________________ हेत्वाभासघ्रकरणे सव्यभिचारः 453 वन्यभावस्तत्र धूमाभाव इति व्यतिरेकव्याप्तिमत्तया धूमे ज्ञाते साध्यसामानाधिकरण्याज्ञानात् साध्यवन्मात्रवृत्तित्वेनाप्यप्रतीयमानत्वं वर्तते / अथ च धूमस्य व्यतिरेकव्याप्तिमत्तया ज्ञानात् साध्याभाववन्मात्रवृत्तित्वेनाप्यप्रतीयमानत्वं वर्तते / यतो वह्नयभाववति धूमस्याऽप्रतीयमानत्वमेवेति / तत्रातिव्याप्तिवारणार्थं हेत्वाभासपदम् / इति न चेत्यारभ्य कस्यचिन्मते समाधानम् / इदं लक्षणं दूषयति - व्यतिरेकव्याप्तिमत्तयेति टीका / यदा धूमे व्यतिरेकव्याप्तिरेव ज्ञाता तस्यां दशायां साध्यवन्मात्रवृत्तित्वेनाप्रतीयमानत्वं वर्तते / साध्यसामानाधिकरण्याज्ञानात् न साध्यवन्मात्रवृत्तित्वेन तस्य ज्ञानम् / व्यतिरेकव्याप्तिमत्तया ज्ञानाच्च साध्याभाववन्मात्रवृत्तित्वेनापि धूमस्याप्रतीयमानत्वम् / साध्याभाववति धूमाभावस्य गृहीतत्वात् धूमसामानाधिकरण्यं न गृहीतमिति।अथ चावशिष्टं हेत्वाभासत्वम्, तदपिधूमे वर्तते इत्यतिव्याप्तिरित्याह - हेत्वन्तरेणेति टीका। यथा पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यनेन धूमे सत्प्रतिपक्षिते धूमेऽतिव्याप्तेर्हेत्वाभासत्वमपि तत्र जातमिति भावः / ननु सत्प्रतिपक्षावतारकालीनत्वाभावे सति साध्यवदित्यादिपूर्वोक्तं समस्तं लक्षणमित्यत आह - जलेति टीका / जलह्रदो वह्रिमान् धूमात् इति स्वरूपासिद्धे धूमेऽथ च वह्निसामानाधिकरण्येनाज्ञायमाने साध्यवन्मात्रवृत्तित्वेनाप्रतीयमानत्वं वर्ततेऽथ च साध्याभाववन्मात्रवृत्तित्वेनाप्रतीयमानत्वमप्यस्ति यतस्तेन वन्यभाववति धूमस्याग्रहणात् इति स्वरूपासिद्धे धूमे पूर्वकृतसम्पूर्णलक्षणातिव्याप्तिरिति पूर्वकृतलक्षणं दुष्टं कस्यचित् समाधानान्तरमपीति भावः / अथ लक्षणोपरि पूर्वपक्षे कस्यचित् समाधानान्तरमाशङ्ग्य दूषयति - अथेति टीका / असाधारण्याभावस्य यः कालो यत्र कालेऽसाधारण्यं नावतीर्णं तदवच्छिन्नं यत् साध्यव्याप्तत्वं हेतोः तदभावे सति तत्कालः तत्र काले असाधारण्याभावकालावच्छिन्नसाध्याभावाव्याप्यत्वं विरुद्धत्वं च, [231B] एतयोरभावः सव्यभिचारत्वम्। एतल्लक्षणं यथापर्वतो धूमवान् वढेः इत्यत्र वर्तते, तथाहि यद्यपि वह्रौ * साधारणत्वेन ज्ञानकालेऽसाधारणत्वेन ज्ञानं नास्ति तथापि असाधारण्याभावकालावच्छिन्नं यत् साध्यव्याप्तव्यं तदभावस्तिष्ठति / अत्र विशेषणदलमसाधारण्याभावकालः, विशेष्यदलं साध्यव्याप्तत्वम् / यद्यपि वह्नौ साधारणत्वेन ज्ञानकालेऽसाधारण्याभावकालरूपं विशेषणं तिष्ठति तथापि वह्नौ साध्यव्याप्यत्वं विशेष्यं नास्तीति विशेष्याभावप्रयुक्तः सप्तम्यन्तविशिष्टस्याभावः / अथ च वह्रसाधारण्याभावकालावच्छिन्नं यत् साध्याभावव्याप्यत्वं [अथ च विरुद्धत्वं] तयोरभावः उत्तरदलमप्यस्ति, वह्नौ असाधारण्याभावकालावच्छिन्नं यत् साध्याभावव्याप्यत्वम् अथ च विरुद्धत्वं तदभावस्तिष्ठत्येव / यतस्तदा वह्नौ असाधारण्यज्ञानमपि नास्ति तादृशकालावच्छिन्नसाध्याभावव्याप्यत्वमपि नास्ति विरुद्धत्वमपि।अथचशब्दोऽनित्यः शब्दत्वात् इत्यत्रापीदं वर्तते। यद्यपिशब्दत्वेऽनित्यत्वरूपसाध्यव्याप्तत्वमस्ति तथापिअसाधारण्याभावकालावच्छिन्नं साध्यव्याप्तत्वं नास्त्येवासाधारणस्य विद्यमानादेव / अत्र विशेषणाभावप्रयुक्तो विशिष्टाभावः / अत्र द्वितीयमुत्तरदलमप्यस्ति