________________ 432 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्याप्यत्वपरं क्रियते तदाऽव्यभिचारित्वभ्रमविषयीभूते विरुद्धे तथाप्यतिव्याप्तिरेव / तथाहि शब्दो नित्यः कृतकत्वात् इति विरुद्धे व्यभिचारभ्रमविषयीभूतेऽत्र भ्रमो यथाऽयं कृतकत्वहेतुर्नित्यत्वेन सह व्यभिचारीति भ्रमस्तत्रातिव्याप्तिः व्यभिचारज्ञानं वर्तते इति कृत्वा साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वं वर्तते, परं साध्याव्याप्यत्वमपि तत्रास्ति इति कृत्वा विरुद्ध तत्रातिव्याप्तिः / अत्र शङ्कते - न चेति टीका / तथा च विरुद्धोऽप्यनेन रूपेण सङ्ग्राह्य एव, साधारण एवेति ग्रन्थकारेण लिखितत्वात् सोऽपि सव्यभिचार एवेत्याशङ्का।न चेत्यारभ्य वाच्यमित्यन्तेन ग्रन्थेन दूषयति - पक्षधर्मतेति टीका। तर्हि पक्षधर्मतापदवैयापत्तिः / पक्षधर्मतापदं तु इदं ज्ञानं निर्विषयं ज्ञानत्वात् इत्यत्र साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थितिजनके ज्ञानत्वेऽतिव्याप्तिवारणार्थम्; तस्य ज्ञानत्वस्य निर्विषयत्वादौ साध्ये विरुद्धत्वेन लक्ष्यत्वादेव सङ्ग्राह्यत्वम्, तदा पक्षधर्मतापदं व्यर्थम्, स तु लक्ष्य एवेति नातिव्याप्तिः / ननु ज्ञानं घटविषयकं ज्ञानत्वात् इत्यत्र साध्यसन्देहजनकप्रामाण्याप्रामाण्यरूपकोटिद्वयोपस्थितिजनके ज्ञानत्वेऽतिव्याप्तिवारणार्थं पक्षधर्मतापदमित्यत आह - सविषयत्वादाविति टीका / तथा चेदं ज्ञानं घटविषयकं ज्ञानत्वात् अयं तु व्यभिचारित्वेन सङ्ग्राह्य एव, ज्ञानं सविषयकं ज्ञानत्वात् इत्यत्र सद्धेतावतिव्याप्तिवारणाय पक्षधर्मतापदमित्यत आह - अन्यादृशस्य चेति टीका / यस्य साध्यस्य ज्ञानत्वमव्याप्यं तादृशव्यभिचारिविरुद्धबहिर्भूतसाध्यं नास्तीत्यर्थः / उपसंहरति - तस्मादिति। यदि [221 A] विरुद्धस्यासङ्ग्राह्यत्वं सव्यभिचारमध्ये न गण्य इति यावत् तदा व्यभिचारित्वभ्रमविषयीभूते विरुद्धेऽतिव्याप्तिः। तथाहिशब्दो नित्यः कृतकत्वात् इतिनित्यत्वाभावव्याप्तं कृतकत्वमस्ति, तत्र व्यभिचारित्वभ्रमोजातो यथाऽयं व्यभिचारीति, तदा तत्र सौ(स)व्यभिचारिवत् साध्यतद्(द)भावकोटिद्वयोपस्थापकत्वं वर्तते पक्षधर्मताज्ञानविषयत्वमपि वर्तते इति कृत्वा तत्रातिव्याप्तिः / यदि चेति / विरुद्धस्य यदि सव्यभिचारित्वेन सङ्ग्रहस्तदा ज्ञानं निर्विषयकं ज्ञानत्वात् इत्यत्रातिव्याप्तिर्न भवत्येव तस्यापि सव्यभिचारित्वेन सङ्ग्राह्यत्वात्, तत्रातिव्याप्तिवारणार्थं यत् पक्षधर्मतापदं व्यर्थमेवेति चिन्त्यार्थः / पक्षधर्मतापदसार्थकत्वार्थं स्वयं समाधान वदति - येयमिति टीका।साध्यतदभावकोट्युपस्थापकपक्षधर्मताज्ञानविषयत्वमित्यत्र पक्षधर्मताप्रमाविषयत्वम्, तथा च यदंशे साध्यतदभावकोटिद्वयोपस्थापकत्वं तदंशे प्रमात्वं बोध्यम्, तथा च यदंशे पक्षधर्मताप्रमा तया पक्षधर्मताप्रमया साध्यतदभावसन्देहजनककोटिद्वयोपस्थापकत्वं तदंशे विवक्षितम् / ततः किमित्यत आह - तेनेति टीका / तथा च स्वरूपासिद्धसङ्कीर्णे व्यभिचारिणि नाव्याप्तिः / तथाहि ह्रदो धूमवान् वढेरिति स्वरूपासिद्धसङ्कीर्णो व्यभिचारी, तत्र नाव्याप्तिः, तत्र वह्नौ स्वरूपासिद्धत्वमपि तिष्ठति व्यभिचारित्वमपि तिष्ठति / ततो वह्निरूपहेतोर्यद्रूपविषयत्वेन साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं तदंशे प्रमात्वं बोध्यम् / भवति चवहिर्व्यभिचारित्वेन सङ्ग्राह्यः / कथम् ? व्यभिचारित्वविषयकवह्निज्ञानस्य साध्यतदभावसन्देहजनक