SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सव्यभिचारः 437 टीका / अत एवेति टीका / यतः सद्धेतौ सद्धेतुत्वाज्ञानं पुरुषदोषो न वस्तुदोषोऽत एवासाधारणप्रकरणसमौ अनित्यदोषावेव।कथम् ? यदाधूमादौ सद्धेतौ सत्प्रतिपक्षत्वज्ञानं पर्वतो वह्निमान् [धूमात्] पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र वस्तुगत्या धूमः पञ्चरूपोपपन्नत्वात् सद्धेतुरेव, तस्य सद्धेतुत्वाज्ञानं पुरुषस्य दोषो न तु वस्तुदोषः, अत एव सत्प्रतिपक्षस्यास्यानित्यदोषत्वम्, यावत्सद्धेतुत्वाज्ञानं तावत्पर्यन्तमेवायं दोषः इति कृत्वा सत्प्रतिपक्षस्यानित्यदोषत्वम्, तर्हि यथा बाधः पक्षे साध्याभावरूपो नित्यदोषः तद्वत् साध्याभावव्याप्यरूपो यः प्रतिपक्षः यथा पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र तस्य सत्प्रतिपक्षः साध्याभावव्याप्यरूपः पर्वतो वढ्यभावाभाववान् धूमात् इत्ययमपि साध्याभावव्याप्यरूप: तदा एतस्यापि वस्तुगत्या साध्याभावव्याप्यत्वं वर्तते इति कृत्वा साध्याभावव्याप्यत्वरूपो धूमो वह्नयभावानुमितौ दोषः सदाऽस्त्येवेति स वस्तुदोष एवेति किमर्थं सत्प्रतिपक्षस्यानित्यदोषता वक्तव्या नित्यदोषत्वेनैवोपपत्तेः / अत्र शङ्कते - न चेति टीका / साध्याभावव्याप्यरूपः सत्प्रतिपक्षो वस्तुदाषो न भवति।कुतः ? / यदा साध्याभावव्याप्यो वस्तुगत्या वर्तते तस्य ज्ञानं यदा वढ्यभावाभावव्याप्यत्वेन नास्ति तदानीं वह्नयभावानुमितिप्रतिबन्धो न क्रियते इति [223 B] कृत्वा तस्य नित्यदोषत्वं न सम्भवति इत्याशङ्कार्थः / दूषयति - बाधस्येति टीका / तदा ह्रदो वह्निमान् धूमात् इत्यत्र बाधस्यापि नित्यदोषत्वं न स्यात् / ह्रदे वह्रिव्याप्यपरामर्शाभावदशायामनुमितिप्रतिबन्धाभावात् तस्यापि नित्यदोषत्वं न स्यात्, परामर्शएव नावतीर्णस्तदानीम्। बाधस्य प्रतिबन्धत्वाभावात् नित्यदोषत्वं न स्यादित्यर्थः / अतथात्वापत्तेरिति। यदि साध्याभावव्याप्यवत्त्वेन परामर्शाभावदशायामनुमितिप्रतिबन्धकत्वाभावात् न हेत्वाभासत्वमिति तदा बाधस्यापि दोषत्वं न स्यात् / यतस्तस्य साध्यव्याप्यपरामर्शाभावदशायां प्रतिबन्धकत्वाभावात्। तथाहिगन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वात् इत्यत्र गन्धवत्त्वव्याप्यपृथिवीत्ववानयमिति परामर्शाभावदशायां गन्धाभावरूपबाधाज्ञानस्यानुमितिप्रतिबन्धकत्वाभावात् / यावत् परामर्श एवोक्तरूपो नावतीर्णस्तावत्पर्यन्तं कस्यानुमितिप्रतिबन्धकत्वमिति बाधस्यापि हेत्वाभासत्वं न स्यात् अनुमितिप्रतिबन्धकत्वाभावात् / यदि चोक्तरूपपरामर्श विद्यमानेऽनुमितिप्रतिबन्धकत्वकल्पनात् बाधस्य हेत्वाभासत्वं तदा साध्याभावव्याप्यज्ञानस्यापि विरोधिपरामर्शा(श)दशायामनुमितिप्रतिबन्धकत्वकल्पनात् तस्यापि वह्रिव्याप्यधूमवत्त्वस्य वढ्यभावानुमितौ सत्प्रतिपक्षत्वं स्यादेवेति तुल्यमित्यर्थः / ननु साध्याभावव्याप्यज्ञानस्य भ्रमत्वात् तद्विषयः कथं हेत्वाभासः स्यात् इत्यत आह - एवं चेति टीका। तथा च यदंशे साध्याभावव्याप्यज्ञानस्य प्रमात्वं तद्विषयस्य वस्तुभासत्वम् / यदंशे भ्रमत्वं तदंशे वस्तुसत्हेत्वाभासत्वं नास्ति। तथाहि प्रथमम् अयमेव हेतुर्यथा अयं वन्यभाववान् पाषाणवत्त्वात् पश्चात् पर्वतो वह्निमान् धूमात्, उभयगोचरसमूहालम्बनानन्तरं वयभावव्याप्यपाषाणवत्त्ववान् अयम् वह्निव्याप्यधूमवान् अयम् इति परामर्शद्वयं समूहालम्बनरूपम्, एतस्य यदंशे
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy