________________ 428 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका लक्षणं तदप्यननुगतम्, यद्यपि असाधारणे वर्तते तथापि साधारणे नास्तीत्यननुगतम् / अथ लक्षणान्तरमुद्भाव्य दूषयति - अथेतिमूलम्।साध्येतिमूलम् ।साध्यस्य यः सन्देहस्तस्य जनिका याकोटिद्वयोपस्थितिः तस्या जनकं यत् पक्षधर्मताज्ञानं तद्विषयत्वे सति हेत्वभिमतत्वमिदं पर्वतो धूमवान् वढेरिति अत्र वर्तते। कथम् ? वह्निमत्त्वज्ञानं सपक्षविपक्षसाधारणत्वज्ञानेन साध्यसन्देहजनककोटिद्वयोपस्थितिजनकं भवति। वढेधूमवति धूमाभाववति च वर्तमानत्वादुभयकोट्युपस्थितिर्जायते / अनेन वह्निहेतुनाधूमवदुपस्थितिर्जायतेधूमाभाववदुपस्थितिरपिजायते। तयोपस्थित्या संशयो जायते यथाऽयं धूमवान् धूमाभाववान् वा। इदं साधारणोदाहरणम्। असाधारणोदाहरणम्शब्दोऽनित्यः शब्दत्वात् इति / अत्र शब्दत्वस्य सपक्षविपक्षव्यावृत्त्या साध्यस्य साध्याभावस्य चोपस्थितिजनकत्वम्, यत् एकसम्बन्धिदर्शनमपरसम्बन्धिस्मारकं भवति यथोच्चत्वस्योभयमपिस्थाणुत्वं पुरुषत्वमप्युभयं सम्बन्धि तेनोच्चत्वमुभयस्मारकं भवति / एवं शब्दत्वमुभयव्यावृत्तमिति कृत्वा उभयस्मारकं भवति / तया चोभयोपस्थित्या सन्देहश्चजायते।शेष टीकायाम्। नन्विदं विप्रतिपत्तौ अतिव्याप्तम्, तथाहि विरुद्धार्थप्रतिपादकं वाक्यं विप्रतिपत्तिः यथा शब्दोऽनित्य इत्येकेनोक्तम् अपरेण च शब्दो नित्य इत्युक्तम् / तदा मध्यस्थस्योभयोपस्थितिर्जायते / तदनन्तरं मध्यस्थस्य संशयः इति कृत्वा विप्रतिपत्तिवाक्यस्य साध्यसन्देहजनाकाकोटिद्वयोपस्थितिजनकत्वमस्त्येवेत्यतिव्याप्तिः / साऽतिव्याप्तिन भवति। कुत इत्यत आह - प्रत्येकमिति मूलम्। . प्रत्येकं यथा शब्दो नित्य इत्युच्यमानेऽनित्यस्योपस्थितिर्न जायते नित्यत्वस्योपस्थितिरेव जायते / अनित्य इत्युच्यमानेऽनित्यत्वस्यैवोपस्थितिर्जायते। उभयोपस्थितेरभावात् इति कृत्वानोभयोपस्थितिजनकत्वम् अथवा पक्षधर्मताज्ञानविषयत्वमपि नास्ति / विप्रतिपत्तेः पक्षवृत्तित्वाभावात् नातिव्याप्तिरित्यर्थः / साध्यसन्देहजनककोटिद्वयोपस्थितिजनकत्वमेव विवृणोति - साधारणमिति मूलम् / साधारणमन्वयेन वढ्यादिकं हेतुः सपक्षविपक्षयोरपि वर्तते इति कृत्वोभयोपस्थापकम् / असाधारणं तु व्यतिरिकेण सपक्षविपक्षोभयव्यावृत्त्या साध्यतदभावोपस्थितिजनकम् / अनुपसंहारित्वं सर्वमनित्यं प्रमेयत्वादित्यत्र साध्यतदभावोपस्थितिजनको भवति, पक्षे उभयसाहचर्यात् / अथ टीका यथा। सामान्यलक्षणमनुक्त्वैव मूलकृता विभागः कृतः सव्यभिचारस्य। तत्राक्षिपति - यद्यपीति टीका / सामान्यलक्षणानन्तरमेव विभागो युक्तः / यदि ततः पूर्वमेव विभागः क्रियते तदा को दोष इत्यत आहअप्राप्तकालतेति टीका / अनाकाङ्किताभिधानेऽप्राप्तकालता यतोऽत्र सामान्यलक्षणानन्तरमेव विभाग आकाक्षितः, सामान्यलक्षणात्यदिपूर्व विभागः क्रियते तदाऽनाकाङ्क्षिताभिधाने निग्रहस्थानमिदं स्यादित्यर्थः / समाधत्ते - तथापीति टीका।सामान्यलक्षणमकृत्वा यत्सव्यभिचारस्य विभागः कृतः तत्र बीजं किञ्चिदिष्टमस्ति तदाह - अनुपसंहारीति। यदिसामान्यलक्षणात्पूर्वं विभागोन क्रियते तदा वक्ष्यमाणं यद् व्यभिचारलक्षणमेकदेशी