________________ / हेत्वाभासप्रकरणे सव्यभिचारः। सव्यभिचारोऽपि विविधः साधारण-असाधारण-अनुपसंहारिभेदात् / तत्र सव्यभिचारः साध्यतदभावप्रसञ्जक इति न त्रितयसाधारणं लक्षणम् एकस्योभयं प्रति असाधकत्वात् अनापादकत्वाच्च / नाप्युभयपक्षवृत्तित्वम् उभयव्यावृत्तत्वं वा तत्त्वम् अननुगमात् / अथ साध्यसंशयजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वे सति हेत्वभिमतः सः, विप्रतिपत्तिस्तु प्रत्येकं न तथा न वा पक्षवृत्ति: साधारणमन्वयेन असाधारणं व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण कोटिद्वयोपस्थापकः / सव्यभिचारस्य विभागमाह - साधारणेति मूलम् / सव्यभिचारस्य लक्षणमाह - तत्रेति मूलम् / सव्यभिचारलक्षणे इत्यर्थः / वार्तिीकाकारोक्तं व्यभिचारलक्षणं दूषयति - साध्यतदभावेति मूलम् / येन हेतुना साध्यमप्यापादयितुंशक्यते साध्याभावोऽप्यापादयितुंशक्यतेससव्यभिचारः / लक्षणं दूषयति - साध्यतदभावेति मूलम् / यथा पर्वतो धूमवान् वढेः इत्यत्र हेतुर्वह्निः धूमसहचरितत्वात् धूमापादकः, धूमाभावसहचरितत्वात धूमाभावस्याप्यापादक इत्येवं साधारणे व्यभिचारिणि लक्षणं वर्तते; एवमसाधारणे यथाशब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वमनित्येभ्यो व्यावृत्तमिति कृत्वा नित्यत्वस्यापादकं नित्यादेरपि व्यावृत्तमिति कृत्वाऽनित्यत्वस्यापादकम्, पक्षे एव वर्तमानत्वात् असाधारण: शब्दत्वम् / अनुपसंहारी यथा घटोऽनित्यो घटाकाशान्यतरत्वात्, घटाकाशान्यतरत्वं हेतुः, न चास्यानित्यत्वेन सहचारो न नित्यत्वेन सहचारः, किं पक्षे वर्तमानो हेतुर्नित्यत्ववति वाऽनित्यत्ववति वेति कृत्वाऽयमपि साध्यतदभावापादक(कः) / तेन इदं त्रितयसाधारणं लक्षणम् / दूषयति - एकस्येति मूलम् / एकस्य हेतोः साध्यसाध्याभावोपस्थापकत्वं नास्ति विरुद्धत्वात् / न ह्येकं साध्यसाधकं तत् कदापि साध्याभावसाधकं भवति / न हि वह्रिसाधको धूमो वह्नयभावसाधको भवति / तथा चेदं लक्षणं सव्यभिचारलक्षणं दुष्टम्। लक्षणान्तरमुपन्यस्य दूषयति - नापीति मूलम्। उभयपक्षवृत्तित्वं सपक्षविपक्षवृत्तित्वं हेतोः सव्यभिचारः यथा पर्वतो. धूमवान् वढेः इत्यत्र वर्हतो(वह्निर्हेतुः) धूमाभावावादयोगोलकवृत्तिः अथ धूमवन्महानसवृत्तिरपि भवति / नन्विदमसाधारणेऽव्याप्तम् / कथम् ? तस्य विपक्षवृत्तित्वाभावात् इत्यत आह - उभयेति मूलम् / मास्तु सपक्षविपक्षोभयवृत्तित्वं लक्षणं तस्य किन्तु सपक्षविपक्षोभयव्यावृत्तत्वं तु अस्ति, तच्च शब्दोऽनित्यः शब्दत्वात् इत्यत्र वर्तते येन शब्दत्वस्य [218 B] सपक्षविपक्षोभयव्यावृत्तत्वमस्ति। एतद् दूषयति - अननुगमादिति मूलम् / यदि सपक्षविपक्षोभयवृत्तित्वं लक्षणं सव्यभिचारस्य तदाऽसाधारणे नास्ति तेनासाधारणसाधारणयोरनुगतमेकं लक्षणं नास्ति इति कृत्वा अननुगतमिदं लक्षणम्। एवमुभयपक्षव्यावृत्तत्वं यत्