________________ 435 हेत्वाभासप्रकरणे सव्यभिचारः तरत्वात् इत्यसाधारणे निश्चितसाध्यवद्वृत्तित्वज्ञानाभावात् साध्यसन्देहजनककोटिद्वयोपस्थापकत्वाभावात् अव्याप्तिः। साध्याभाववान् आकाशः तव्यावृत्तत्वज्ञानं नास्तीति कृत्वा साध्यतदभावसन्देहजनककोटिद्वयोपस्थापकं तत्र नास्तीत्यव्याप्तिरित्यर्थः / समाधत्ते - तयोरिति मूलम्।अभेदानुमाने प्रमेयत्वस्य अनित्यत्वानुमाने शब्दाकाशान्यतरत्वस्येतिद्वयोः सव्यभिचारत्वमेवनास्ति, तर्हि तयोः कथं दोषत्वमित्यत आह - साध्यवदन्येति मूलम् / तथा च तयोविरुद्धमध्य एवान्तर्भावः / केन कृत्वा ? निश्चितसाध्यवदन्यवृत्तित्वेन / अभेदानुमाने पक्षस्य सन्दिग्धत्वात् अन्यस्य तुसाध्यवत्त्वाभावात् निश्चितसाध्यवदन्यवृत्तित्वं वर्तते इति कृत्वा विरुद्धलक्षणाक्रान्तत्वात् विरुद्धत्वम् / द्वितीयानुमानेऽपि निश्चितसाध्यवान् घटादिस्तदन्यवृत्तित्वात्, घटस्य तु सन्दिग्धत्वादाकाशस्य तु निश्चितसाध्याभावत्वात् निश्चितसाध्यवदन्यवृत्तित्वेन विरुद्धमध्य एतान्तर्भावः / मतमिदं दूषयति - एतदज्ञानेति मूलम् / अनुमितिप्रतिबन्धकतावच्छेदकं हि रूपमत्र निरूप्यम् न च साध्यसन्देहजनकेत्यादिरूपम् / [साध्यसन्देहजनकेत्यादिरूप]तु नानुमितिप्रतिबन्धकतावच्छेदकं किन्तु प्रत्येकसाधारणत्वादिज्ञानमेव। तृती(त्रित)यसाधारणत्वज्ञानस्य नानुमितिप्रतिबन्धकता किन्तु प्रत्येकानि यानि साधारणत्वासाधारणत्वानुपसंहारित्वरूपाणि तज्ज्ञानादेवानुमितिप्रतिबन्धः न तु त्रितयसाधारणरूपज्ञानात् अनुमितिप्रतिबन्धः। एतदेवाह - प्रत्येकेतिमूलम् / प्रत्येकज्ञानात् अयमसाधारणोऽयं साधारण इत्याद्युद्भावनात् अनुमितिप्रतिबन्धात् साधारणत्वादिज्ञानमेव प्रतिबन्धकं न तु त्रितयसाधारणं विशिष्टज्ञानम् / दूषणान्तरमाह - उद्भावितेति मूलम् / यदापि साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वमुद्भाव्यते तदापि साध्यसन्देहजनककोटिद्वयोपस्थापकतावच्छेदकं किंरूपमित्याकाङ्क्षायां साधारणत्वादिकमेवोद्भाव्यं तथा चावश्यक(कं) त(त)देवास्तु तथा च साध्येत्यादिरूपं दूषकतौपयिकं न भवतीत्युक्तम् / लक्षणान्तरमाशय दूषयति - एतेनेति मूलम् / पक्षेति मूलम्। पक्षवृत्तिः सन् अनुमितिविरोधी यः सम्बन्धः साधारणत्वासाधारणत्वानुपसंहारित्वरूपः तस्याव्यावृत्तिः तद्विद्यमानत्वमिति त्रितयसाधारणं लक्षणम् / वर्तते च [तल्लक्षणं] पर्वतो धूमवान् वढेः इति साधारणे यथाऽस्य [222 B] पक्षवृत्तित्वमप्यस्ति अनुमितिविरोधी यः सम्बन्धो विपक्षवृत्तित्वरूपः तद्विद्यमानत्वमप्यस्तीति, असाधारणेऽपि वर्तते शब्दो नित्यः शब्दत्वात् इत्यत्र शब्दत्वस्य सपक्षविपक्षव्यावृत्तत्वेन सम्बन्धोऽनुमितिविरोधी तद्विद्यमानत्वमप्यस्ति, एवमनुपसंहारिण्यपि सर्वमनित्यं प्रमेयत्वात् इत्यादौ प्रमेयत्वमनुामिति]विरोधिसम्बन्धोऽनुपसंहारित्वरूपस्तस्याव्यावृत्तिस्तद्वत्त्वं वर्तते व्याप्तिग्रहस्थानाभावादेवानुमितिविरोधिसम्बन्धइति त्रितयसाधारणं लक्षणम्। ननु शब्दो नित्यः शब्दत्वात् इत्यत्र विरुद्ध उभयव्यावृत्तित्वलक्षणों यः सम्बन्धोऽनुमितिविरोधी तद्वत्त्वं विरुद्ध वर्तते इति कृत्वा विरुद्धेऽतिव्याप्तिरित्यत आह - विरुद्धोऽपीति मूलम् / विरुद्धोऽप्यनेन रूपेण सव्यभिचार एव / तर्हि सव्यभिचारविरुद्धयोरभेदात् हेत्वाभासन्यूनतैवेत्यत आह - उपाधेश्चेति मूलम् / तथा