________________ हेत्वाभासप्रकरणे सव्यभिचारः 429 वदिष्यति तदुपसंहारी योऽसिद्धः तत्रातिव्याप्तम् इति व्यभिचारलक्षणे एकदेशी दोषं वदिष्यति, दोष निवारयितुं मूलकारो वदति - अनुपसंहारी नासिद्धान्तर्भूतः किन्तु व्यभिचारमध्य एवान्तर्भूत इति वक्तुमयं विभागः कृतः सामान्यलक्षणात् प्राक् / तस्मादयमर्थः - कस्यापि वादिनो मतेऽनुपसंहारी असिद्धान्तर्भूतत्वादलक्ष्यः, तन्मतं वारयितुमनुपसंहारी व्यभिचारान्तर्भूतो लक्ष्य एवेति प्रतिपादयितुं विभागः कृत इति / एतदेवाह - तदन्तर्भूतत्व इति टीका / व्यभिचारान्तर्भूतत्व इत्यर्थः / ननु व्यभिचारिणि साध्यतदभावोपस्थापकत्वं कथं नास्तीत्यत आह - प्रसञ्जकत्वमिति टीका / प्रसञ्जकत्वं [219 A] साधकत्वम् आपादकत्वं व्याप्यत्वम(मि)ति र्या (या)वत् तच्च विरुद्धम्, उभयस्यैकसाधकाभावात् / न हि साध्यसाध्याभावव्याप्यमेकं सम्भवति / एकस्योभयं प्रति अव्याप्यत्वादित्यर्थः / साध्यवदिति टीका / उभयपक्षवृत्तित्वं साध्यवति वर्तमानत्वं साध्याभाववति च वर्तमानत्वम् / अनुपसंहारिणि तु हेतौ पक्ष एव साध्यसाध्याभाववद्वृत्तित्वं वर्तत इति कृत्वा लक्षणमुपपन्नं त्रितयसाधारणम् / ननूभयव्यावृत्तत्वं धूमेऽपि तिष्ठति सपक्षादयोगोलकात् तस्य व्यावृत्तत्वात् विपक्षाच्च ह्रदादेरपि व्यावृत्तत्वाच्चेत्यत आह सर्वेति विशेषणम् / धूमादेः सर्वसपक्षविपक्षव्यावृत्तत्वं नास्ति / ततो न धूमेऽतिव्याप्तिरित्यर्थः / ननु साध्यसन्देहजनकत्वं कोटिद्वयस्य नास्त्येव यतः कोटिद्वयज्ञानेन सन्देहो जन्यते न तुकाटिद्वयेनेत्यतआह -साध्यसन्देहजनिकायाकोटिद्वयोपस्थितिः।सा का इत्यत आह - साध्यतदभावोपस्थितिः / तज्जनकं यत् पक्षधर्मताज्ञानं तद्विषयत्वे सतीत्यर्थः / अत्राशङ्कते - नन्विति / पक्षधर्मतापदं व्यर्थम् / साध्यसन्देहजनककोटिद्वयोपस्थापकज्ञानविषयत्वे सति हेत्वभिमतत्वमित्येवास्तु, पक्षधर्मतापदं व्यर्थमित्याशङ्कार्थः / कस्यचिन्मतेन समाधानमाह - साध्यसन्देहेति टीका।प्रामाण्यसन्देहात् विषयसन्देहोऽनुभवसिद्धः। यत्रसाध्यज्ञाने प्रामाण्यसन्देहात् साध्यसन्देहो जातः तत्र कथं साध्यसन्देहो जन्यते ?|| तथा च(हि) साध्यज्ञाने ज्ञानत्वं प्रमाऽप्रमासाधारणवृत्तीति ज्ञानत्वसमानदर्शनात् प्रामाण्याप्रामाण्योपस्थितिर्जायते सा च संशयरूपा, तया प्रामाण्याऽप्रामाण्यसंशयरूपोपस्थित्या साध्यसन्देहो जन्यते। तथा चेदं लक्षणं ज्ञानत्वेऽतिव्याप्तमित्याशङ्कार्थः / तथा च तत्रातिव्याप्तिवारणार्थं पक्षधर्मतापदम् / एवं च ज्ञानत्वेऽतिव्याप्तिर्न भवति / पक्षवृत्तिताज्ञानं नाम साध्यसंशयविषयवृत्तिताज्ञानम्, साध्यसंशयविषयो यः पक्षस्तदृत्तित्वज्ञानविषयत्वं न च ज्ञानत्वम्, साध्यसन्देहविषयो यः पर्वतस्तद्वृत्तित्वज्ञानं ज्ञानत्वे तिष्ठतीतिज्ञानत्वेऽतिव्याप्तिर्न भवतीत्यर्थः / परिहारमाह-नचेति टीका / ज्ञानत्वे यत् साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं प्रामाण्याप्रामाण्यसंशयजनकत्वलक्षणं तत् न संशयविषयपर्वतादिवृत्तित्वज्ञानविषयतया / अयमर्थः - ज्ञानत्वं तु ज्ञानवृत्तितयैव प्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकम्, न तु पर्वतवृत्तितया / तस्मात् ज्ञानत्वस्य पक्षवृत्तित्वज्ञानविषयतया न साध्यसन्देहकोटिद्वयोपस्थापकत्वं किन्तु ज्ञानवृत्तितयैव। अत्राशङ्कते - नन्विति टीका।तथा चसम्पूर्ण सव्यभिचारलक्षणं पक्षवृत्तित्व