________________ 439 हेत्वाभासंप्रकरणे सव्यभिचारः जातम्, निश्चितसाध्याभाववन्तो ये परमाण्वादयः तद्व्यावृत्तत्वज्ञानं यदा वर्तते, आकाशस्य तु न वा नित्यत्वेनोपस्थितिर्न वाऽनित्यत्वेन तस्यां दशायां विवक्षितं लक्षणं साध्यसन्देहेत्यादिरूपं शब्दो नित्यः शब्दाकाशान्यतरत्वात् इति विरुद्धेऽतिव्याप्तिरि(प्तमि)त्यत आह - यस्य यदेति टीका / यस्य यदा तादृशज्ञानविषयत्वं तस्यां दशायां व्यभिचारित्वमिश्र(ष्ट)मेव।अन्यदा तुव्यभिचारत्वप्रयोजकाभावे व्यभिचारित्वमपि नास्ति। तथा च तत्रातिव्याप्तिर्न भवतीत्यर्थः / तद्दशायामिति टीका। [224 B] साध्यसन्देहजनककोटिद्वयोपस्थापकतादशां (शायां) विरुद्धस्यापि व्यभिचारित्वमिष्टमित्यर्थः / एतदज्ञानेऽपीति मूले आशङ्कते / न चेति टीका / मूलकृतोक्तम् - साधारणत्वादिज्ञाने विद्यमाने एतद् ज्ञानं विनापि साध्यसन्देहजनकत्वादिज्ञानाभावेऽप्यनुमितिप्रतिबन्धात् न साध्येत्यादिकस्य लक्षणत्वं त्रितयसाधारणरूपत्वमिति। तत्रोच्यते साधारणत्वादीनामज्ञानेऽपिसाध्यसन्देहेत्यादिरूपेणानुमितिप्रतिबन्धात्साध्यसन्देहेत्यादेरेव सव्यभिचारत्वप्रयोजकरूपत्वमस्तु विनिगमनाभावात् इत्याशङ्कार्थः।समाधत्ते- एतदिति टीका। एतज्ज्ञानस्य साध्यसन्देहेत्यादिज्ञानस्यअव्यभिचारस्य विरोधी यो व्यभिचारस्तदविषयकत्वेन प्रतिबन्धकत्वं नास्ति। तस्मात् यत् व्यभिचारविरोधिविषयकं ज्ञानं तदेव ग्राह्याभावावगाहितया प्रतिबन्धकं वक्तव्यम् / ग्राह्यं साध्याभाववद्वृत्तित्वं हेतोस्तदभावः साध्याभाववद्वृत्तित्वं तद्विषयतया प्रतिबन्धकं साधारणत्वादिज्ञानम् असाधारणत्वादिज्ञानम्।असाधारणत्वानुपसंहारित्वज्ञानयोः कथं ग्राह्याभावावगाहित्वं तदने वक्ष्यते / अत्रैवार्थे दृष्टान्तमाह - अत एवेति टीका / यथा त्रितयसाधारणरूपज्ञानं ग्राह्याभावानवगाहितया किंवत् प्रतिबन्धकं न भवति। तत्रोदाहरणम् / यथा हेत्वाभासत्वज्ञानम्। हेत्वाभासत्वज्ञानं यथा ग्राह्याभावानवगाहितया प्रतिबन्धकं [? न भवति] / यथा वह्निमान् इत्यनुमितौ वह्निर्नास्तीति ज्ञानं प्रतिबन्धकं भवति एवं धूमवान् इति पक्षधर्मताज्ञाने धूमो नास्तीति स्वरूपासिद्धत्वज्ञानमपि प्रतिबन्धकं भवति ग्राह्याभावावगाहितया पक्षधमत्वं ग्राह्यं तदभावावगाहितया, तद्वत् हेत्वाभासत्वज्ञानं यत् वर्तते तत् नानुमितिर्वि(वि)षयाभावावगाहि न चानुमितिकारणीभूतज्ञानविषयाभावावगाहीति न हेत्वाभासत्वमात्रज्ञानं प्रतिबन्धकं किन्तु विशिष्य विशिष्य बाधत्वादिज्ञानं प्रतिबन्धकम् / ननु हेत्वाभासत्वादिज्ञानमपि व्यभिचारत्वादिसन्देहोत्पादनद्वारा प्रतिबन्धकम् / को वाऽत्र हेत्वाभास इति द्वारा प्रतिबन्धकमित्यत आह - तद्भानेनेति टीका / हेत्वाभासत्वादिज्ञानेन यदि व्यभिचारत्वादिसन्देह उत्पाद्यते तदा व्यभिचारत्वादिज्ञानमेव प्रतिबन्धकमस्तु, कृतं हेत्वाभासत्वज्ञानेनेत्यर्थः / एतेनेति निरस्तमित्यनेनान्वयः / नन्विदं सम्पूर्ण लक्षणं विरुद्धेऽतिव्याप्तमित्यत आह - अत्रेति टीका / तथा च विरुद्धान्यत्वे पक्षवृत्तित्वे च सति अनुमितिविरोधिसम्बन्धाव्यावृत्तिरिति सव्यभिचारलक्षणम् / ननु साधारणत्वादिज्ञानस्यानुमितिविरोधित्वाभावात् कथं ग्राह्याभावानवगाहितया अयमर्थः / अनुमितौ तुपर्वते वह्रिाह्यः, न चपर्वते वह्नयभावावगाहिव्यभिचारज्ञानम्,