________________ 446 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदेव तयोर्नास्ति।नहि अबाधितत्वम् असत्प्रतिपक्षत्वं चलिङ्गपरामर्शविषयो यतो वह्रिव्याप्यधूमवान् अयमिति परामर्शमध्येऽबाधितत्वमसत्प्रतिपक्षत्वं च भासत इति तयोरतिव्याप्तिर्निरस्ता भवति।आशयमविद्वान् शङ्कते - नचेति टीका / यथाश्रुते विरुद्ध स्वरूपासिद्धे चातिव्याप्तिः यतः सहचार: पक्षधर्मता चेति रुपद्वयं परामर्शविषयो भवत्येव। ततस्तच्छून्यत्वं पक्षधर्मताशून्यत्वं वर्तते स्वरूपासिद्धे, सहचारशून्यत्वं च वर्तते विरुद्धे, ततस्तत्रातिव्याप्तिरित्यर्थः / आशयमुद्घाटयति - स्वरूपासिद्धेति टीका / तथा च विरुद्धान्यस्मिन् पक्षवृत्तिहेतौ यद् वर्ततेऽनुमित्यौपयिकसम्बन्धशून्यत्वं रूपं तद्वत्त्वं विवक्षितम्।स्वरूपासिद्धे विरुद्ध चत्वया याऽतिव्याप्तिर्दातव्या सा पक्षधर्मताशून्यत्वं सहचारशून्यत्वं वाऽऽदायातिव्याप्तिर्दातव्या / स्वरूपासिद्धे पक्षधर्मताशून्यत्वं विरुद्धे च सहचारशून्यत्वमादायातिव्याप्तिर्दातव्या, सा चातिव्याप्तिर्न भवति।नहि सहचारशून्यत्वं पक्षधर्मताशून्यत्वं वा... पक्षवृत्तौ विरुद्धान्यस्मिन् / पक्षवृत्तौ चैतादृशं रूपं तु लक्षणे विवक्षितं वर्तते / तत्तु पक्षधर्मताशून्ये(न्यत्वं) स्वरूपासिद्धे नास्ति, विरुद्धे च सहचारशून्यत्वं नास्ति / तथा चायमर्थः - पक्षवृत्तौ विरुद्धान्यस्मिन् वर्तते, यदनुमित्यौपयिकसम्बन्धशून्यत्वं तद् विपक्षवृत्तित्वं सपक्षव्यावृत्तत्वम् अनुपसंहारित्वम्, तदेवानुमित्यौपयिकसम्बन्धशून्यत्वं पक्षवृत्तौ विरुद्धान्यस्मिन् इति विशेषणमहिम्नाऽऽयास्यतिन तुपक्षधर्मताशून्यत्वं सहचारशून्यत्वं वा येन स्वरूपासिद्ध(द्धे) विरुद्धे वाऽतिव्याप्तिः स्यात् / एतदेवाह - न तदुभयमिति टीका / प्रथमस्येति। पक्षधर्मताशून्यत्वस्यापक्षधर्मे न तु पक्षवृत्तिनी (तावि)त्यर्थः / द्वितीयस्येति / सहचारशून्यस्येत्यर्थः / सहचारशून्यत्वं विरुद्ध एव, न तु विरुद्धान्यस्मिन् [227 B] इत्यर्थः। उच्यते। उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वंतत्त्वं विरुद्धान्यपक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्यावृत्तिर्वा अनैकान्तिकत्वम्, तच्च साधारणत्वादि, तेनैव रूपेण ज्ञातस्य प्रतिबन्धकत्वात् परस्य तथैवोद्भावनाच्च लक्षणानुरोधेन प्रत्येकमेव हेत्वाभासत्वम् / यद्वा साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं तेनासाधारणस्य साध्यतदभावोपस्थापकतया दूषकत्वपक्षे नाव्याप्तिः। न चैवमाधिक्ये विभागव्याघातः, स्वरूपसतानुगतरूपेण त्रयाणामेकीकृत्य महर्षिणा विभागकरणात्। नचैवंसाध्याभावज्ञापकत्वेन बाधप्रकरणसमयोस्तदज्ञापकतयान्येषामुपसङ्ग्रहः कुतो न कृत इति वाच्यम् / स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानहत्वात् / अथ मूलम् / उभयेति / उभयकोट्योः साध्यसाध्याभावरूपयोरुपस्थापकतावच्छेदकं यद् रूपं तद्वत्त्वम् /