________________ 449 हेत्वाभासप्रकरणे सव्यभिचारः [अथ टीका]।पूर्व सव्यभिचारस्य सिद्धान्ते टीका यथा उभयकोट्युपस्थापकतेत्यत्राशङ्कते - नन्विति टीका। शब्दोऽनित्यः शब्दत्वात् इत्यात्र] शब्दत्वं सपक्षविपक्षव्यावृत्तत्वेनोपस्थितम् / शब्दत्वे च शब्दात् आप्तवाक्यादिरूपात् यथा इदं शब्दत्वम् अनित्यत्वव्याप्यमित्येवंरूपात् व्याप्तिग्रहः, तस्यां दशायामसाधारणोत्तीर्णेनानुमितिजननात् हेत्वाभासत्वं नास्ति, उभयकोट्युपस्थापकतावच्छेदकं यद् रूपं सपक्षविपक्षव्यावृत्तत्वं तच्चात्रापि तिष्ठतीति सद्धेतौ शब्दत्वे लक्षणमतिव्याप्तमित्याशङ्कार्थः / समाधत्ते - तव्याप्तीति टीका। भ्रान्तोऽसीत्यभिप्रायः / न हि आप्तवाक्यादिना व्याप्तिग्रहे जाते शब्दातिरिक्तस्थले हेतुसाध्ययोः सामानाधिकरण्यनिर्णयाभावात् शब्दे एव सामानाधिकरण्यनिर्णयो वक्तव्यः / अयं भावः - आप्तेनोक्तं शब्दत्वमनित्यत्वव्याप्यमिति रूपो यो व्याप्तिग्रहः स पक्षातिरिक्ते नास्त्येव, तथा च शब्द एव पक्षेऽनित्यत्वशब्दत्वयोनिर्णयो वक्तव्यः, तथा च पक्ष एवानित्यत्वस्य निर्णयो जातः, तदा पक्षस्यैव सपक्षत्वात् सपक्षव्यावृत्तत्वाभावात् उभयकोट्युपस्थापकत्वमेव तत्र नास्तीति लक्षणस्यापि तत्राभावात् नातिव्याप्तिः / एतदेवाह - सकलेति टीका। तत्र शब्दत्वे व्याप्तिग्रहदशायामाप्तवाक्यादिना अभावात् लक्षणाभावादित्यर्थः / न चाप्तवाक्यात् शब्दत्वानित्यत्वयोः सामानाधिकरण्यलक्षणश्चेद् व्याप्तिग्रहो भवति तदा सपक्षव्यावृत्तत्वं नास्तीति त्वया वक्तव्यम् / परं साध्याभावव्यापकाभावप्रतियोगित्वलक्षणो व्यतिरेकव्याप्तिग्रह एव चेत् स्यात् शब्दत्वमनित्यत्वाभावव्यापकाभावप्रतियोगीति व्याप्तिग्रहो जातः, तस्यां दशायां व्यतिरेक्यनुमितिरेव जन्यते, तदानीं [229 A] पक्षे शब्दे साध्यसन्देहात् अनित्यत्वसन्देहात् अन्यत्रानित्येभ्यो व्यावृत्तत्वज्ञानात् सपक्षविपक्षव्यावृत्तत्वज्ञानं तिष्ठति / तथा च तस्यां दशायामुभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वज्ञानं वर्तते इति कृत्वा तत्र सद्धेतावतिव्याप्तिरित्यस्वरसादाह - विशेषादर्शनसहितस्येति टीका / तथा च विशेषादर्शनसमानकालीनोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वंलक्षणम्।यत्र चाप्तवाक्यात्व्यतिरेकव्याप्तिग्रहो जातस्तत्र साध्याभावव्यापकाभावप्रतियोगित्वज्ञानमेव विशेषदर्शनं तिष्ठतिइतिकृत्वा विशेषदर्शनासमानकालीनत्वाभावात् नातिव्याप्तिः / अत्राशङ्कते - नन्विति / सर्वमभिधेयं प्रमेयत्वात् इत्यत्र केवलान्वयिसाधकेऽनुपसंहारिण्यव्याप्तिः / कथम् ? साध्यस्यैव प्रसिद्धिः (द्धेः), साध्याभावकोटेरप्रसिद्धः। तथा च साध्यतदभावोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वाभावादव्याप्तिः / एतदेवाह - साध्याभावकोटेरिति टीका / समाधानमाह - तस्येति टीका। तस्यानुपसंहारिणोऽलक्ष्यत्वात् / तथा चोक्तरूपोऽनुपसंहारी एव न भवति। ननु सर्वमभिधेयं प्रमेयत्वात् इति अनुपसंहारिणश्चेति वक्ष्यमाणग्रन्थविरोध इत्यत आह. - व्याप्तीति टीका / तथा च व्याप्तिनिश्चयविरोधी यः सन्देहः स साध्यकोटिको यद्यपि न भवति साध्यस्य केवलान्वयित्वेन सन्देहाभावात् तथापिअभिधेयत्वंसकलपदार्थनिष्ठात्यन्ताभावप्रतियोगी नवेति सन्देहस्यापि साध्यं सकलपक्षवृत्तिनवेतिवत्