________________ हेत्वाभासप्रकरणे सव्यभिचारः 441 अन्यथेति टीका / विरुद्धेऽतिव्याप्तिं परिहरति - विरुद्धान्यस्येति। तथा च विरुद्धान्यस्येति विशेषणात् विरुद्ध नातिव्याप्तिः / अथ विरुद्धसङ्कीर्णासाधारणेऽव्याप्तिं निरस्यति - विरुद्धान्येति टीका / तथा च विरुद्धान्यस्य पक्षवृत्तेः अनुमितिविरोधि यत् सपक्षविपक्षव्यावृत्तत्वरूपं तादृशरूपवत्त्वं विरुद्धसङ्कीर्णासाधारणे वर्तते इति तस्यापिलक्ष्यत्वान्नाव्याप्तिः पूर्वोक्ता। अथ बाधसत्प्रतिपक्षयोरतिव्याप्ति परिहरति - बाधसत्प्रतिपक्षयोरिति टीका। तयोरनुमितिविरोधिसम्बन्धो यद्यपि बाधत्वं सत्प्रतिपक्षत्वं वर्तते तथाप्यनुमितिपरम्पराविरोधी न भवति किन्तु साक्षाद्विरोध्येव, लक्षणे तु परम्पराविरोधित्वं विवक्षितम्। बाधसत्प्रतिपक्षयोः परम्परयाऽनुमितिविघटकत्वं नास्ति / सव्यभिचारस्य तु परम्परया विरोधिसं(त्वं) पक्षस्य विद्यमानत्वं विवक्षितम्, तच्च [विरोधित्वम्] असाधारणोत्तीर्णे सद्धेतौ सपक्षविपक्षव्यावृत्तत्वरूपं नास्ति पक्षस्यैव साध्यवत्त्वनिश्चयेन सपक्षव्यावृत्तत्वाभावात् इत्यर्थः। अत्राशङ्कते - नन्विति टीका। तथा चव्यर्थविशेषणे नीलधूमादौ विरुद्धान्यस्य पक्षवृत्तेः अनुमितिविरोधि यद् रूपं व्याप्यत्वासिद्धत्वं तस्य तत्र सत्त्वात् / अत्र व्यर्थविशेषणे व्याप्यत्वासिद्धिर्यथा व्याप्तेरंशत्रयम् / एकोऽव्यभिचारांशः, एकः सहचारांशः, अपरोऽवच्छेदकत्वांशश्चेति / तथात्र प्रथमो हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानंवच्छेदकत्वं साध्यतावच्छेदकमित्यव्यभिचारांशः / तादृशसाध्येन सह सामानाधिकरण्यं सहचारांशः / तादृशसाध्यसामानाधिकरण्यहेतुतावच्छेदकावच्छिन्ने हेतौ सा व्याप्तिः / तत्र नीलधूमादौ आव्याभिचारसहचारांशयोर्विद्यमानत्वेऽपिअवच्छेदकांशोनास्ति। यतो नीलधूमत्वं व्याप्यतावच्छेदकं न भवति गौरवात् / लाघवात् धूमत्वमेव व्याप्यतावच्छेदकमिति / तथा चानुमितिविरोधिसम्बन्धो व्याप्यत्वासिद्धत्वम्, तच्च नीलधूमे वतत एव / एतदेवाह - तत्सम्बन्धस्येति टीका / व्याप्यत्वासिद्धत्वलक्षणसम्बन्धस्येत्यर्थः / अयमर्थो नीलधूमत्वेऽनुमितिसम्बन्धो व्याप्यत्वासिद्धत्वं पक्षधर्मत्वमपि तत्र वर्तते इति कृत्वा सव्यभिचारलक्षणं नीलधूमेऽतिव्याप्तिः (प्तम्) / समाधत्ते - व्यर्थेति टीका / तथा च विरुद्धेऽतिव्याप्तिवारणार्थं विरुद्धान्यत्ववत् व्यर्थविशेषणाव्यर्थत्वमपि विशेषणम् / तथा चोक्तव्याप्यत्वासिद्धे नातिव्याप्तिः / ननु तथाप्यज्ञानासिद्धेऽतिव्याप्तिः, तथाहि पर्वतो वह्निमान् [226 A] वह्निमत्त्वप्रकारकप्रमाविषयत्वात् इत्यत्र वह्निमत्त्वनिर्णयाभावे वह्निमत्त्वप्रकारकप्रमाविषयत्वमपि दुर्जेयमित्यज्ञानासिद्धेऽतिव्याप्तिः, अनुमितिविरोधिसम्बन्धो भवति इति कृत्वा तत्रातिव्याप्तिरिति, अतोऽनुमितिविरोधित्वं नाम अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वम् / अज्ञानासिद्धे तु अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वं नास्ति किन्तु कारणभावतया स्वरूपसन्नेव प्रतिबन्धक इत्यर्थः / विरुद्धोऽपीति मूलग्रन्थे। आशङ्कते - न चैवमिति / यदि विरुद्धोऽनेन रूपेण पक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्यावृत्तित्वरूपेण सङ्ग्राह्यस्तदा विरुद्धान्यत्वे सतीति विशेषणं व्यर्थमित्याशङ्कार्थः / समाधत्ते - अनेन रूपेणेति टीका / तथा चानेन रूपेणेत्यस्य ग्रन्थस्यायमर्थः / यदि विरुद्धेऽपि