SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सव्यभिचारः 447 यथा पर्वतो धूमवान् वह्नः इति साधारणे सपक्षविपक्षवृत्तित्वेन साध्यसाध्याभावसहचरितत्वम्, यथा पर्वतो धूमवान् वह्नः इत्यत्र वह्निः धूमधूमाभावसहचरितोभवतीति ज्ञानेन पर्वतो धूमवान् न वाइति कोटिद्वयोपस्थापकत्वं जायते। तदवच्छेदकमत्र साधारणत्वम्, तद्वत्त्वं साधारणेऽस्ति। एवं शब्दोऽनित्यः शब्दत्वात् इति असाधारणस्य सपक्षविपक्षव्यावृत्तत्वेन रूपेण साध्यसाध्याभावकोट्युपस्थापकत्वम्, यथा शब्दत्वमनित्येभ्यो घटादिभ्योऽपि व्यावृत्तं विपक्षेभ्य आकाशादिभ्योऽपि व्यावृत्तम् अतः किं शब्दत्ववान् शब्दः किं नित्योऽनित्यो वेति कोटिद्वयोपस्थापकत्वम्, तदवच्छेदकं सपक्षविपक्षव्यावृत्तत्वम्, तदेवासाधारणत्वम् / अनुपसंहारिणि तु अग्रे वदिष्यति - अनुपसंहारित्वमेवेति। पूर्वोक्तमेव लक्षणं समर्थयति - विरुद्धान्यत्वेति मूलम् / विरुद्धान्यत्वविशिष्टे(ष्टो) योऽनुमितिविरोधिसम्बन्ध(न्धः) [तास्य याऽव्यावृत्तिः स(सा) एवानैकान्तिकत्वम् / तच्च रूपं किमित्यत आह - साधारणत्वादीति मूलम् / ननु [उ]भयकोट्युपस्थापकतावच्छेदकसाधारणत्वादिज्ञाने तेनैव साधारणत्वादिनैवरूपेणास्य दूषकत्वमस्तु, किमनेनोभयकोट्युपस्थापकतावच्छेदकत्वरूपेण। यदिचसाधारणत्वं रूपमुपस्थितं नास्ति तदोभयकोट्युपस्थापकत्वस्यैवाज्ञानात् तदाऽनेन रूपेण दूषकत्वमेव न सम्भवतीत्यत आह - तेनैवेति मूलम् / तेनैव साधारणत्वादिरूपेणैव ज्ञातस्य हेतोः प्रतिबन्धकत्वम्, न तूभयकोट्युपस्थापकतावच्छेदकत्वरूपेण ज्ञानस्य दूषकत्वम् / परस्य वादिनस्तेनैव साधारणत्वादिरूपेणोद्भावनं युक्तम् / ननु यदि साधारणत्वादिरूपेणज्ञानस्य दूषकत्वंतदा येनरूपेण दूषकत्वं तेनैवरूपेण हेत्वाभासविभागोऽस्तु, किमनेनोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वेनेत्यत आह - लक्षणेति मूलम् / यादृशधर्मविषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वंतादृशरूपवत्त्वमेव हेत्वाभासोपाधिः। साधारणत्वासाधारणत्वानुपसंहारित्वविषयकज्ञानत्वेनानुमितिप्रतिबन्धकत्वम्, तदेव हेत्वाभासविभाजकोपाधिः / ननु तर्हि उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वस्य किं प्रयोजनमिति चेत् तदने वक्ष्यामः / लक्षणान्तरमाह - साध्यवन्मात्रेतिमूलम्। साध्यवन्मात्रवृत्तिर्यस्तद्भिन्नत्वे सति इत्येकं दलम्, द्वितीयं साध्याभाववन्मात्रवृत्तिर्यस्तद्भिन्नत्वे सतीति, सत्यन्तस्य कृत्यं यथा पर्वतो वह्निमान् धूमात् इत्यत्रातिव्याप्तिवारणाय, धूमोऽपि साध्याभाववन्मात्रवृत्त्यन्यो भवंति / साध्याभाववन्मात्रवृत्तिह्रदत्वं तद्भिन्नत्वं धूमेऽपि वर्तते इत्यतः साध्यवन्मात्रवृत्त्यन्यत्वं विवक्षितम्, साध्यवन्मात्रवृत्त्यन्यत्वमित्येवास्तु। तदा विरुद्धेऽतिव्याप्तिः / [228 A] साध्यवन्मात्रवृत्त्यन्यो भवति विरुद्धोऽत आह - साध्याभाववन्मात्रवृत्त्यन्यत्वम्। एतच्च विरुद्ध नास्ति। कथम् ? विरुद्धस्य साध्याभाववन्मात्रवृत्तित्वात् तस्य इति भावः। नन्वसाधारणस्य विरोधिव्याप्तिग्रहसामग्रीत्वेन दूषकतायाम् उभायकोट्युपस्थापकतावच्छेदकमसाधारणत्वं न भवति। अयमर्थः - असाधारणस्य यत्र यत्र नित्यत्वं तत्र तत्र शब्दत्वाभावः, यत्रापि नित्यत्वं तत्रापि शब्दत्वाभाव इति विरोधिव्याप्तिग्रहसामा याः समवधाने परस्परव्याप्तिनिश्चयप्रतिबन्धकत्वेन व्याप्तिसंशायकत्वेन वा प्रतिबन्धकत्वं
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy