________________ 438 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वहिव्याप्यधूमवत्त्वांशे प्रमात्वम् इति कृत्वा तदंशे वस्तुसत्प्रतिपक्षत्वं नास्तीत्यर्थः / तथा च यत्र बाधस्य प्रमा तत्र वस्तुसत्बाधः, यत्र तु बाधस्य प्रमा नास्ति तत्र वस्तुसत्बाधो नास्ति / ततः सिद्धं बाधवत् सत्प्रतिपक्षोऽपि नित्यदोषोऽस्तु नानित्यदोष इति भावः / अभेदानुमानं कीदृशमित्यत आह - अयमिति टीका / अयं घटः एतद्घटाभिन्नः प्रमेयत्वात् इत्यभेदानुमानमित्यर्थः / अयं साधारणोऽग्रेतनः शब्द इत्यादिकोऽसाधारणः, एतयोः पूर्वोक्तलक्षणाव्याप्तिर्यतः साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं नास्ति, साधारणस्य सपक्षविपक्षवृत्तित्वज्ञानात् असाधारणस्य सपक्षविपक्षव्यावृत्तत्वज्ञानात्। यतः प्रथमे एतदभेदलक्षणं साध्यं पक्षे एव वर्ततेऽन्यत्रान्यत्र नास्तीति कृत्वा सपक्षवृत्तित्वज्ञानं नास्ति, सन्देहस्तु तदा स्यात् यदि सपक्षवृत्तित्वज्ञानं स्यात् / द्वितीये तु सपक्षविपक्षव्यावृत्तत्वज्ञानात् [224 A] साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं वक्तव्यं तच्च नास्ति, विपक्षव्यावृत्तत्वज्ञानमेव नास्ति विपक्षे आकाशे शब्दाकाशान्यतरस्य हेतोर्वर्तमानत्वात् इति कृत्वा तयोरव्याप्तिरित्यर्थः / ननु मूलकृतोक्तमनयोर्विरुद्धत्वम्, तच्च न सम्भवति / कुतः ? विरुद्धस्य साध्याभावव्याप्तत्वात् / अनयोस्तु साध्याभावव्याप्तत्वं नास्ति / कुतः ? यत्र प्रमेयत्वं तत्र एतद्घटाभेदाभाव एवं नास्ति, यतः पक्षे घटे प्रमेयत्वं वर्तते एतद्घटाभेदाभावो नास्ति एतद्घटाभेद एवेति कृत्वा साध्याभावव्याप्तत्वं नास्ति / एवं शब्दाकाशान्यतरत्वस्यापि साध्याभावव्याप्तत्वं नास्ति। पक्षे शब्दे हेतुमति अनित्यत्वस्याभावो नास्ति इति कृत्वा विरुद्धत्वं न भवतीत्यत आह - साधनस्येति टीका।न ह्येतन्मते साध्याभावव्याप्तत्वमेव विरुद्धत्वं किन्तु साधनस्य साध्यानवगतसहचारः, स तु वर्तत एव / पूर्वोत्तरहेत्वोः साध्येन सह साधनस्य सहचारः कुत्राप्यवगतो नास्ति / यथा न हि यत्र यत्र प्रमेयत्वं तत्र तत्र एतदभेदः पक्षेऽभेदस्य सन्दिग्धत्वात् अन्यत्रापि भेदस्याभावात् / द्वितीयेऽनित्यत्वस्य घटादौ विद्यमानत्वे शब्दाकाशान्यतरत्वं नास्ति। शब्दाकाशान्यतरत्वस्य शब्दे आकाशे वा सत्त्वात्। शब्देऽनित्यत्वस्य सन्दिग्धत्वात् / आकाशे तु अनित्यत्वाभावस्य विद्यमानत्वात् शब्दाकाशान्यतरत्वं वर्तते परम् अनित्यत्वमाकाशे नास्तीति साध्यसहचारः कुत्रापि नास्तीति कृत्वाऽनवगतसाध्यसहचार एव विरुद्धः इति मतमालम्ब्यैव विरुद्धत्वादित्युक्तम्। ननु तयोः प्रमेयत्वशब्दाकाशान्यतरत्वयोः साध्यवदन्यवृत्तित्वं नास्ति, साध्यवान्पक्षोघटः शब्दश्च तत्रप्रमेयत्वस्यशब्दाकाशान्यतरत्वस्य च विद्यमानत्वात्। तथा च साध्यवदन्यवृत्तित्वं नास्ति किन्तु साध्यवति पक्षे विद्यमानत्वात् इत्यतः साध्यवदन्यवृत्तित्वस्य व्याख्यानमाह - निश्चितसाध्यवदवृत्तित्वस्येति टीका / यद्यपि साध्यवद्वृत्तिभिन्नो न भवति परं निश्चितसाध्यवद्वृत्तिभिन्नो भवत्येव / प्रथमे साध्यनिश्चयः कुत्रापि नास्ति अभेदस्य पक्षमात्रवृत्तित्वात्, द्वितीये घटादौ साध्यनिश्चयेऽपि हेतोः तत्रावृत्तित्वात् इति कृत्वा निश्चितसाध्यवद्वृत्तिभिन्नत्वं वर्तते। तथा च एतौ प्राचां मतेन विरुद्धौ भवत एवेति कृत्वा सुलूक्तं मूलकृताविरुद्धत्वमिति।ननु शब्दोऽनित्यः शब्दाकाशान्यतरत्वात् इत्यत्र यदा निश्चितसाध्यवद्घटादिव्यावृत्तत्वज्ञानं