________________ हेत्वाभासप्रकरणे सव्यभिचारः 457 योगित्वं साध्यस्याभिधेयत्वस्य यो निश्चयस्तद्विरोधित्वं विवक्षितम्, एवं साध्याभाववन्मात्रवृत्तित्वमत्रापि साध्ये हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यविरोधिनिष्ठे तत्त्वनिश्चयः, एतद्विरोधित्वं हेत्वाभासोपाधिकत्वं विवक्षितम् / यद्यपि केवलान्वयिसाध्यके [233 B] अनुपसंहारिणि साध्याभावोऽप्रसिद्धः तथाप्युक्तरूपं यत् साध्याभाववन्मात्रवृत्तित्वं तत् तु प्रसिद्धमेवास्ति। साध्यमभिधेयत्वं तदधिकरणानधिकरणं गगनमेव प्रसिद्धम्। तादृशविरोधित्वस्य यद्यपि व्याप्त्यघटकत्वं तथापि ततो यथाकथञ्चिद् बोध्यम्। तत्र साधारणत्वं न साध्याभाववद्गामित्वम् सर्वमनित्यं मेयत्वात् इत्यनुपसंहार्ये भूर्नित्या गन्धवत्त्वात् इत्यसाधारणे संयोगादिसाध्यकद्रव्यत्वे चातिव्याप्तेः / अत एव नसाध्यवत्तदन्यवृत्तित्वम्, नापि निश्चितसाध्यवत्तदन्यवृत्तित्वम्, साध्यवदन्यवृत्तित्वस्य दूषकत्वेन शेषवैयर्थ्यात् / अत एवामुकेनायमनैकान्तिक इत्येवोद्भाव्यते, तत एव वादिनिवृत्तेश्च न तु सपक्षगतत्वमपि / अनुपसंहार्यो व्यावोऽन्यथा तस्यैतद्विशेषत्वापत्तिरिति चेत्, त्यज तर्हि तमधिकं क्लृप्तेऽन्तर्भावात् / नापि सपक्षविपक्षगतत्वम्, : व्यर्थविशेषणत्वात् / विरुद्धो व्यावर्त्य इति चेत्, न, विपक्षगामित्वस्यैव दूषकत्वे तस्याप्येतदन्तर्भावात् / अथ पक्षान्यसाध्यवत्तदन्यवृत्तित्वं साधारणत्वं तेन सर्वमनित्यं मेयत्वात् इत्यनुपसंहार्ये नातिप्रसङ्गः / न च व्यर्थविशेषणता घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यनुपसंहार्यस्य विरुद्धस्यानैकान्तिकभिन्नस्यव्यवच्छेद्यत्वादिति चेत् / न / दूषकताप्रयोजकरूपभेदमन्तरेण भेदस्यैवानुपपत्तेः / साध्यवद्वृत्तित्वे सति सर्वसाध्यवदन्यवृत्तित्वमित्यपि न व्यर्थविशेषणत्वात् एकव्यक्तिकसाध्ये तदभावाच्च / एतेन हेत्वाभासान्तरव्यवच्छेदक लक्षणान्तरेऽपि विशेषणं व्यर्थमिति / उच्यते / विपक्षगामित्वं साधारणत्वं तन्मात्रस्य दूषकत्वात् विरुद्धस्यापि तत्त्वाज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वम्, अन्यथा तस्य हेत्वाभासान्तरतापत्तेः उपाधेश्च न सङ्कर एव। अथ मूलम्।साधारणलक्षणमाह - साध्याभाववदिति।हेतोरिति शेषः / दूषयति - सर्वमिति। सर्वमनित्यं 1. अनवधानतः लिपिकारेण २३३-अङ्कस्य स्थाने २३४-अङ्कः लिखितः।