________________ हेत्वाभासंप्रकरणे सव्यभिचारः 455 टीका / यथा उत्पन्नविनष्टपदार्थव्यभिचारिणि प्रमेयत्वादी उत्पन्नविनष्टपदार्थस्य ज्ञानं केनापि न ज्ञातम् / तत्र तत्साध्यकमपि नावतीर्णं साध्यज्ञानस्य केनाप्यज्ञातत्वात् / तथा च तत्साध्यकसाधारणेऽव्याप्तिः तत्साध्यकासाधारणस्य अप्रसिद्धत्वात् / अथ यं कञ्चित् पुरुषं यं कञ्चित् साध्यमादायासाधारण्यकालो विवक्षित इति पक्षे आह - अन्ये इति टीका। तथा च सद्धेतुत्वज्ञानदशायामतिव्याप्तिः / तथाहि पर्वतो वह्निमान् धूमात् इत्यत्र यदा धूमस्य सद्धेतुत्वेन ज्ञानं वर्तते तदानीं कस्यचित् अन्यस्यासाधारण्यज्ञानं धूमविषयकं भ्रमरूपं यथा सपक्षात् महानसादपि व्यावृत्तं विपक्षाच्च ह्रदादपि व्यावृत्तमिति असाधारण्यज्ञानं जातमिति, तदा धूमेऽतिव्याप्तिः / यद्यपि धूमे साध्यव्याप्तत्वं वर्तते तथापि यत्किञ्चीय पुरुषीयासाधारण्याभावकालावच्छिन्नसाध्यव्याप्तत्वं तु [232 B] नास्त्येव / विशेषणाभावायत्तो विशिष्टाभावः / तथा च धूमेऽसाधारण्याभावकालावच्छिन्नसाध्यव्याप्तत्वाभावो वर्तते। तथा च तत्रपूर्वदलं तिष्ठति।हेत्वाभासचतुष्टयातिरिक्तरूपपर्यवसन्नं तल्लक्षणमादाय धूमेऽतिव्याप्तिरित्यर्थः / एतदेवाह - तदेवासाधारण्येति टीका / विशिष्टाभावेति टीका / असाधारण्याभावकालेत्यादिविशेषणाभावप्रयुक्तो विशिष्टाभाव इति कृत्वा धूमेऽतिव्याप्तिरिति भावः / स्वमतमाह - अंत्रोच्यत इति टीका / साध्येति टीका / साध्यवन्मात्रवृत्तित्वमथ च साध्याभाववन्मात्रवृत्तित्वं च, एतदुभयनिश्चयविरोधिहेत्वाभासतोपाधिस्तद्वत्त्वम् / अयमर्थः - यादृशहेत्वाभासोपाधिज्ञानात् साध्यवन्मात्रवृत्तित्वस्यापि निश्चयो न जायते साध्याभाववन्मात्रवृत्तित्वस्यापि निश्चयो न जायते तादृशहेत्वाभासोपाधिकत्वम् / ननु तादृशोपाधिः क इत्यत आह - तादृशश्चेति टीका / एक उपाधिः सपक्षविपक्षगामित्वं साधारणे।असाधारणे सपक्षविपक्षव्यावृत्तत्वं द्वितीमसाधारणत्वमुपाधिः। तृतीयमनुपसंहारित्वमेवोपाधिः। यथा धूमवान् वढेरित्य(ति) साधारणे वर्हेतोः सपक्षविपक्षगामित्वज्ञाने विद्यमाने साध्यवन्मात्रवृत्तित्वस्य निश्चयो न जायते हेतोर्विपक्षेऽपि विद्यमानत्वात् / अथ च साध्याभाववन्मात्रवृत्तित्वस्यापि निश्चयो न जायते साध्यवति वर्वृत्तेः इति कृत्वा साधारणत्वमुभयनिश्चयविरोधित्वं भवत्येव / शब्दोऽनित्यः शब्दत्वात् इत्यत्राप्यसाधारणे शब्दत्वे सपक्षाविपक्षाव्यावृत्तत्वज्ञानं तत् / साध्यव्यतिरेकव्याप्तिग्रहसामग्री यथा(दा) शब्दत्वमनित्यात् चेत् व्यावृत्तं तदा यत्र(त्रा)नित्यत्वं तत्र शब्दत्वाभाव इत्यनित्यत्वसाध्यव्यतिरेकव्याप्तिग्रहसामग्री / साध्याभावव्यतिरेकव्याप्तिग्रहसामग्री यदा शब्दत्वं विपक्षात् नित्यात् चेत् व्यावृत्तं तदा यत्र नित्यत्वं तत्र शब्दत्वाभाव इति साध्याभावाव्यतिरेकव्याप्तिग्रहसामग्री / तथा च सपक्षविपक्षव्यावृत्तत्वज्ञानाभ्यां साध्यसाध्याभावव्यतिरेकव्याप्तिग्रहसामग्रीभूताभ्यां विरोधात् नैकंसाध्यवन्मात्रवृत्तित्वंसाध्याभाववन्मात्रवृत्तित्वंच तयोर्मध्ये नैकस्यापि निश्चयः किन्तु उभयोः सन्देह एव / यथा स्थाणुत्वपुरुषत्वयोर्विरुद्धज्ञानसामग्रीभ्यां स्थाणुत्वपुरुषत्वयोः सन्देहः न ताभयो)मध्ये कस्यापि निश्चयः, एवमत्रापीत्येकस्यापि न निश्चयः / अनुपसंहारित्वं चेति