव्यत्वस्यापि संयोगाभाववति वृक्षे. वर्तमानत्वात् अतिव्याप्तिरित्यर्थः / अत्र समाधानान्तरमाशङ्कते - अत एवेति मूलम् / पूर्वोक्तानुपसंहारिणि पूर्वोक्तासाधारणे एवं संयोगवदन्योन्याभावस्याव्याप्यवृत्तित्वमालम्ब्य पक्षे आह - साध्यवदिति मूलम् / लक्षणान्तरं साधारणस्येदं साध्यवदन्यवृत्तित्वम्, साध्यवतो योऽन्योऽयोगोलकादिस्तद्वृत्तित्वं वहेरिति / एवं कृतेऽपि लक्षणे पूर्वोक्तातिव्याप्तिलंगत्येव। लक्षणान्तरमाशक्य दूषयति - नापीति मूलम् / निश्चितसाध्यवान् यः तदन्यस्तु विपक्षस्तदृत्तित्वं वह्ननिश्चितसाध्यवन्महानसः तदन्योऽयोगोलकः तत्र वर्तते इति कृत्वा लक्षणमुपपन्नं साधारणस्येति / दूषयति - साध्यवदन्यवृत्तित्वस्येति मूलम् / दूषणोद्भावने साध्यवदन्यवृत्तित्वमेवोद्भावनीयम् / न तु निश्चितत्वांशोऽपि यथा इदमसाधकं निश्चितसाध्यवदन्यवृत्तित्वात् इति / अत्र निश्चितपदं व्यर्थम्, साध्यवदन्यवृत्तित्वमात्रेणैव दूषकत्वात् / दूषणं तु एतावतैव भवत्येव दूषणे समर्थत्वादेतस्येत्यर्थः / अत्रोपष्टम्भकमाह - अत एवेति मूलम् / धूमेन सह वहिरनैकान्तिकः इत्येवोद्भावनीयम्, न त्वन्यत् / न तु निश्चितधूमाभाववत्त्वांशोऽपि तत्र, गौरवादित्यर्थः / लक्षणान्तरमाशङ्कते - नापीति / नापि सपक्षविपक्षगतत्वं हेतोः / दूषयति - व्यर्थविशेषणत्वादिति / अयमसाधको विपक्षगामित्वात्, तथा च विपक्षगामित्वस्यैव दूषकत्वे सपक्षगतत्वांशो व्यर्थः तावतैव दूषकत्वसम्भवात् / अत्राशङ्कते - अनुपसंहार्येति मूलम् / तथा च विपक्षगतत्वमनुपसंहार्येऽपि वर्तते / अन्यथा तस्यैव साधारणत्वविशेषापत्तिरित्याशङ्कार्थः / दूषयति - तहीति मूलम् / तर्हि त्यज्यतामधिकोऽनुपसंहारी, तस्याप्यसाधारण एवान्तर्भावोऽस्तु इत्यर्थः / अत्राशङ्कते - विरुद्धेति मूलम् / तथा च यदि साधारणत्वं विपक्षगामित्वमात्रमुच्यते तदा विरुद्ध विपक्षगामित्वं [234 A] तिष्ठति परं तत्र साधारणत्वं नास्ति इति कृत्वा सपक्षगामित्वमित्युक्तम् / यदि विपक्षगामित्वमात्रेण दूषकत्वं सम्भवति तदा विपक्षगामित्वेन रूपेण विरुद्धस्यापि साधारण एवान्तर्भावोऽस्तु इत्यर्थः / लक्षणान्तरमाशङ्कते - अथेति मूलम् / पक्षान्यत् यत् साध्यवत् तदन्यवृत्तित्वम्, धूमवान् वढेः इत्यत्र पक्षान्यसाध्यवन्महानसादिकम् तदन्योऽयोगोलकः तद्वृत्तित्वं साधारणत्वम् / तत्र पक्षान्येति विशेषणस्य प्रयोजनमाह - तेनेति मूलम् / सर्वमनित्यं प्रमेयत्वात् इत्यत्रानुपसंहार्ये पक्षभिन्नं यत् साध्यवदन्यत् तद्वृत्तित्वं प्रमेयत्वस्य नास्ति सर्वस्य पक्षीकृतत्वात् / तथा चानुपसंहारिणि अतिव्याप्तिर्न भवति। न चासाधकतानुमाने व्यर्थविशेषणतेति वाच्यम् / अयं घटोऽनित्यः घटाकाशोभयवृत्तिद्वित्वाश्रयत्वात् इत्यनुपसंहार्यस्य अथ च विरुद्धस्यापि व्यवच्छेद्यत्वात् तत्रातिव्याप्तिवारणार्थं पक्षान्येति पदम्, घटाकाशोभयवृत्तिद्वित्वाश्रयत्वमाकाशेऽपि वर्तते तस्य साध्य