SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सव्यभिचारः तद्रूपवत्त्वेन रूपेण यत् हेत्वाभासत्वं तत् यद्यपि ग्रहीतुं न शक्यते तथापि शब्दादनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं यत्किञ्चित् रूपं तद्रूपवान् अयम् इत्येवंरूपात् हेत्वाभासत्वग्रहो भवत्येव / तथापि न सर्वत्र एतादृशः शब्दप्रयोग इति भावः / अग्रे यद्यपीत्यारभ्यापरितोषादितिपर्यन्तं मूलक्किका मूलान्तरपुस्तके द्रष्टव्या / ततोऽत्र न व्याख्याता / नापीतीति टीका। सपक्षविपक्षगतत्वं हेतोरित्येकं दलम्, द्वितीयं यथा सर्वसपक्षविपक्षव्यावृत्तान्यतरत्वम्, एतन्मध्येऽन्यताराद्रूपम् एकं साधारणेऽन्यच्चासाधारण इति उभयसाधारणं लक्षणम् / अत्र सर्वपदस्य कृत्यमाह - अयोगोलक इति टीका / तथा च पर्वतो वह्निमान् धूमात् इत्यत्र यत्किञ्चित्, सपक्षोऽयोगोलकम्, ततो व्यावृत्तोधूमो वर्तते, विपक्षव्यावृत्तत्वमप्यस्ति इति कृत्वाधूमेऽप्यसाधारणस्यादित्यतः सर्वपदम्, सर्वसपक्षव्यावृत्तत्वं धूमे नास्तीति नातिव्याप्तिः / न हि महानसादिसपक्षात् व्यावृत्तो धूम इति न तस्यासाधारण्यम् / ननु ह्रदो धूमवान् वह्नः इति स्वरूपासिद्धसङ्कीर्णे साधारणेऽव्याप्तिः / कथम् ? वह्नः पक्षवृत्तित्वाभावात् इति। अतो व्याचष्टे - पक्षवृत्तित्वे सति विरुद्धान्यत्वे च सति अनुमित्यौपयिकसम्बन्धशून्यत्वम् / एतस्यायमर्थः विरुद्धान्यपक्षवृत्तौ हेतौ यदनुमित्यौपयिकव्याप्त्यादिसम्बन्धशून्यत्वं तद्वत्त्वमित्यर्थः / स्वरूपासङ्कीर्णे साधारणे यद्यपि पक्षवृत्तित्वं नास्ति तथापि वस्तुगत्या विरुद्धान्यस्मिन् पक्षवृत्तिहेतौ यद् व्याप्त्यादिसम्बन्धशून्यत्वं वर्तते तद्वत्त्वं तु स्वरूपासिद्धसङ्कीर्णे साधारणे वर्तते एव / अयमर्थः - यथा नैमित्तिकद्रवत्ववत्त्वं यद्यपि घटे नास्ति तथापि नैमित्तिकद्रवत्ववति यद् द्रव्यविभाजकोपाधिरूपं पृथिवीत्वं तद्वत्त्वं घटे तिष्ठत्येव तद्वत् यद्यपि ह्रदपक्षकधूमसाध्यकवह्निहेतौ पक्षवृत्तित्वाभावादव्याप्तिः तथापि पक्षवृत्तिनि विरुद्धान्यस्मिन् हेतौ पर्वतो धूमवान् वढेरित्यादिवढ्यादौ हेतौ यद् व्याप्त्यौपयिकसम्बन्धशून्यत्वं वर्तते तद्वत्त्वं हृदपक्षकहेतावपिवर्तते पर्वतपक्षकहेतावपिवर्तते।नहिव्याप्त्यौपयिकसम्बन्धो हृदपक्षेऽपिवर्तते, पर्वतपक्षेऽपि 'न वर्तते इति कृत्वा नाव्याप्तिः / विवक्षायाः प्रयोजनमाह - तेनेति टीका। अथ बाधसत्प्रतिपक्षयोरतिव्याप्ति निराकरोति - अनुमित्यनौपयिकत्वमिति टीका। तथा चानुमित्यौपयिकत्वमेतादृशं विवक्षितम् / अनामिति]कारणलिङ्गपरामर्शविषयतावच्छेदकत्वरूपं विवक्षितम्।अस्यार्थः - अनुमितिकारणीभूतो यो लिङ्गपरामर्शस्तस्य विषयतया [227 A] यदवच्छेदकं रूपं तच्चाव्यभिचारांशः सहचारांशः पक्षधर्मत्वांशः, तद्रूपशून्यत्वम्, तच्च व्यभिचारिणि विरुद्ध स्वरूपासिद्धे च वर्तते, तन्मध्ये व्यभिचारिणो लक्ष्यत्वात् विरुद्धस्य स्वरूपासिद्धस्य च पक्षवृत्तित्वविरुद्धान्यत्वविशेषणदानाद् वारणात् स्वरूपासिद्धविरुद्धसङ्कीर्णे च व्यभिचारिणि विरुद्धान्यस्मिन् पक्षवृत्तौ यवर्ततेऽनुमित्यौपयिकव्याप्त्यादिसम्बन्धशून्यत्वं तद्वत्त्वस्य विद्यमानत्वादेवनाव्याप्तिः। बाधसत्प्रतिपक्षयोरतिव्याप्तिस्तु अनुमितिकारणलिङ्गपरामर्शविषयतावच्छेदकत्वविवक्षयैव निरस्ता। न हि अबाधितत्वम् असत्प्रतिपक्षत्वं चानुमितिकारणलिङ्गपरामर्शविषयः, चेत्स्यात् तदा तद्रूपशून्यत्वं बाधिते सत्प्रतिपक्षे चस्यात्,
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy