________________ हेत्वाभासप्रकरणे सव्यभिचारः पस्थापकत्वं नास्ति / कुतो नास्ति इत्यत आह - घटादिवृत्तिताज्ञानविरहादिति टीका / तस्मात् सर्वं ज्ञानं निर्विषयकं ज्ञानत्वात् इत्यत्र ज्ञानत्वरूपो यः साधारणो धर्मः प्रमाऽप्रमोभयवृत्तिः तत्साधारणधर्मदर्शनात् प्रामाण्याप्रामाण्यसंशयद्वारा ज्ञानं निर्विषयं न वेति संशयो जायते। निर्विषयत्वसंशयविषयवृत्तित्वज्ञानविषयतया साध्यसन्देहजनककाटिद्वयोपस्थापकत्वं ज्ञानत्वे नास्तीति कृत्वा ज्ञानत्वे नातिव्याप्तिरित्यर्थः / अत्र शङ्कते - नन्विति / व्यभिचारादिभ्रमविषयीभूते सद्धेतावतिव्याप्तिः / तथाहि पर्वतो वह्निमान् धूमात् इत्यत्र वह्नयभाववद्वृत्तिधूम इति भ्रमे साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वं वर्तते, यथा व्यभिचारिणि वह्नयादौ व्यभिचारिप्रमातः साध्यसन्देहजनककोटिद्वयोपस्थितिर्जायते तथा सद्धेतावपिव्यभिचारभ्रमात् साध्यसन्देहजनककोटिद्वयोपस्थितिर्जायते यथा अयं वह्निमान् न वेतिरूपा इति सद्धेतावप्यतिव्याप्तिः / मध्ये शङ्कतेन चेति टीका / तथा च सद्धेतौ हेत्वभिमतपदेन हेत्वाभासपरेण तद्वारणम्, तथाहि व्यभिचारलक्षणे हेत्वभिमतत्वस्थाने हेत्वाभासत्वमभिमतमिति तेनैव न तत्रातिव्याप्तिरित्यर्थः / अत्र दूषणमाह - अपक्षधर्मेति टीका। तथा च ह्रदो वह्रिमान् धूमात् इत्यत्राव्यभिचारिणि व्यभिचारिभ्रमविषये तथाप्यतिव्याप्तिः / कथम् ? अस्मिन् ह्रदे धूमाभावात्स्वरूपासिंद्धे साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वं वर्तते अथ चहेत्वाभासत्वमपि वर्तते, अतस्तत्रातिव्याप्तिः / मध्ये शङ्कते - न चेति टीका। तादृशेति टीका / साध्यसाध्याभावकोट्युपस्थापकप्रमाविषयत्वं विवक्षितम् / अतोऽपक्षधर्मे धूमे व्यभिचारभ्रमविषयीभूते साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वं नास्तीति कृत्वा नातिव्याप्तिरित्यर्थः / अत्र दूषणमाह - हेत्वभिमतेति टीका। व्याभिचारिभ्रमविषयीभूते सद्धेतौ अतिव्याप्तिवारणार्थं हेत्वभिमतपदं दत्तम्, तच्च व्यर्थम् सद्धेतौ साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताप्रमाविषयत्वाभावादेव न तत्रातिाव्याप्ति]रितिसमग्रसव्यभिचारलक्षणे पूर्वपक्षः / अयमत्र प्रघट्टार्थः / साध्यसन्देहजनककोटिद्वयोपस्थापकपक्षधर्मताप्रमाविषयत्वं [220 B] चेत् विवक्षितं तदा हेत्वभिमतपदं हेत्वाभासपरं व्यर्थम् / यदि च भ्रमसाधारणसाध्यसन्देहजनककोटिद्वयोपस्थापकं चेत् विवक्षितं तदा सद्धेतौ व्यभिचारभ्रमविषयीभूतेऽतिव्याप्तिवारणार्थं हेत्वभिमतपदस्य सार्थकत्वेऽपि हेत्वभिमतपदसार्थक्येऽपिअपक्षधर्मधूमे स्वरूपासिद्धे व्यभिचार(रि)भ्रमविषयीभूतेऽतिव्याप्तिरिति। अत्रकेषाञ्चित् समाधानमाह - मैवमिति टीका / हत्वभिमतपदस्यार्थः / साध्याव्याप्यत्वं साध्यस्याव्याप्यो यो हेतुरित्यर्थः / साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं तुभ्रमप्रमासाधारणम्, तथा चसद्धेतौ व्यभिचारभ्रमविषयीभूतेऽपक्षधर्मे धूमे तादृशव्यभिचारविषयीभूते व्यभिचारभ्रमविषयीभूते साध्याव्याप्यत्वपदेनैवातिव्याप्तिवारणात् स तु धूमः साध्यव्याप्य एवेति न तत्रातिव्याप्तिः / अत्र साध्याव्याप्यत्वपरत्वकरणे चिन्त्यमाह - तत्रेति टीका / तत्रेति चिन्त्यमिति अग्रेतनेनान्वयः। चिन्त्यबीजमिदमाह - अव्यभिचारित्वादिति टीका।हेत्वभिमतपदं यदि साध्या