________________ हेत्वाभासंप्रकरणे सव्यभिचारः 451 कोट्युपस्थापकता स्यादित्यर्थः / समाधानान्तरमाह - प्रामाण्येति टीका / प्रामाण्यसंशयमद्वारीकृत्य साध्यतदभावकोट्युपस्थापकतावच्छेदकरूपवत्त्वं विवक्षितम् / साधारणे सपक्षविपक्षवृत्तित्वज्ञानस्य प्रामाण्यसंशयद्वारा न वह्निसंशयजनकत्वम् इति। असाधारणे तु सपक्षविपक्षव्यावृत्तस्य प्रामाण्यसंशयमद्वारीकृत्यैव साध्यतदभावकोट्युपस्थापकत्वं वर्तते / ज्ञानत्वस्य तु प्रामाण्याप्रामाण्यकोटिद्वारैव साध्येतदभावकोट्युपस्थापकत्वमिति न तत्रातिव्याप्तिः / इदमेवाह - अतइति। द्वितीयंव्याचष्टे - ननु विरुद्धान्यत्वे सतीति लक्षणं स्वरूपासिद्धेऽतिव्याप्तं स्वरूपासिद्धे ह्रदो वह्निमान् धूमात् इति रूपे विरुद्धान्यत्वं वर्तते, अनुमितिविरोधिसम्बन्धो यः स्वरूपासिद्धत्वं तदव्यावृत्तिर्वर्तते इति कृत्वा तत्रातिव्याप्तिरित्यत आह [230 A] - एतच्चेति टीका। तथा च यथा स्वरूपासिद्धे नातिव्याप्तिः, यथा च विरुद्ध नातिव्याप्तिः, यथा च स्वरूपासिद्धसङ्कीर्णे साधारणे विरुद्धसङ्कीर्णेऽसाधारणे च नाव्याप्तिः, तथा पूर्वपक्षलक्षणव्याख्यानावसर एव व्याख्यातमित्यर्थः / लक्षणानुरोधेनेति मूलं व्याचष्टे - लक्षणानुरोधेनेति।यद्विषयत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वंतल्लक्षणानुरोधेन हेत्वाभासलक्षणानुरोधेनेत्यर्थः / तथा च साधारणत्वासाधारणत्वानुपसंहारित्वविषयकज्ञानत्वेनानुमितिप्रतिबन्धकत्वात् तत्त्वादिनैव साधारणत्वादिनैवरूपेण दूषकता हेत्वाभासता चेत्यर्थः। लक्षणान्तरे आशङ्कते - नन्विति टीका।सद्धेतुसङ्कीर्णेऽसाधारणे यथा शब्दोऽनित्यः शब्दत्वात् इति सद्धेतुसङ्कीर्णोऽसाधारणः, शब्दो नित्यः शब्दत्वात् इति विरुद्धसङ्कीर्णोऽसाधारणः, इति एतयोरव्याप्तिः / कथमित्यत आह - प्रथमस्येति टीका / शब्दोऽनित्यः शब्दत्वात् इत्यस्यसाध्यवान् अनित्यत्ववान्यः शब्दस्तन्मात्रवृत्तिद्व(व)स्तुगत्याऽनित्यमात्रवृत्तित्वंतस्येतिभावः। द्वितीयस्य शब्दो नित्यः शब्दत्वात् इत्यस्य नित्यत्वरूपं यत् साध्यं तदभाववन्मात्रवृत्तित्वात् साध्याभाववन्मात्रवृत्त्यन्यत्वं नास्ति। ततोऽत्रासाधारणेऽव्याप्तिरित्याशङ्कार्थः / मध्ये शङ्कते - नचेति टीका। अत्र साध्यवत्पदं निश्चितसाध्यवत्परं साध्याभाववत्पदमपि निश्चितसाध्याभावावापरमित्यर्थः / शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वस्य साध्यवन्मात्रवृत्त्यन्यत्वं नास्ति तथापि निश्चितसाध्यवन्मात्रवृत्त्यन्यत्वं तु वर्तत एव निश्चितसाध्यवन्तो ये घटपटादयस्तव्यावृत्तत्वं वर्तत एव शब्दे तु साध्यमनित्यत्वं निश्चितं नास्ति, एवं शब्दो नित्यः शब्दत्वात् इत्यत्र शब्दः साध्याभाववत्तया निश्चितो नास्ति किन्तु ये साध्याभाववत्तया नित्यत्वाभाववत्तया निश्चिता 'घटपटादयस्तद्व्यावृत्तत्वं वर्तत एव, इति निश्चितसाध्यवन्मात्रवृत्त्यन्यत्वं निश्चितसाध्याभाववन्मात्रवृत्त्यन्यत्वं वर्ततएवेति नोक्ता[5]साधारणे व्याप्तिरिति मध्ये शङ्कार्थः / दूषयति - अनुपसंहारीति टीका। तथा चसर्वमनित्यं प्रमेयत्वात् इत्यत्र विश्वस्यैव साध्यसन्देहवत्तया निश्चितसाध्यवतोऽप्रसिद्धरित्यनुपसंहारिणि अव्याप्तिः / ततो निश्चितसाध्यवन्मात्रवृत्त्यन्यत्वं नास्ति / दूषणान्तरमाह - धूमेति टीका / पर्वतो वह्निमान् धूमात् इत्यत्र धूमस्य निश्चितसाध्याभाववन्मात्रवृत्त्यन्यत्वमस्ति निश्चितसाध्याभाववान् हृदादिस्तन्मात्रवृत्त्यन्यत्वं वर्तते / अथ च