________________ 443 हेत्वाभासप्रकरणे सव्यभिचारः हेत्वाभासत्वात् / तत्र इदमसाधकं साध्याव्याप्यत्वादित्येव हेत्वाभासत्वप्रयोजकमस्तु, तेन साध्याभावाव्याप्यत्वहेत्वाभासत्वं व्यर्थम् / एवं वह्निरसाधकः साध्यवन्मात्रवृत्त्यन्यत्वादित्येवास्तु, व्यर्थं साध्याभाववन्मात्रवृत्त्यन्यत्वम्, विशेष्यं व्यर्थमित्यर्थः / दूषणान्तरमाह - प्रथममिति मूलम् / साधारणत्वादि [226 B] / अनुमितिप्रतिबन्धकतावच्छेदकत्वरूपाज्ञाने हेत्वाभासत्वमपि ज्ञातुमशक्यमित्यर्थः / मतान्तरेणात्रैव दूषणमाह - गगनमिति मूलम् / गगनमनित्यं शब्दाश्रयत्वात् इति असाधारणेऽव्याप्तिः / शब्दाश्रयत्वस्य साध्याभाववन्मात्रवृत्त्यन्यत्वं नास्ति अनित्यत्वाभाववतिगगने वृत्तित्वात्। कश्चिदिति।अत्रास्वरसंटीकायाम्। लक्षणान्तरं दूषयति - नापीति मूलम् / सपक्षेति / सपक्षविपक्षगतत्वे सति सपक्षविपक्षव्यावृत्तो यस्तदन्यतरत्वं सपक्षविपक्षगतत्वम् अथ च सपक्षविपक्षव्यावृत्तत्वम् एतन्मध्यादन्यतरत्वम् / सपक्षविपक्षगतत्वमेव यथा धूमसाध्यकवढ्यनुमाने वह्नः सपक्षविपक्षगतत्वम् / इदं दूषयति - व्यर्थेति मूलम् / यथा वह्निरसाधकः सपक्षविपक्षगतत्वसपक्षविपक्षव्यावृत्तत्वान्यतररूपत्वात् इत्यत्र विपक्षगतत्वात् इत्येवास्तु, व्यर्थमधिकम् / अनुपसंहारीति मूलम् / सर्वमनित्यं प्रमेयत्वात् इत्यत्र प्रमेयत्वस्य सपक्षविपक्षव्यावृत्तत्वं नास्ति, प्रमेयत्वस्य केवलान्वयित्वात्।दूषणान्तरमाह - किञ्चेतिमूलम्।अत्रसपक्षशब्देन किंविवक्षितम् ? - पक्षातिरिक्तसाध्यवत्त्वं बासपक्षत्वं किंवायथाकथञ्चित्साध्यवन्मत्त्वंवा?आद्ये आह - सर्वमभिन्नं प्रमेयत्वात् इत्यत्र पक्षातिरिक्तसाध्यवतोऽप्रसिद्धेः / द्वितीये त्वाह - साध्यवत इति मूलम् / तथा च साध्यवतः सपक्षत्वे विवक्षिते वृत्तिमतो धर्मस्य साध्यवत्साध्याभाववदन्यतरत्ववृत्तित्वनियमात् सपक्षविपक्षव्यावृत्तत्वं दुर्जेयमित्यर्थः / लक्षणान्तरं दूषयति - नापीति / पक्षातिरिक्तो यः साध्यवान् तन्मात्रवृत्तिभिन्नत्वे सति साध्याभाववन्मात्रवृत्तिभिन्नं यत् तत्त्वम्, धूमवान् वह्नः इत्यत्र वह्नौ पक्षातिरिक्तः साध्यवान् महानसादिस्तन्मात्रवृत्तिभिन्नत्वं वर्तते महानसातिरिक्तायोगोलकेऽपि विद्यमानत्वात्। अथ च नापिसाध्याभाववन्मात्रवृत्तिः अयोगोलकातिरिक्तेमहानसेऽपि विद्यमानत्वात् / दूषयति - अनुपसंहारीति मूलम् / सर्वमनित्यं प्रमेयत्वात् इत्यत्राव्याप्तिः, साध्यवदतिरिक्तमप्रसिद्धमित्यव्याप्तिरित्यर्थः / दूषणान्तरमाह - धूमादाविति मूलम् / वह्निमान् धूमात् इत्यत्र सद्धेतौ धूमे पक्षातिरिक्तसाध्यवन्मात्रवृत्त्यन्यत्वं वर्तते / कुत इत्यत आह - तस्येति / धूमस्य पक्षेऽपि पर्वतेऽपि साध्यवति वृत्तेः / अथ च साध्याभाववन्मात्रवृत्तिभिन्नत्वं द्वितीयं दलं धूमे स्पष्टमेव / साध्याभाववन्मात्रवृत्तिधूमो न भवति इति भावः / लक्षणान्तरं दूषयति - नापीति मूलम् / पक्षवृत्तित्वे सति विरुद्धान्यत्वे च सति अनुमित्यौपयोगी(यिकः) प्रयोजको यः सम्बन्धो व्याप्त्यादिरूपस्तच्छून्यत्वम्, स्वरूपासिद्धेऽतिव्याप्तिवारणार्थं पक्षवृत्तित्वे सतीति, विरुद्धेऽतिव्याप्तिवारणाय विरुद्धान्यत्वे सतीति / दूषणमाह - व्यर्थेति / इदमसाधकं पक्षवृत्तित्वे सति विरुद्धान्यत्वेचसतिअनुमित्यौपयिकसम्बन्धशून्यत्वात् इत्यत्रव्यर्थं विशेषणंसत्यन्तं द्वयंव्यर्थम् असाधकत्वानुमाने