________________ 454 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथाहि असाधारण्याभावकालावच्छिन्नसाध्याभावव्याप्यत्वमपि नास्तिअसाधारणस्य विद्यमानत्वात्। उत्तरदले साध्याभावपदं पूर्वदले साध्यपदं प्रविष्टम् / अनुपसंहारिण्यपीदं लक्षणमस्ति यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र असाधारण्याभावकालावच्छिन्नसाध्यव्याप्तत्वमपि साध्याभावव्याप्तत्वमपि नास्ति इति कृत्वा तत्रापि लक्षणं वर्तते / सर्वमनित्वं प्रमेयत्वात् इत्यत्र न वा प्रमेयत्वमनित्यत्वेन व्याप्तम्, न वाऽनित्यत्वाभावेन व्याप्तमित्यनुपसंहारिणि लक्षणं सुस्थम् / पर्वतो वह्निमान् धूमात् इति सद्धेतौ अतिव्याप्तिवारणार्थं पूर्वदलं सत्यन्तं धूमेऽसाधारण्याभावकालावच्छिन्नसाध्यव्याप्यत्वाभावो नास्ति किन्तु असाधारण्याभावकालावच्छिन्नसाध्यव्याप्तत्वमेव वर्तते इति न तत्रातिव्याप्तिः / अथ विरुद्धेऽतिव्याप्तिवारणार्थमुत्तरदलम्, विरुद्धोऽसाधारण्याभावकालावच्छिन्नविरुद्धाभावो नास्ति किन्तु विरुद्धत्वमेवेति भावः / बाधेऽतिव्याप्तिवारणाय उत्तरदलमध्ये साध्याभावव्याप्यत्वपदम् / तदर्थोऽयम् तथा सति सर्वोऽपि लक्षणार्थोऽयम् / असाधारण्याभाबकालावच्छिन्नसाध्यव्याप्तत्वाभावे सति असाधारण्याभावकालावच्छिन्नसत्प्रतिपक्षत्वबाधितत्वस्वरूपासिद्धत्वव्याप्यत्वासिद्धत्वविरुद्धत्वाभास(सा)भाव[232 A] इति लक्षणार्थः / सर्वमुत्तरदलं बाधादा[वातिव्याप्तिवारणाय, पूर्वदलं तुसद्धेतावतिव्याप्तिवारणाय।सद्धेतौ उत्तरदलं वर्तते परंसाध्यव्याप्तत्वाभावो नास्तीति न तत्रातिव्याप्तिः / इदम् उपाध्यायमतं दूषयति - असाधारण्यं हीति टीका / असाधारण्याभावकालावच्छिन्नेत्यत्र असाधारण्यं किं विवक्षितम् ? चत्वारो विकल्पाः तत्पुरुषीयमित्यादि / तत्पुरुषीयपदेन यस्यानुमितिस्तत्पुरुषीयमसाधारण्यम्, तत्साध्यी[य] यस्य साध्यस्यानुमितिप्रतिबन्धस्तत्साध्यीयम्, एवं पुरुषसाध्ययोर्यत्किञ्चिविकल्पो बोध्यौ। आद्यं दूषयति - तत्पुरुषीयमिति / एतद् रूपमनित्यं रूपत्वात् इत्यत्र रूपत्वे हेतौ अनित्यत्वसाध्यकरूपत्वहेतुकासाधारण्यं तस्य पुरुषस्य कदापि नावणीतम्। कथम् ? तस्य पुरुषस्य कदापि सपक्षविपक्षव्यावृत्तस्य ज्ञानं रूपत्वस्य हेतोर्न जातम् / तत्राव्याप्तिः / तत्रासाधारण्यमप्रसिद्धं तत्पुरुषीयमिति कृत्वा रूपत्वेऽव्याप्तिः / एतदेवाह - तत्साध्यकेति टीका / एतद् रूपमनित्यमित्यत्वा(त्रा)नित्यत्वव्यक्तिविशेषसाध्यकसाधारणानैकान्तिकप्रमेयत्वादौ अव्याप्तेर्वज्रलेपत्वात् / तत्पुरुषीयमसाधारण्यमप्रसिद्धमित्यर्थः / अत्राशङ्कते - न चेति टीका / तत्पुरुषं प्रति स साधारणो न भवत्येव असाधारणस्य कदापि तेनाज्ञानात् असाधारणगर्भितत्वात् सव्यभिचारलक्षणस्येति तथा चायमर्थः / साधारणो वाऽनुपसंहारी वा हेतुर्भवतु। तस्मिन् हेतौ यस्य पुरुषस्यासाधारण्यमवतीर्णं तं प्रत्येव स साधारणः, यस्य पुरुषस्य यं हेतुं प्रति असाधारण्यं कदापि नावतीर्णं सहेतुस्तं पुरुषं प्रति साधारणो न भवत्येव इत्याशङ्कार्थः / दूषयति - तस्येति टीका। तस्य साधारणस्य नित्यदोषत्वात् / नित्यदोषस्तु सर्वान् पुरुषान् प्रति तु दोष एव / यथा धूमसाध्यको वह्निः कञ्चित् प्रति दोषः कञ्चित् प्रति अदोष इति नास्ति, सर्वान् प्रति तस्य दोषत्वात्। एवं तत्साध्यकपक्षेऽपि दोषमाह - तत्साध्यकेति