________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तुएतावत एवोपयोगात्। दूषणान्तरमाह - एतेनेति मूलम्। एतेन व्यर्थविशेषणत्वेनैव सर्वाणि त्रितयसव्यभिचारसाधारणानि यानि लक्षणानि तानि परास्तानि / प्रत्येकमिति मूलम् / विपक्षवृत्तित्वात् इत्येतस्यैवोद्भ(भा)वने [227A]निग्रहसमर्थत्वेन वादिनो निवृत्तेरन्यदिति विशेषणं व्यर्थमितिभावः / असाधारणे चसपक्षवृत्तित्वादिनैव अनुपसंहारिणि तु व्याप्त्युपसंहारस्थानाभावात् व्याप्तिग्रहस्थानाभावादेवासाधकत्वमित्यर्थः / अथ टीका। साध्याव्याप्यत्वेति टीका / नन्विदं लक्षणं शब्दोऽनित्यः शब्दत्वात् इत्यसाधारणेऽव्याप्तिः(प्तम्) / कथम् ? यतस्तत्र साध्याव्याप्यत्वं शब्दत्वस्य हेतोर्नास्ति साध्यव्याप्यत्वात् यत्र यत्र शब्दत्वं तत्रानित्यत्वमित्यत आह - अन्यथा व्याचष्टे साध्यव्याप्यत्वेति / तथा च यद्यपि साध्याव्याप्यत्वं शब्दत्वस्य नास्ति तथापि साध्यव्याप्यत्वनिश्चयविरोधि अथ च साध्याभावव्याप्यत्वनिश्चयविरोधि यद् रूपमसाधारणत्वं तच्चशब्दत्वे वर्तते।नहिशब्दत्वस्यासाधारणज्ञानकाले साध्यव्याप्यत्वनिश्चयः, साध्याभावव्याप्यत्वनिश्चयोऽपि नास्ति / साध्यनिश्चयानिश्चयवति हेतुनिश्चयाभावेन साध्यसामानाधिकरण्यग्रहाभावे कुत्रापि साध्यव्याप्यत्वनिश्चयो न सम्भवतीत्यर्थः।एवं साध्याभाववतिगगनादौ हेतुनिश्चयाभावेनशब्दत्वनिश्चयाभावेन साध्याभावव्याप्यत्वनिश्चयोऽपि नास्तीति दूषणं द्रष्टव्यम् / एवं लक्षणान्तरे साध्यवन्मात्रेत्यादिलक्षणेऽपि एतस्मादेव दूषणात् अन्यथा व्याचष्टे - साध्यवन्मात्रवृत्तित्वनिश्शयेति टीका। तथा च साध्यवन्मात्रवृत्तित्वस्य निश्चयः साध्याभाववन्मात्रवृत्तित्वस्यापि निश्चयः, तस्य विरोधियत् हेत्वाभासोपाधिमद्रूपं तद्वत्त्वमित्यर्थः / शब्दोऽनित्यः शब्दत्वात् इत्यत्रेदं वर्तते / यद्यपि शब्दत्वस्य साध्यवन्मात्रवृत्तित्वं विद्यते तथापि साध्यवन्मात्रवृत्तित्वनिश्चयो नास्ति। एवं साध्याभाववन्मात्रवृत्तित्वनिश्चयस्तुनास्ति।साध्यनिश्चयानिश्चयवति हेतुनिश्चयाभावात्। शब्दे तु यद्यपि शब्दत्वस्य निश्चयो वर्तते तथापि अनित्यत्वस्य निश्चयस्तत्र नास्तीति कृत्वा साध्यवन्मात्रवृत्तित्वनिश्चयसाध्याभाववन्मात्रवृत्तित्वनिश्चयविरोधिहेत्वाभासोपाधिमत्त्वलक्षणं शब्दत्वेऽपि वर्तत इतिपूर्वोक्तशब्दत्वे नाव्याप्तिः इति मूलेऽव्याप्त्युद्धारः।प्रथममित्यस्यव्याख्यानमाह - प्रथममितीति।अयमसाधकःसाध्यव्याप्यत्वसाध्याभावव्याप्यत्वोभयनिश्चयविरोधिहेत्वाभासोपाधिमत्त्वात् इत्यत्र यावत्पर्यन्तं सव्यभिचारित्वग्रहो नास्ति तावत्पर्यन्तमनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वलक्षणं हेत्वाभासत्वमपि ज्ञातुं न शक्यते / तत् सव्यभिचारत्वादिरूपं चेत् ज्ञानं तदेवासाधकत्वानुमाने लिङ्गमस्तु, अधिकं व्यर्थम् / अत्राशङ्कते - यद्यपीति टीका / तदग्रहे सव्यभिचारत्वाग्रहेऽपि शब्दादिनाऽयं हेत्वाभास इत्यादिरूपेण हेत्वाभासत्वं ग्रहीतुं शक्यते एव, तथापि न शब्दस्य सर्वत्रायं हेत्वाभास इति प्रयोगः। अयं भावः - सव्यभिचारत्वं चेदज्ञातं स्यात् तदाऽनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकानि यानि सव्यभिचारत्वादीनि तादृशरूपवत्त्वं हेत्वाभासत्वम् इदं ज्ञातुं न शक्यते इत्यर्थो मूलस्य [227 B] / एतदुपरि आशङ्का / यद्यपि अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकानि यानि सव्यभिचारत्वादीनि