________________ हेत्वाभासप्रकरणे सव्यभिचारः 433 कोटिद्वयोपस्थितिजनकत्वं वर्तते, तदंशे व्यभिचारित्वांशे स सङ्ग्राह्य एव / स्वरूपासिद्धत्वांशे स्वरूपासिद्धत्वविषयतया स्वरूपासिद्धविषयकवह्निज्ञानस्य साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं नास्ति / न हि स्वरूपासिद्धत्वज्ञानात्साध्यसन्देहो जायते।सन्देहस्तु साधारणासाधारणानुपसंहारित्वज्ञानादेवेति कृत्वा स्वरूपासिद्धत्वांशोऽलक्ष्य एवेति। ननु तथापि पक्षधर्मतापदं व्यर्थमित्यत आह - विरुद्धं चेति टीका / ज्ञानं निर्विषयकं ज्ञानत्वात् इति अयं विरुद्धः, तथा च यद्विषयत्वेन प्रमारूपज्ञानस्य साध्यसन्देहजनककोटिद्वयोपस्थितिजनकत्वं तदंशे सव्यभिचारित्वम्, न चात्र ज्ञानत्वस्य पक्षधर्मताविषयकप्रमया साध्यसन्देहजनककोटिद्वयोपस्थितिः क्रियते इति पक्षवृत्तित्वप्रमाया अभावेऽपि घटज्ञाने प्रामाण्याप्रामाण्यसन्देहात् घटतदभावकोटिकः सन्देहो जायते इति कृत्वा पक्षधर्मत्वरूपविषयत्वेन न साध्यसन्देहजनककोटिद्वयोपस्थापकत्वम् इति कृत्वा विरुद्धेऽतिव्याप्तिवारणार्थं यद्विषयत्वेन कोट्युपस्थापकत्वं तदंशे प्रमात्वमित्यर्थः / परस्य पक्षधर्मताज्ञानपदस्य सार्थकत्वमेव। ननु असाधारणोत्तीर्णे सद्धेतावव्याप्तिः / कथम् ? तदानीं साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं नास्ति किन्तु साध्यनिश्चायकत्वमेवेति कृत्वा [221 B] तत्राव्याप्तिरित्यत आह - तादृशेति टीका / यस्यां दशायां साध्यसन्देहजनककाटिद्वयोपस्थितिजनकत्वं तस्यां दशायां सव्यभिचारत्वेन लक्ष्यत्वम् / अन्यदा तादृशज्ञानाभावे सव्यभिचारित्वमेव नास्तीति सर्वस्यापि सव्यभिचारित्वस्यानित्यदोषत्वमेव। अत्राशङ्कते - नचेति टीका। तथा च हेत्वभिमतपदं व्यर्थम् / कथम् ? सद्धेतौ अतिव्याप्तेरेवाभावात् सद्धेतुविषयकज्ञानस्य साध्यसन्देहजनककोटिद्वयोपस्थापकत्वाभावात् इत्याशङ्कार्थः। समाधत्ते - तस्येति टीका।हेत्वभिमतपदस्य साध्याव्याप्यत्वपरस्य सद्धेतुर्योऽसाधारणस्तत्रातिव्याप्तिः यतस्तस्यासाधारणत्वज्ञानकालेऽसाधारणत्वविषयकज्ञानस्य साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं वर्तते तेन सद्धेतौ असाधारण्यज्ञानकालेऽतिव्याप्तिः / ननु सद्धेतोरप्यसाधारण्यज्ञानंकाले साध्यतदभावसन्देहजनककोटिद्वयोपस्थापकतयाऽसाधारण्यज्ञानकाले सोऽसाधारण्येन लक्ष्य एव, कुतस्तत्रातिव्याप्तिवारणार्थं हेत्वभिमतपदमित्यत आह - केवलान्वयीति टीका। तथा च केवलान्वयीत्यग्रिमग्रन्थास्वरसात् तादृशज्ञानकालेऽपि सद्धेतुरसङ्ग्राह्य एव, सव्यभिचारः स न भवत्येवेति। तत्रातिव्याप्तिवारणार्थं हेत्वभिमतपदं सार्थकमित्यर्थः / तथैवाग्रेतनाभासमाह - नन्विति टीका / तथा च हेत्वभिमतपदस्यार्थः साध्याव्याप्यत्वम्, तच्च सद्धेतौ असाधारणेऽव्याप्तम्, केवलान्वयिसाध्यकेऽनुपसंहारिणि सर्वमनित्यं प्रमेयत्वात् इत्यत्र हेतोः साध्याव्याप्यत्वं नास्ति इति तत्राव्याप्तिरित्याभासार्थः / केवलान्वयिसाध्यकानुपसंहारी अयं घट एतत्त्वात् इति असाधारणश्च सद्धेतुरेव तदज्ञानं दोष: पुरुषस्य।अत एवासाधारणप्रकरणसमयोरनित्यदोषत्वम् अन्यथा सद्धेतौ