________________ 430 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञानविषयत्वे सति साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं ज्ञानत्वेऽतिव्याप्तमेव / तथाहि यद्यपि पर्वतपक्षकवयादिसाध्यकस्थले ज्ञानत्वे पक्षधर्मताज्ञानविषयत्वे सति साध्यसन्देहजनककोटिद्वयोपस्थिति स्ति तथापि ज्ञानपक्षके पक्षधर्मताज्ञानविषयतया [219 B] साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं वर्तते / सर्वं ज्ञानं निर्विषयकं ज्ञानत्वात् इत्यत्र निर्विषयकत्वसविषयकत्वानुमितौ जातायां पश्चाद् यदा तस्यामनुमितौ प्रामाण्याप्रामाण्यसन्देहो जायते तदा इदं लक्षणमतिव्याप्तम् / ज्ञानत्वं पक्षवृत्तिताज्ञानविषयो भवति पक्षे ज्ञाने ज्ञानत्वस्य वृत्तित्वात् / ननु एतस्यापि व्यभिचारित्वात् कथमतिव्याप्तिः / अयमपि सङ्ग्राह्यो भवत्येवेति चेत् / न, व्यभिचारास्फूर्तिदशायां ज्ञानत्वे साध्यतदभाववृत्तित्वमपि यत्र उपस्थितं नास्ति नापि साध्यतदभाववव्यावृत्तत्वं नाप्यनुपसंहारित्वमुपस्थितं तस्यां दशायां ज्ञानत्वेऽतिव्याप्तेः / कथम् ? यथा वह्रिज्ञाने ज्ञानत्वसाधारणधर्मदर्शनमात्रात् प्रामाण्याप्रामाण्यसंशयः तदनन्तरं वह्नितदभावसंशयः तद्वत् प्रकृते यत्र निर्विषयकत्वज्ञाने ज्ञानत्वसाधारणधर्मदर्शनमात्रादेव साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकत्वं तत्र पक्षधर्मताज्ञानविषयत्वमपि वर्तते, साध्यसन्देहजनककोटिद्वयोपस्थिति प्रामाण्याप्रामाण्यकोटिद्वयोपस्थितिस्तज्जनकत्वमप्यस्तीति तत्र ज्ञानत्वेऽतिव्याप्तिः, न चायं व्यभिचारीति वाच्यम् एतस्य विरुद्धत्वात् / ज्ञानत्वस्य निर्विषयत्वाभावेनैव सह व्याप्तिः, यदज्ञानत्वं तद् निर्विषयत्वाभावो यः सविषयकत्वं तेनैव सह व्याप्तमिति विरुद्धेऽलक्ष्येऽस्मिन् अतिव्याप्तिः / एतदेवाह - प्रामाण्येति टीका। एतावता प्रबन्धेन साध्यसन्देहजनककोटिद्वयोपस्थापकात्वं] ज्ञानत्वस्योपपादितं भवति / अथ पक्षधर्मताज्ञानविषयत्वमपि तस्योपपादयति - तत्रेति टीका। तत्र ज्ञानत्वे निर्विषयत्वसंशयविषयीभूतं यज्ज्ञानं तद्वृत्तित्वज्ञानविषयत्वं ज्ञानत्वे तिष्ठति इति कृत्वा पक्षधर्मताज्ञानविषयत्वमपि तत्र तिष्ठतीति ज्ञानत्वे सम्पूर्ण सव्यभिचारलक्षणमतिव्याप्तम् / तथात्वादिति टीका। साध्यसंदेहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वादित्यर्थः / समाधत्ते - न हीति टीका। तथा चायमर्थः - पक्षधर्मताज्ञानविषयतया यत्र साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं तत्त्वं(त्र) सव्यभिचारत्वम् / ज्ञानत्वे तु निर्विषयत्वसाध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकत्वं यत् तत् निर्विषयत्वरूपसंशयविषयवृत्तित्वेनैवेतिनास्ति।अत्र बाधकमाह - अन्यथेतिटीका।यदिज्ञानत्वस्य निर्विषयत्वसंशयविषयवृत्तिताज्ञानविषयतयैव साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं स्यात् तदा घटादिज्ञानेऽपि प्रामाण्याप्रामाण्यसंशयो जायते, न हि तत्र निर्विषयत्वासंशयाविषयवृत्तिताज्ञानं तिष्ठति / एतदेवाह - ज्ञानत्वस्येति टीका। यदि निर्विषयत्वसंशयविषयवृत्तिताज्ञानविषयतयैव [220 A] साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं स्यात् [तर्हि) अयं घटः कम्बुग्रीवादिमत्त्वात् [इति] अत्र घटज्ञाने ज्ञानत्वसाधारणधर्मदर्शनात् यः प्रामाण्यसंशयो जायते स न स्यात् / तत्र ज्ञानत्वे साध्यसंशयो घटत्वसंशयः तद्विषयो घट: तद्वृत्तित्वज्ञानविषयतया साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयो