________________ 440 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तस्य तु बाधरूपत्वादित्यत आह - अनुमितिपरम्परयेति टीका। तथा चानुमितिविरोधिपदेनानुमितिकारणविघटक इति यावत् / [225 A] तेनायमर्थः अनुमितिकारणीभूतं यत् ज्ञानं व्याप्त्यादिज्ञानं तस्य विरोधि यत् ज्ञानं साधारणत्वासाधारणत्वानुपसंहारित्वविरुद्धत्वज्ञान] तेषां विषयतावच्छेदकानि यानि रूपाणि साधारणत्वादीनि / तथा चानुमितिविरोधिसम्बन्धी(न्धा)व्यावृत्तिरित्यनेन किमुक्तम् ? अनुमितिकारणीभूतज्ञानविरोधि यत् ज्ञानं तस्य विषयतायाअवच्छेदकं यद्रूपंतादृशरूपवत्त्वमित्यर्थः। तद्रूपं किमित्यत आह - तेन साधारणत्वादीति / तथा च साधारणत्वादिकमेतादृशं रूपमित्यर्थः / ननु सम्बन्धाव्यावृत्तिरिति किमर्थमुक्तं सम्बन्धवत्त्वमेव कुतो नोक्तमित्यत आह - तत्सम्बन्धाव्यावृत्तीति टीका / तथा च तत्सम्बन्धाव्यावृत्ती[त्यानेन तत्सम्बन्धविद्यमानत्वमेवोक्तम् / ततः किमित्यत आह - तेनेति टीका / तथा च विरुद्धान्यत्वविशेषणस्यानुमितीत्यादे(दि)पदस्य अनुमितिपरम्पराविरोधिकारणविघटकपरत्वम् / अथ च सम्बन्धाव्यावृत्तिरेतस्य विद्यमानतत्सम्बन्धत्वम् / अथ त्रयाणामपि प्रयोजनमाह - तेनेति टीका / तेन स्वरूपासिद्धसङ्कीर्णे व्यभिचारिणि इत्थमव्याप्तिः, इत्थं स्वरूपासिद्धसङ्कीर्णस्य व्यभिचारिणः यथा ह्रदो धूमवान् वह्नः इति अस्मिन् व्यभिचारिणि पक्षवृत्तित्वाभावादव्याप्तिः। विरुद्धे च विरुद्धान्यत्वविशेषणाभावेऽतिव्याप्तिः यथाऽयं गौरश्वः सास्नादिमत्त्वात् इत्यत्रानुमितिविरोधिसम्बन्धो विरुद्धत्वं तदव्यावृत्तिर्वर्तते इति कृत्वा तत्रातिव्याप्तिः स्यात् / ततो विरुद्धान्यत्वे इति विशेषणे दीयमाने विरुद्धसङ्कीर्णेऽसाधारणे वस्तुगत्या विरुद्धोऽसाधारणश्च, यथा शब्दो नित्यः शब्दत्वात् इत्ययं विरुद्धोऽपि भवति असाधारणोऽपि भवतीति कृत्वा विरुद्धान्यत्वाभावादतिव्याप्तिः / अथ बाधसत्प्रतिपक्षयोरप्यतिव्याप्तिः / कथम् ? तयोरप्यनुमितिविरोधिसम्बन्धो बाधत्वं सत्प्रतिपक्षत्वं चास्तीति कृत्वाऽनुमितिविरोधिसम्बन्धाव्यावृत्तिस्तत्र वर्तते विरुद्धान्यत्वमप्यस्तोत्यतिव्याप्तिः / अथ कादाचित्कसम्बन्धमादायासाधारणोत्तीर्णे सद्धेतौ यदा सद्धेतोरसाधारण्यज्ञानं नास्ति तदानीं सद्धेतावतिव्याप्तिः। तथाहि शब्दोऽनित्यः शब्दत्वात् इति शब्दत्वस्य सपक्षविपक्षव्यावृत्तत्वज्ञानम् अनुकूलतर्केण पक्षे साध्यनिश्चयरूपेण गतं तदानीं सद्धेतावतिव्याप्तिर्यदा कादाचित्कानुमितिविरोधिसम्बन्धोऽसाधारणत्वं तस्यापि वर्तते इति एतानि दूषणानि निरस्तानि वेदितव्यानि / क्रमेणान्वयमाह। तत्र स्वरूपासिद्धे सङ्कीर्णे कथं नातिव्याप्तिरित्यत आह - साधारणत्वादेरिति टीका / यथा नैमित्तिकद्रवत्ववत्त्वं पृथिवीतेजसोः साधर्म्यम्, तत्र यद्यपि घटादौ नैमित्तिकद्रवत्वंवत्त्वं नास्तीति कृत्वाऽव्याप्तिः, तत्राव्याप्तिवारणार्थं नैमित्तिकद्रवत्वावच्छेदकद्रव्यविभाजकोपाधिमत्त्वं विवक्षितं तथा प्रकृतेऽपि पक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धः [225 B] साधारणत्वम्, तच्च स्वरूपासिद्धसङ्कीर्णे साधारणे वर्तते एवेति / ततः पक्षवृत्तित्वविशेषणाभावेऽपि नाव्याप्तिः / साधारणत्वं धर्मस्तत्र वर्तते एवेति नाव्याप्तिः / केवलस्वरूपासिद्धस्य साधारणत्वशून्यत्वेनालक्ष्यत्वमेवेति न तत्रातिव्याप्तिः / एतदेवाह -