________________ 434 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका बाधादिज्ञाने हेत्वाभासाधिक्यापत्तिः / न च प्रमेयत्वेनाभेदानुमाने शब्दोऽनित्यः शब्दाकाशान्यतरत्वात् इत्यत्र च साधारणेऽव्याप्तिः तयोः साध्यवदन्यवृत्तित्वेन' विरुद्धत्वादिति चेत् / न, एतदज्ञानेऽपि साधारण्यादिप्रत्येकस्य ज्ञानात् उद्भावनाच्च . स्वपरानुमितिप्रतिबन्धात् उद्भावितैतन्निर्वाहार्थं साधारणादेरवश्योद्भाव्यत्वेन तस्यैव दोषत्वाच्च / एतेन पक्षवृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्यावृत्तिरनैकान्तिकः सपक्षविपक्षवृत्तित्वमुभयव्यावृत्तत्वमनुपसंहारित्वं चानुमितिविरोधि तत्सम्बन्धः प्रत्येकमस्ति विरुद्धोऽप्यनेन रूपेण सव्यभिचार एव उपाधेश्च न सङ्कर इति वक्ष्यत इति निरस्तम् / एतदज्ञाने ज्ञाने वावश्यकप्रत्येकज्ञानस्य दोषत्वात् असाधकतानुमितौ व्यर्थविशेषण-त्वाच्च। अथ मूलम् / केवलान्वयीति मूलम् / केवलान्वयिसाध्यकोऽनुपसंहारी / अयं घटः एतत्त्वात् इति असाधारणश्च सद्धेतुरेव परंसव्यभिचारो न भवतीत्यलक्ष्य एवात्रस्थले साध्याव्याप्यत्वाभावात्।अलक्ष्यत्वंतर्हि तत्रानुमितिः कुतो न भवतीत्यत आह - तदज्ञानमिति मूलम् / यतः सद्धेतोरसाधारण्यज्ञानकाले सद्धेतुत्वाज्ञानं पुरुषस्यैव दोषः न तु तस्यासाधारण्यज्ञानं तदानीं दोषः / अत एवेति मूलम् / यतोऽसाधारणः पुरुषदोषो न वस्तुदोषोऽतएव तस्यानित्यदोषत्वम्। नन्वेवं यदि सद्धेतुरसाधारणत्वेन ज्ञातो हेत्व(हेतुः अ) स्तु दोषश्चेन्न भवति तदाऽसाधारणः स्वतन्त्रो हेत्वाभासो न स्यात् / असाधारणो हेत्वाभास एव न स्यादिति चेन्न / शब्दो नित्यः शब्दत्वात् इत्यादेरेव सद्धेतोरेव(वा)साधारणत्वमिति वक्ष्यति, ततोऽसाधारणोऽपि हेत्वाभासो भवति परं सद्धेतुरसाधारणः कदापि न भवतीति भावः / ननु सद्धेतुरपि असाधारणत्वेन ज्ञातः कुतोऽसाधारणो न भवतीत्यत आह - अन्यथेति मूलम् / यदि सद्धेतुरपि असाधारण्यज्ञानकाले हेत्वाभासोऽसाधारणस्तदा सद्धेतुरपि बाधादिज्ञानकाले बाधितः स्यात्, पर्वतो वह्निमान् धूमात् इत्यस्यापि बाधभ्रमदशायां बाधितत्वं स्यादित्यर्थः / अत्राशङ्कते - न चेति मूलम् / घटो घटाभिन्नः प्रमेयत्वात् अत्रेदमभेदानुमानम् / अत्र साध्यतदभावसन्देहजनककोटिद्वयोपस्थापकत्वं [222 A] सव्यभिचारिलक्षणं नास्ति, सन्देहजनकत्वं हि हेतोः निश्चितसाध्यवन्निश्चितसाध्याभाववद्वृत्तित्वेन ज्ञानात् / एतदभिन्नः प्रमेयत्वात् इत्यत्र कुत्रापि साध्यनिश्चयाभावेन निश्चितसाध्यवद्वृत्तित्वज्ञानाभावान्न साध्यसन्देहजनककोटिद्वयोपस्थापकत्वेन दोषत्वम्।नापिशब्दोऽनित्यः शब्दाकाशान्य१. मुद्रिते तु ‘साध्यवदवृत्तित्वेन' इति पाठः /