________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चोपधेयसङ्करेऽप्युपाधेरसङ्कर एव / यथा आत्मा आत्मना आत्मानं जानाति इत्यत्र एकस्य कर्तृकर्मकरणत्वेऽपि कर्तृत्वकर्मत्वकरणत्वादीनामुपाधीनां भेद एवास्ति / कर्तृत्वं क्रियाश्रयत्वेन, क्रियासाधकत्वेन करणत्वम्, कर्मत्वं परसमवेतक्रियाफलशालित्वेन करणव्यापारविषयत्वेन वा कर्तुरीप्सितात]मत्वेन वा इत्याधुपाधिभेदात् भेदः / तद्वत् अत्रापि विरुद्धव्यभिचारयोः साङ्कर्येऽपि व्यभिचारित्वविरुद्धत्वयोरुपाध्योरसङ्कर एव / एकस्मिन्नेव हेतौ व्यभिचारित्वमप्यस्ति विरुद्धत्वमप्यस्ति, न चविरुद्धव्यभिचारयोरैक्यमेवेति वाच्यम्। धूमवान् वह्नः इत्यस्य व्यभिचारित्वमेव, न विरुद्धत्वम्। अयं गौः अश्वत्वात् अयं विरुद्धोऽत्र व्यभिचारित्वं नास्ति इति व्यभिचारित्वविरुद्धत्वे परस्परमसङ्कीर्णे।यथा इन्द्रियत्वपृथिवीत्वयोर्घाणेन्द्रिये सङ्करेऽपिइन्द्रियत्वपृथिवीत्वयोर्भिन्नधर्मत्वम्, तद्वत् प्रकृतेऽपीत्यर्थः / पक्षवृत्तित्वेत्यादिलक्षणं दूषयति - एतदिति मूलम् / पक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्यावृत्तिरूपाज्ञानेऽपि प्रत्येकसाधारणत्वज्ञानेनानुमितिप्रतिबन्धात् प्रत्येकज्ञानं साधारणत्वासाधारणत्वानुपसंहारित्वज्ञानमेव दोषः, न तु पक्षवृत्तित्वेत्यादिरूपो दोषः / एतदज्ञानेऽपि प्रत्येकज्ञानादनुमितिप्रतिबन्धादित्यर्थः / ननु प्रत्येकज्ञानात् यथा अनुमितिप्रतिबन्धः तद्वत् एतदज्ञानादप्यनुमितिप्रतिबन्धो जायते इति कृत्वा प्रत्येकदोषवद्विशिष्टमपि दोषः स्यादित्यत आह - असाधकतेति मूलम्। तथा च इदमसाधकं पक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्यावृत्तिरूपत्वात् बाधवत् इत्यत्र व्यर्थविशेषणत्वम्। अनुमितिविरोधिसम्बन्धाव्यावृत्तिरूपं किं जातम् ? साधारणत्वासाधारणत्वानुपसंहारित्वरूपम् एतद्धेतुमध्ये प्रविष्टम्। तस्यैव हेतुत्वमस्तु / तथा च पक्षवृत्तित्वे सति इत्यादिहेतुर्व्यर्थः / लाघवात् साधारणत्वात् इत्येवास्तु [223 A] उक्तरूपस्य व्यर्थत्वमिति भावः। अथ टीका / केवलेति टीका / यदि केवलान्वयिसाध्यकोऽनुपसंहारी तदा(था)ऽयं घटः एतत्त्वात् इत्येतो सद्धेतू एव तर्हि वक्ष्यमाणानुपसंहारिलक्षणं वक्ष्यमाणासाधारणविशेषलक्षणं च एतयोः सद्धेत्वोरतिव्याप्तमित्यत आह - विशेषलक्षणस्यापीति टीका / तथा चानुपसंहारिविशेषलक्षणमसाधारणस्यापि विशेषलक्षणं तत् सद्धेत्वतिव्याप्तिव्यावृत्तमेव कर्तव्यम् तल्लक्षणावसरे वक्तव्यम् / अत्र शङ्कते - यद्यपीति टीका / तथा च एतयोरनुपसंहारित्वासाधारणत्वयोः साह्यत्वेऽपि न काचित् क्षतिः, विशेषलक्षणमप्येतद्व्यावृत्तं किमर्थं कर्तव्यम्। एतत्साधारणमेव विशेषलक्षणं भवतु इत्याशङ्कार्थः।समाधत्ते - तथापीति टीका। यतः सद्धेतुः कदापि न हेत्वाभास इति मतावष्टम्भेनैतदुक्तमित्यर्थः / यदि सद्धेतुरपि असाधारण्यज्ञानदशायां हेत्वाभासस्तदा धूमो व्यभिचारभ्रमे व्यभिचारी स्यादिति भावः / अत इति मूलस्य व्याख्यानमाह - यत इति टीका / यतस्तयोः सद्धेतुत्वाज्ञानं पुरुषस्य दोषो न तु वस्तुनः सद्धेतुरूपस्य, अत एव तस्यानित्यदोषः, वस्तुदोषस्तु यावद्वस्तु तावत्स्थायी, अज्ञानलक्षणो दोषोऽज्ञाने गते गच्छति यदाऽज्ञानं तदैव दोष इत्यर्थः / अत्र चिन्त्यमाह - अत्रेति