________________ 448 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा चासाधारणस्य साध्यसाध्याभावोपस्थापकत्वाभावात् असाधारणेऽव्याप्तिः / यदि असाधारणत्वज्ञानेन साध्यसाध्याभावोपस्थितिश्चेत् क्रियते तदा तत्र लक्षणं वर्तते परं तेन विरोधिव्याप्तिसंशय एव क्रियते विरुद्धव्याप्तिग्रहसामग्रीसमवधानवशात् इत्यत आह - तेनेति मूलम् / यत उभयकोट्युपस्थापकरूपवत्त्वेन विभाजकोपाधिस्तेन रूपेण विभागः क्रियते, तथा चासाधारणेन यदा साध्यतदभावोपस्थितिः सत्प्रतिपक्षद्वारा क्रियते तदा सत्प्रतिपक्षोत्थापकत्वेन दूषकत्वपक्षे उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं तिष्ठति इति कृत्वा न असाधारणेऽतिव्याप्तिः / असाधारणस्य सत्प्रतिपक्षोत्थापकत्वं यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्र यत्र यत्र अनित्यत्वाभावस्तत्र शब्दत्वाभावोऽनया व्याप्तिग्रहसामा याऽनित्यत्वाभावव्याप्यशब्दत्वाभावप्रतियोगिमान् अयमिति परामर्शः इति नित्यत्वानुमाने सत्प्रतिपक्षः एवं यत्र नित्यत्वं तत्र शब्दत्वाभावो यथा आकाशे तथा च नित्यत्वव्यापकशब्दत्वाभाववान् अयमिति द्वितीयः परामर्शः, इत्युभयोः परामर्शयोः साध्यसाध्याभावकोट्युपस्थापकत्वं वर्तते इति कृत्वाऽसाधारणस्योक्तसत्प्रतिपक्षद्वारा उभयकोट्युपस्थापकत्वमस्तीत्यसाधारणे नाव्याप्तिः / अथ त्रयाणां प्रत्येकरूपेणासाधारणत्वादिना यदि दूषकत्वं तदा किमुभयकोट्युपस्थापकतावच्छेदकरूपेणेत्याशङ्का निराकर्तुमाह - न चैवमिति मूलम् / साधारणत्वादिना प्रत्येकरूपेण दूषकत्वं चेत् तदा हेत्वाभासाधिक्यं स्यात् असिद्धादयश्चत्वारस्त्रयश्चैते इति सप्त स्युरित्याशङ्कार्थः / समाधत्ते - स्वरूपसतेति। यद्यपि एषां प्रत्येकरूपेण दूषकत्वं तथापि स्वरूपसत् यदनुगतं रूपम् उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं तेन रूपेण महर्षिणा विभागकरणात् नाधिक्यम् / यदि(द्यपि) उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वज्ञानम् उक्तरीत्या अनुमितिप्रतिबन्धकं न भवति तथाप्यनेन रूपेण त्रयाणामेकीकरणमेव प्रयोजनम् / सव्यभिचारस्यान्येभ्योऽयं विभाजकोपाधिरित्यत्र तात्पर्यम् / [228 B] एतदेवाह - महर्षिणेति मूलम् / अत्राशङ्कते - न चेति मूलम् / यदि दूषणप्रयोजकरूपभेदेऽपि उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वेन त्रयाणामेकीकरणं तदा साध्याभावव्यापकत्वेन बाधप्रकरणयोरपि तज्ज्ञापकतया अन्येषामपि विरुद्धादीनामपि अनेकरूपेण सङ्ग्रहः स्यात् तथा च हेत्वाभासद्वयं त्रयं वा स्यादित्याशङ्कार्थः / समाधत्ते - स्वतन्त्रेच्छेति / यथा वेगभावनास्थितिस्थापकानां संस्कारत्वेन रूपेण एक एव विभागः धर्माधर्मयोरदृष्टत्वेन रूपेण एकविभागसम्भवेऽपि धर्मत्वेन रूपेण धर्मस्याधर्मत्वेन चाधर्मस्येति विभागद्वयं कृतमित्यत्र विभागकरणे स्वतन्त्रस्य महर्षेरिच्छा नियामिका। तथात्रापि बाधसत्प्रतिपक्षयोरपि अनेन रूपेणान्तर्भावो भवति / तथापि न कृत इत्यत्र महर्षेरिच्छैव प्रमाणम् / नियोग इति मूलम् / नियोगस्तु एवमेव इति रूपः / पर्यनुयोगस्तु अनेवंरूपः तदविषयत्वात् एवं कथं कृतं कथं वा न कृतमिति वक्तुमशक्यत्वादित्यर्थः / अथ एतेषु त्रिषु मध्ये प्रथमोपस्थितस्य साधारणस्य लक्षणमाह - तत्रेति।