________________ 450 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्याप्तिग्रहविरोधित्वं वर्तत एवेति सर्वमवदातम् / एतदेवाह - साध्यसन्देहः / पक्षे साध्यसन्देहः, साध्ये पक्षवृत्तित्वसन्देहश्च, एतौ व्याप्तिग्रहविरोधिनौ भवत एव।सर्वस्यापिपक्षीकृतत्वात् कुत्रापि साध्यनिर्णयो नास्ति नापि साध्याभावनिर्णयः केवलान्वयित्वात् इति कृत्वा केवलान्वयिसाध्यकेऽनुपसंहारिणि नाव्याप्ति। व्याप्तिनिश्चयविरोधिसन्देहजनककोटिद्वयोपस्थापकत्वमिति सव्यभिचारस्य लक्षणम् अनुपसंहारिण्यप्यस्ति, सर्वपक्षे यथा साध्यसन्देहो व्याप्तिविरोधी कुत्रापि साध्यस्य निश्चयाभावात् व्याप्तिविरोधित्वं तस्य, एवं साध्येऽपि सर्वपक्षवृत्तित्वसन्देहोऽपि व्याप्तिविरोधी भवत्येव कुत्रापि साध्यनिर्णयाभावात् / इदं तु केवलान्वयिसाध्यकेऽनुपसंहारिण्यप्यस्तीति भावः / सर्वमभिधेयं प्रमेयत्वात् इत्ययमनुपसंहारी कुत्रापि साध्यनिर्णयाभावात् व्याप्तिग्रहविरोध इति लक्षणं सुस्थम् / अत्राशङ्कते - अथायमिति टीका। अयमिच्छावान् ज्ञानात् इत्यत्र सद्धेतौ प्रामाण्याप्रामाण्यरूपा या उभयकोटिस्तस्या या उपस्थितिर्यथा इदं ज्ञानं प्रमा न वेति तज्जनकतावच्छेदकं यद् ज्ञानत्वं तद्वति ज्ञाने सद्धेतावतिव्याप्तिः / प्रथममिच्छावान् इत्यनुमितौ ज्ञानत्वसाधारणधर्मदर्शनात् इदं ज्ञानं प्रमा नवेति [229 B] तज्जनकतावच्छेदकं यद् ज्ञानत्वं तद्वति ज्ञाने] प्रामाण्याप्रामाण्योभयकोट्युपस्थितिर्जायते तया प्रामाण्याप्रामाण्यरूपया उभयकोट्युपस्थित्या इच्छारूपं यत् साध्यं तस्य संदेहः क्रियते यतः प्रामाण्याप्रामाण्यसन्देहानन्तरं विषयसन्देहस्यानुभवसिद्धत्वात् / अयमिच्छावान् इति इच्छाया अनुमितौ विषयत्वात् अनुमितौ प्रामाण्यसन्देहात् इच्छासन्देहः तथा चेच्छासन्देहजनिका या उभयकोट्युपस्थितिः प्रामाण्याप्रामाण्यकोट्युपस्थितिः तज्जनकतावच्छेदकं यद् ज्ञानत्वं तद्वति ज्ञाने सद्धेतौ अतिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - यन्निष्ठतयेति टीका / तथा च यन्निष्ठतया यद् ज्ञानमुभयकोट्युपस्थितिजनकं तादृशेऽवच्छेदकरूपवत्त्वं विवक्षितम् / यथा पर्वतो धूमवान् वह्नः इत्यत्र वह्निनिष्ठतया सपक्षविपक्षवृत्तित्वज्ञानम्, तत् धूमतदभावसन्देहजनककोटिद्वयोपस्थापकं भवति इति कृत्वा वह्नौ सपक्षविपक्षवृत्तित्वं साधारणत्वम्, तद् वर्तते वह्नौ इति कृत्वा वह्निः साधारणः, इदं ज्ञानत्वे नास्ति, ज्ञानत्वं ज्ञानरूपहेतुवृत्तितयैव साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकमिति नास्ति / यत्र हेतुवृत्तित्वं ज्ञानत्वस्य नास्ति तत्रापि पर्वतो वह्निमान् धूमात् इत्यनुमितौ प्रामाण्याप्रामाण्यसन्देहाधीनो वह्निसन्देहो जन्यते एव। अयमर्थः - धूमेज्ञानत्वाभावेऽपि वह्नयनुमितौ [प्रामाण्याप्रामाण्यसन्देहात् वह्निसन्देहो भवत्येव / तथा च ज्ञानरूपहेतुवृत्तितयैव ज्ञानत्वं न प्रामाण्यांप्रामाण्यकोट्युपस्थितिजनकं किन्तु हेतुवृत्तित्वाभावेऽपि साध्यसन्देहजनकं भवत्येव इति न तत्रातिव्याप्तिः ज्ञानत्वस्य धूमेऽभावात् / एतदेवाह - अनुमितिवृत्तितयेति टीका / तथा च यत्र धूमवृत्तितया ज्ञानत्वस्य ज्ञानं नास्ति तत्रापीत्यर्थः / बाधकमाह - अन्यथेति टीका / यदि हेतुवृत्तितयैव ज्ञानत्वस्य साध्यसन्देहजनकप्रामाण्या[प्रामाण्याकोट्युपस्थितिजनकत्वे इत्यर्थः / तथात्वं न स्यादिति टीका / वह्निसन्देहजनकप्रामाण्याप्रामाण्य