________________ 456 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका टीका / अनुपसंहारित्वं तु साध्यवन्मात्रवृत्तित्वसाध्याभाववन्मात्रवृत्तित्वरूपं यदुभयं तन्निश्चयविरोधि / अनुपसंहारित्वज्ञानं यथा भवति तथा अग्रे [अन्]उपसंहारिग्रन्थे उपपादयिष्यते इत्यर्थः / यद्यपीति टीका / यदि चासाधारणस्यसत्प्रतिपक्षोत्थापकतया दूषकत्वं तदासाध्यवत्त्वसाध्याभाववत्त्वरूपोभयनिश्चयविरोधित्वमेवासाधारणस्य जातं न तु साध्यवन्मात्रवृत्तित्वलक्षणा साध्या(ध्य)व्याप्तिः साध्याभाववन्मात्रवृत्तित्वलक्षणा साध्याभावव्याप्तिः तदुभयनिश्चयविरोधित्वं नास्ति इति कृत्वाऽव्याप्तिरित्यर्थः [233 A] | यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्र यत्र यत्र अनित्यत्वाभावः(? अनित्यत्वं) तत्र शब्दत्वाभाव इत्येकोऽनित्यत्वसाध्यस्य] व्यतिरेकसहचारः, पश्चात् यत्रचा(च) नित्यत्वंतत्रशब्दत्वाभाव इति साध्याभावस्यव्यतिरेकसहचार इत्युभाभ्यां व्यतिरेकसहचाराभ्यामुभयव्यतिरेकव्याप्तिग्रहद्वारा उभयसाध्यसाध्याभावयोः सन्देह एव क्रियते न तु निश्चयः, तथा च साध्यसाध्याभावोभयनिश्चयविरोधित्वमेवागतं न तु साध्यवन्मात्रवृत्तित्वलक्षणा साध्यव्याप्तिः। अथ च साध्याभाववन्मात्रवृत्तित्वलक्षणोभयव्याप्तिनिश्चयविरोधित्वं तु नागतमेवेत्यव्याप्तिरित्याशङ्कार्थः / समाधत्ते - तथापीति टीका / यदि असाधारणस्य शब्दत्वस्य साध्यसाध्याभावोभयनिश्चयविरोधित्वमागतं तदा साध्यवन्मात्रवृत्तित्वनिश्चयेन साध्यानुमानं कर्तव्यम्।अथ चसाध्याभाववन्मात्रवृत्तित्वनिश्चयेन साध्याभावानुमानं कर्तव्यं तदापि उभयव्याप्तिनिश्चयविरोधित्वमप्यस्त्येव / एतदेव विवृणोति - व्यतिरेकेति टीका / तथा च व्यतिरेकव्याप्तिपुरस्कारेण सत्प्रतिपक्षोत्थापनात् आदौ उभययोः साध्यसाध्याभावयोर्यो निश्चयः तदुभयविरोधिनिश्चयत्वमागतमेव। तथाहि यत्रानित्यत्वाभावः (यत्रानित्यत्वं) तत्र शब्दत्वाभाव इत्ययं साध्यव्यतिरेकव्याप्तिग्रहसामग्री(साध्यव्यतिरेकसहचारः), यत्र चानित्यत्वं (चानित्यत्वाभावः) तत्रशब्दत्वाभाव इति साध्याभावस्य व्यतिरेकसहचारः, इत्युभाभ्यां व्यतिरेकसहचाराभ्यां प्रथममुभयव्यतिरेकव्याप्तिनिश्चयप्रतिबन्धः क्रियते / साध्यव्यतिरेकव्याप्तेः [साध्याभावव्यतिरेकाव्याप्तेश्चेत्युभयनिश्चयविरोधित्वमपिवर्तते इत्यसाधारणे नाव्याप्तिः / ननु केवलान्वयिसाध्यकेऽनुपसंहारिणि सर्वमभिधेयं प्रमेयत्वात् इत्यत्र साध्याभावस्याप्रसिद्धेः साध्याभाववन्मात्रवृत्तित्वमप्याप्रासिद्धम् इति अनुपसंहारिणि अव्याप्तिः इत्यत आह - केवलान्वयीति टीका। तथा च केवलान्वयिसाध्यकोऽनुपसंहारी अस्य मते लक्ष्य एव न भवति सव्यभिचार एव न भवतीति न तत्राव्याप्तिः अग्रिममूलास्वरसानुरोधात् / तत्सङ्ग्राह्यतापक्षेऽपि नाव्याप्तिस्तत्रेत्याह - तत्सङ्ग्राह्यतेति टीका / साध्याभावस्याप्रसिद्धत्वात् साध्यवन्मात्रवृत्तिात्वास्याप्यप्रसिद्धेर्यतः साध्यवन्मात्रवृत्तित्वं नाम साध्यवद्वृत्तित्वे सति साध्याभाववदवृत्तित्वमिति साध्याभावस्याप्यप्रसिद्धः / तदप्रसिद्धिवारणार्थं विवक्षां करोति / साध्यवन्मात्रवृत्तित्वपदेन साध्यनिष्ठहेतुसमानाधिकरणात्यन्ताभाव(वा)प्रतियोगित्वनिश्चयः / अस्यार्थो यथा साध्यनिष्ठः साध्ये वर्तमानः, एवंभूतोयो हेतु(तुः)[तासमानाधिकरणात्यन्ताभावाप्रतियोगित्वं घटादीनामत्यन्ताभावाप्रति